अरण्यकांडम् - काव्य १५१ ते २००

अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


हता ज नस्थानगताः सर्वे रामेण राक्षसाः
न तस्य पुरतः स्थातुं शक्यमद्भुततेजसः. ॥१५१॥
वृत्ता य तभुजः श्यामो रामो राजीवलोचनः
दृष्टः पलायमानैस्तैः सर्वैरेवाग्रतः स्थितः. ’ ॥१५२॥
‘ स्वयं ज नस्थानमहं गमिष्यामि सलक्ष्मणम्
रामं हंतु’मिति प्राह क्रोधांधो दशकंधरः. ॥१५३॥
प्रल य ज्वलनाकारं तमाहाकंपनः, ‘ प्रभो !
असाध्यः कुपितो रामो विक्रमेण महायशाः. ॥१५४॥
नहि रा जन् स रामोऽद्य शक्यो जेतुं रणे त्वया
समग्रै राक्षसैर्वापि स्वर्गः पापजनैरिव. ॥१५५॥
न तं म न्ये वध्यमहं सर्वैर्देवासुरैरपि.
अयं तस्य वधोपायस्तमाकर्णय मन्मुखात्. ॥१५६॥
तस्य श्री रिव भार्यास्ते सीता नामातिसुंदरी,
श्यामा समविभक्तांगी स्त्रीरत्नं रत्नभूषिता. ॥१५७॥
तां ह राशु प्रलोभ्य त्वं प्रथमं राममत्यरिम्
सीतया रहितः क्षिप्रं सोऽसह्यो न भविष्यति. ’ ॥१५८॥
मत्वा म तं हितं तस्य तमुवाचार्थ रावणः,
‘ बाढं प्रातर्गमिष्यामीहानयिष्यामि तामहम्. ॥१५९॥
ततोऽ ज लब्धैः प्रवरैर्वरैर्मत्तो दशाननः
सीतां हर्तुमनाः क्षिप्रं लंकाया निर्गतो बळी. ॥१६०॥
स वि य त्पथमाविश्य रथमारुह्य कामगम्
उत्तरं तीरमगमत्तीर्त्वा नदनदीपतिम्. ॥१६१॥
प्राप रा क्षराराट् तूर्णं ताटकातनयाश्रमम्.
तं मारीचोऽर्चयामास भक्ष्यभोज्यैरमानुषैः. ॥१६२॥
स्वाश्र म प्रपतमधिपं स मारीचोऽब्रवीदिदम्,
‘ कच्चिते कुशलं राजन् ! किमर्थं तूर्णमागतः ? ’ ॥१६३॥
तं रा ज राजावरजः प्राह, ‘ रामेण तात ! मे
जनस्थानमवध्यं तत्सर्व युधि निपातितम्. ॥१६४॥
सहा य स्त्वं भवाद्यांग तद्भार्याहरणे मम. ’
इत्युक्तो राक्षसेंद्रेण मारीचो वाक्यमब्रवीत्, ॥१६५॥
‘ त्वया ज गत्पते तात ! को न नंदति नंदितः
आख्याता केन वा सीता मित्ररूपेण शत्रुणा ? ॥१६६॥
नेदं य शस्करं कर्म, स्वदारेषु रमस्व, सः
सभार्यो रमतां रामो वनेषु, स्वपुरं व्रज. ’ ॥१६७॥
एवं रा क्षसराडुक्तो मारीचेन हितैषिणा
न्यवर्तत पुरीं लंकां विवेश च गृहोत्तमम्. ॥१६८॥
अथा म रारिमभ्येत्य लंकायां भ्रातरं निजम्
मुखं शूर्पणखा भद्रं विरूपितमदर्शयत्. ॥१६९॥
‘ हत श्री स्त्वं स्वसः ! केन कृतैवं वद सत्वरम ’
रुदतीमिति पप्रच्छ रावणः क्रोधमूर्छितः ॥१७०॥
साह, ‘ रा मस्य दयितां त्वदर्थं हर्तुमुद्यता
भ्रातस्तस्यानुजेनाहं लक्ष्मणेन विरूपिता. ॥१७१॥
त्वं प्र म त्तः कामभोगे स्वैरवृत्तो निरंकुशः
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे. ॥१७२॥
त्वम ज स्रं विगृह्यार्यैर्देवगंधर्वदानवैः
अयुय्क्तचारश्चपलः कथं राजा भविष्यसि ? ॥१७३॥
विष य स्यावनेऽशक्तो जनस्थानक्षयं भयम्
रामाद्दाशरथेः प्राप्तं न जानासि जडोऽस्यलम्. ॥१७४॥
न चा रा यस्य स ह्यंधो राजानश्चारचक्षुषः
विपन्नराज्यो न चिराद्विपत्तिं प्राप्स्यसेऽवशः. ॥१७५॥
त्वं स म र्थोऽसि चेत्सत्यं रत्नभोक्ता दशानन् !
