TransLiteral Foundation

अरण्यकांडम् - काव्य ५१ ते १००

अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ५१ ते १००
सदा रा वरजं राममगस्त्योऽभ्यर्च्य, वैष्णवम्‍
धनुः शरं ब्रह्मदत्तं तूर्णा चाक्षयसायकौ ॥५१॥
ददौ म हासिं चोवाच, ` महेंद्रेणेदमर्षितम्‍,
जयाय प्रतिगृह्णीष्व त्वमायुधमनुत्तमम्. ' ॥५२॥
रामः श्री मान्गृहीत्वा तान्याहुधानि महामुनिम्‍
ननाम यस्याशनितो न नाम ह्यूनमोजसा. ॥५३॥
` कांता रा खिन्नचित्तेयं कांता राम ! तवोचिता
धन्यां जनकराजस्य कन्यां मन्यामहे वयम्‍. ' ॥५४॥
एवं म नोहरां वाचं वदंतं कुंभसंभवम्‍
उवाच प्रांजलिर्नत्वा सत्वाकारो रघूत्तमः. ॥५५॥
` सानु ज स्य सभार्यस्य गुणैस्तुष्टोऽसि मे गुरो
धन्योऽस्म्यनुगृहीतोऽस्मि वस्तुं देशं तु बोधय. ' ॥५६॥
वासा य ते स्थलं राम ! गोदावर्यास्तटेऽनघे
ख्यातं पंचवटीत्यास्ते कुरु तत्राश्रमं शुभम्‍. ' ॥५७॥
इत्य रा तिवधोद्युक्त उक्तस्तेन महर्षिणा
तं प्रणम्य रघूत्तंसस्ततः पंचवटीं ययौ. ॥५८॥
स भी म विक्रमो रामो गच्छन्‍ पंचवटीं पथि
आससादांतरा गृध्रं महाकायं महामतिम्‍. ॥५९॥
सानु ज स्तं प्रभुर्गृध्रं मेने मनसि राक्षसम्‍,
` को भवानि'ति पप्रच्छ स चाह प्रीतमानसः. ॥६०॥
` सखा य मात्मनो विद्धि पितुर्दशरथस्य माम्‍
वत्स ! रामारुणसुतं गृध्रं नाम्ना जटायुषम्‍. ॥६१॥
अग्र ज न्मा च मे नाम्ना संपातिरिति विश्रुतः
सहायस्ते भविष्यामि रक्षिष्ये जानकीं वने. ॥६२॥
तं व य स्यं पितुः प्रेम्णा प्रतिपूज्य, ` स्नुषामिमाम्‍
तात ! त्वं पालये ' त्युक्त्वा रामः पंचवटीं गतः. ॥६३॥
रुचि रा मग्रजाज्ञातः पर्णशालां महामतिः
पंचवट्यां चकाराशु सौमित्रिर्मित्रवत्सलः. ॥६४॥
तस्यां म नुष्यचरितः ससीतः सानुजः सुखम्‍
उवाच भगवान्‍ रामो मुनिवृत्तिं समाश्रितः. ॥६५॥
तत्र श्री मद्वरं रामं हेमंते प्रेक्ष्य राक्षसी
यदृच्छयागता पापा बभूव स्मरमोहित, ॥६६॥
स्वसा रा क्षसराजस्य रंडा शूर्पणखाभिधा
समासाद्य सुदुर्वुता सद्वृत्तमशिवा शिवम्‍. ॥६७॥
अस म र्था समर्थं तं सुस्वरं भैरवस्वना
प्रियरूपं विरूपा सा वृद्धा तरुनमब्रवीत्‍. ॥६८॥
` कस्त्वं ज टी शस्त्रधरः सभार्यो यातुसेवितम्‍
इमं देशं कथं प्राप्तः किमागमनकारणम्‍ ? ' ॥६९॥
रामो य थावदखिलं ऋजुबुद्धितयेव ताम्‍
आदितः कथयामास विस्तराद्वृत्तमात्मनः. ॥७०॥
तां च रा मेऽ`स्यये का त्वं मनोज्ञांगीह राक्षसी
प्रतिभासि मम ब्रूहि तत्त्वेने'त्यवदत्प्रभुः. ॥७१॥
वृत्तं म धुरवाग्‍ व्यक्तं कथयामास कामुकी,
` अहं शूर्पणखा नाम राक्षसी कामरूपिणी. ॥७२॥
भ्राता ज गद्रावणो मे यदि ते श्रीत्रमागतः
प्रवृद्धनिद्रश्च सदा कुंभकर्णो महाबलः. ॥७३॥
तथा य तात्मा धर्मज्ञस्त्यक्तराक्षसचेष्टितः
बिभीषणः, ख्यातवीर्यौ भ्रातरौ खरदूषणौ. ॥७४॥
तेभ्यो ज न्मत एवाहं वीर्येणाभ्यधिका सदा
त्वामुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्‍. ॥७५॥
चिरा य भव मे भर्ता, सीतया किं करिष्यसि ?
विकृता च विरूपा च न सेयं सदृशी तव. ॥७६॥
अहं रा मानुरूपा ते भार्यारूपेण पश्य माम्‍
इमां तेऽहं सह भ्रात्रा भक्षयिष्यामि मानुषीम्‍. ' ॥७७॥
एव म स्या वचः श्रुत्वा प्रहस्याह विशारदः
` कृतदारोऽस्मि भवति ! भार्येयं दयिता मम. ॥७८॥
शृणु श्री मति ! रामाणां त्वद्विधानां तु सर्वथा
स्वचंदचित्तवृत्तीनां सुदुःखा ससपत्नता. ॥७९॥
एष रा जीवनयनोऽकृतदारो गुणाकरः
एनं भज विशालाक्षि ! भर्तारं भ्रातरं मम. ' ॥८०॥
सा का म मोहिता रामं विसृज्योवाच लक्ष्मणम्‍,
` अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी. ॥८१॥
मां भ ज प्रियमत्यंत त्वं वने प्राप्स्यसि ध्रुवम्‍
ततः शूर्पणखीं स्मित्वा सौमित्रिर्युक्तमब्रवीत्‍. ॥८२॥
` यवी य सी भवार्यस्य भार्या त्वं मदिरेक्षणे !
कथं दासस्य मे दासी भार्या भवितुमिच्छसि ? ॥८३॥
एतां रा त्रिंचरि ! स्पष्टं विरूपां निर्णतोदरीम्‍
वृद्धां भार्यां परित्यज्य त्वामेवैष भजिप्यति. ॥८४॥
रूप म त्यद्भुतमिदं को हि संत्यज्य सुंदरि !
मानुषीषु वरारोहे ! कुर्याद्भावं विचक्षणः ? ' ॥८५॥
सोत ज स्थं पुना रामं परिहासाविचक्षणा
सीतया सह दुर्धर्षमब्रवीत्काममोहिता. ॥८६॥
इमां य स्मादवष्टभ्य विरूपामसतीं स्त्रियम्य़
अनुरूपां सकुलजां न मां त्वं बहु मन्यसे, ॥८७॥
तदो ज सैतामद्याहं भक्षयिष्यामि मानुषीम्‍
त्वया सह चरिष्यामि निःसपत्ना यथासुखम्‍. ' ॥८८॥
अन्या य वृत्तेत्युक्त्वा सा तां मृगाक्षीमलतदृक्‍
अभ्यगच्छत्सुसंक्रुद्धा महोल्का रोहिणीमिव. ॥८९॥
तां क्रू रा मसतीं वाचा निगृह्य कुपितः प्रभुः
उवाच लक्ष्मणं, ` क्रूरैः परिहासो न संमतः, ॥९०॥
इमां म त्तामसाध्वीं त्वं विरूपामतिदारुणाम्‍
राक्षसींण पुरुषव्याघ्र ! विरूपयितुमर्हसि. ; ॥९१॥
इति श्री मत आर्यस्य श्रुत्वाज्ञां लक्ष्मण कृती
उद्धृत्य खङ्गं चिच्छेद तस्या नासां श्रुती च सः. ॥९२॥
प्रख रा सिच्छिन्नकर्णानासात्युग्रं विनद्य सा
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्‍. ॥९३॥
तदा म होग्रा सा पापा राक्षसी शोणितोक्षिता
ननाद विविधान्नादान्यथा प्रावृषि तोयध. ॥९४॥
स्वाग्र ज स्य खरस्यार्ता जनस्थानगतस्य सा
पपात पुरतः क्रूराकाराऽकाशादिवाशनिः. ॥९५॥
खरो ऽय शस्करं दृष्ट्वा तत्तां पप्रच्छ, ` केन ते
दुर्दशेयं कृता ब्रूहि कोंऽगुल्या प्रतुदत्यहिम्‍ ? ॥९६॥
न सु रा णां पतिः शक्रं शक्तः कर्तुं ममाप्रियम्‍
कोऽयमेवं महावीर्यस्त्वां विरूपां चकार यः ? ॥९७॥
संख्ये म या हतस्योग्रैः शरैः संकृत्तमर्मणः
सफेनं रुधिरं कस्य मेदिनी पातुमिच्छति ? ' ॥९८॥
सा व्या ज हार, ` तरुणौ सुकुमारौ महाबलौ
पुंदरीकविशालाक्षौ चीरकृष्णजिनांबरौ ॥९९॥
सव य स्कौ धर्मरतौ फलमूलाशनौ मुनी
पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ. ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:36.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

philistinism

  • पु. उदरभरणैकवादी 
  • पु. क्षुद्रव्यवहारवादी 
  • पु. फिलिस्टिनिझम् 
RANDOM WORD

Did you know?

Every hindu follows different traditions, can you explain how?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.