रामस्य दयितां सीतां स्त्रीरत्नं भुंक्ष्व तेजसा. ॥१७६॥
सा रा ज ते स्वरूपेण साक्षाच्छ्रीरिव जानकी,
न तादृशी दृष्टपूर्वा श्रुतपूर्वापि वांगना. ॥१७७॥
सीता य स्य भवेद्भार्या यं च हृष्टा परिष्वजेत्
अभिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात्. ’ ॥१७८॥
भूयो ज गाम रामस्य हर्तुं भार्यां स रावणः
पिशाचास्यैः खरैर्युक्तं रथामारुह्य कामगम्. ॥१७९॥
तन य स्याश्रमं प्राप्तस्ताटकायाः पुनर्द्रुतम्
दृष्ट्वा चतुः शतक्रोशशाखं पथि महावटम् ॥१८०॥
आद रा त्पूजयित्वा तं मारीचः प्राह रावणम्,
राजंस्ते कुशलं कच्चित्किं पुनस्तूर्णमागतः ? ॥१८१॥
ततो म नुष्यभुग्भर्ताऽब्रवीन्मारीच ! सर्वथा
रामः पित्रा परित्यक्तो दुर्वृत्तोऽपदभागिति. ’ ॥१८२॥
मम श्री मत उद्वृत्तो रामो वैरं विना रणे
जनस्थानं जघानांग ! स्वसारं च व्यरूपयत्. ॥१८३॥
हत्वा रा त्रिंचरान्सर्वान्सखरान् सहदूषणान्
दत्तवानभयं तत्र मुनिभ्यः परमोद्धतः. ॥१८४॥
कृत्वा म माप्रियं धृष्टो निर्दयो भूतहिंसकः
न बिभेति मनुष्योऽपि मत्तो मत्तो जयश्रिया. ॥१८५॥
रक्षो ज नेश्वरस्याद्य सहायो भव मे सखे !
सौवर्णस्त्वं मृगो भूत्वा सीतायाः प्रमुखे चर. ॥१८६॥
त्वामा य ताक्षी दृष्ट्वैव सौवर्णं मृगमद्भुतम्
‘ गृह्यतामिति ’ भर्तारं लक्ष्मणं चाभिधास्यति. ॥१८७॥
तयो रा श्रमतो जातेऽपगमे तां यथासुखम्
निराबाधो हरिष्यामि कृतार्थेनान्तरात्मना. ’ ॥१८८॥
इत्थ म स्य वचः श्रुत्वा मारीचस्य महात्मनः
शुष्कं समभवद्वक्त्रं, परित्रस्तो बभूव सः. ॥१८९॥
कृतां ज लिस्तं प्रोवाच हितं तस्यात्मनश्च यत्
‘ मां मैवं वद, उद्वृत्त इति त्यक्तो न राघवः. ॥१९०॥
पित्रा य दुक्तं तत्सत्यं कर्तुं काननमागतः
रामो जगद्धितस्त्राता सतां हंताऽसतां प्रभुः. ॥१९१॥
कथं ज नकजां हर्तुं वांच्छसे दशकंधर !
शौर्यमत्यद्भुतं तस्य वेद्म्यहं त्वं न वेत्सि तत्. ॥१९२॥
त्वमा य त्तः कथं मर्तुं जातोऽस्यास्थाय साहसम्
नैव धर्षयितुं शक्या दीसस्याग्नेः शिखेव सा. ॥१९३॥
मुने रा श्रम एतेन गाधिजस्यावताध्वरम्
शरेण ताडितः क्षिप्तः समुद्रे शतयोजने. ॥१९४॥
नैवं म र्तु त्वया कार्य राजंस्त्वां नानुयाम्यहम्
रामभूतमिदं सर्वमरण्यं प्रतिभाति मे. ॥१९५॥
नमां श्री मंतमेवं त्वं वक्तुमर्होऽद्य मे वचः
नो चेत्करोषि मारीच ! हन्मि त्वाहमसंशयम्. ॥१९६॥
एवं रा क्षसराजोक्तो मारीचः स उवाच तम्
श्रेयो मे मरणं रामान्न त्वत्तोऽतो व्रजाम्यहम्. ॥१९७॥
ध्रुवं म रिष्यस्याचिरात्त्वं तु पुत्रादिभिः सह, ’
इत्युक्त्वा स्पष्टमुद्रृत्तं सन्नद्धोऽभूत्स राक्षसः. ॥१९८॥
स रा ज राजावरजस्तं परिष्वज्य सांत्वयन्
रथं तेन सहारुह्य गतः पंचवटीं द्रुतम्. ॥१९९॥
राज्ञा य थोक्तो मारीचो रथादुत्तीर्य सत्त्ववान्
मृगो भूत्वाश्रमद्वारि रामस्य विचचार सः. ॥२००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP