अरण्यकांडम् - काव्य २०१ ते २५०

अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


रुचि रा क्ष्या मृगं दृष्ट्वा तमत्यद्भुतदर्शनम्
उत्सृज्य पुष्पावचयमाहू तौ रामलक्ष्मणौ. ॥२०१॥
तौ रा म लक्ष्मणौ वीरावाहूतौ मंक्षु सीतया
वीक्षमाणौ तु तं देशं रम्यं ददृशतुर्मृगम्. ॥२०२॥
रामं ज गाद सौमित्रि ‘ र्नास्ति रत्नमयो मृगः
तमेवैतमहं मन्ये मारीचं पापरूपिणम्. ॥२०३॥
स्व मा य या विविधया चरंतो मृगयां वने
अनेन हि हता राम राजानो बहवः पुरा. ’ ॥२०४॥
तं सा ज नकजा वीरं प्रविवार्याशु लक्ष्मणम्
उवाच रामं संहृष्टा छद्मना हृतचेतना, ॥२०५॥
आन य त्वं मृगं धृत्वा क्रीडार्थं नो भविष्यति,
आर्यपुत्राभिरामोऽसौ भृशं हरति मे मनः. ॥२०६॥
सृम रा श्चमराश्चान्ये दृष्टा नानाविधा मृगाः
नानेन सदृशो राजन् ! दृष्टपूर्वो मृगो मया. ॥२०७॥
मृगो म मायं श्वश्रूणां भरतस्य तवापि च
अंतःपुरे वसन्नित्यं विस्मर्थ जनयिष्यति. ॥२०८॥
यदि श्री मान्न ग्रहणं जीवन्नभ्येत्ययं मृगः
अजिनं नरशार्दूल रुचिरं तु भविष्यति. ’ ॥२०९॥
इति रा भावचः श्रुत्वा रामो लक्ष्मणमब्रवीत्,
‘ वत्स ! त्वदुक्तं चेत्सत्यं कार्यो रक्षोवधो मया. ॥२१०॥
अस्या म हान्महो नो चेद्गृहीतेनास्य वा त्वचा
सीतां रक्षन् वसात्रैव यावदागमनं मम. ’ ॥२११॥
एवं ज लजपत्राक्ष उक्त्वा खङ्गी धनुर्धरः
मायामृगं सुचपलं त्वरयानुससार तम्. ॥२१२॥
स भ य व्याकुलो राममापतंतं धनुर्धरम्
बभूवांतर्हितो दृष्ट्वा पुनः संदर्शनेऽभवत्. ॥२१३॥
तमा रा न्निर्गतं दृष्ट्वा दृश्यादृश्यं वने मृगम्
छिन्नाभ्रैरिव संवीतं शारदं चंद्रमंडलम् ॥२१४॥
अरि म र्दनमुग्रेषुं चापे संधाय राघवः
मुमोच ज्वलितं कोपादस्त्रं ब्रह्मविनिर्मितम्. ॥२१५॥
भृशं ज वेन हृदयं तस्येषुर्निर्बिभेद सः
तालमात्रमथोत्प्लुत्य न्यपतत्स भृशातुरः. ॥२१६॥
सम य प्राप्तमाज्ञाय स चकार ततः स्वनम्
सदृशं राघवस्येव ‘ हा ! सीते ! लक्ष्मणेति ’ च. ॥२१७॥
तत्या ज मृगरूपं तन्मारीचो जीवितं च सः
जगाम मनसा सीतां रामो भ्रातुर्वचः स्मरन्. ॥२१८॥
सभ य स्तं स्वनं श्रुत्वा प्रभुरप्यभवद्वने
अचिंतयत्कथं सीता लक्ष्मणश्च कथं भवेत्. ॥२१९॥
ससा रा श्रममेवान्यं निहत्य पृषतं प्रभुः
तन्मांसं द्रुतमादाय भृशं मनसि शंकितः. ॥२२०॥
आर्तं म हास्वनं श्रुत्वा भर्तुर्ज्ञात्वा भयाकुला
उवाच लक्ष्मणं सीता, ‘ गच्छ जानीहि राघवम्. ॥२२१॥
वशं श्री मंतमापन्नं राक्षसां त्रातुमर्हसि
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥२२२॥
भर्तुं रा र्तस्य शब्दोऽलं क्रोशतोऽद्य श्रुतो मया
न हि मे जीवितं स्थाने हृदयं वावतिष्ठते. ’ ॥२२३॥
जगा म न तथोक्तः स भ्रातुराज्ञाय शासनम्
तमुवाच ततस्तत्र क्षुभिता जनकात्मजा. ॥२२४॥
‘ न व्र ज स्याशु कस्मात्त्वं त्रातुं प्राणप्रियं मम
सौमित्रं ! मित्ररूपेण भ्रातुः शत्रुरसि ध्रुवम्. ॥२२५॥
अस्यां य स्त्वमवस्थायां भ्रातरं नाभिपद्यसे
इच्छसि त्वं विनश्यंतं रामं लक्ष्मण ! सत्कृते. ’ ॥२२६॥
तद्धी रा श्राव्यमाकर्ण्य सीतां सौमित्रिरब्रवीत्,
‘ सुरासुरैरशक्यस्ते भर्ता जेतुं न संशयः. ॥२२७॥
न त्वा म स्मिन् वने हातुमुत्सहे राघवं विना.
अनिवार्यं बलं तस्य बलैर्बलवतामपि, ॥२२८॥
रामो ज गत्यवध्यास्तं प्रतियुध्येत कः पुमान् ?
रक्षसः स स्वरो देवि ! नैवं त्वं वक्तुमर्हसि. ॥२२९॥
मृगं य मक्षयं नीत्वा शीघ्रं रामो महायशाः
आगमिष्यति ते भर्ता यर्तायुर्द्विषतां मृधे. ॥२३०॥
त्वं त्य ज त्रासमार्येण न्यस्तासि मयि मैथिलि !
रक्षसां वैरमस्माभिस्त्वां त्यक्तुं नोत्सहे वने. ’ ॥२३१॥
क्रुद्धा य थार्थवाचं तमुवाचारक्तलोचना
अनार्थकरुणारंभ ! नृशंस ! कुलपांसन ! ॥२३२॥
अहं रा मस्य मन्ये ते व्यसनं परमं प्रियम्
नैव चित्रं सपत्नेषु पापं लक्ष्मण ! यद्भवेत्. ॥२३३॥
रामं म त्कृत एवैकमेकोऽरण्येऽनुगच्छसि
सुदुष्टस्त्वं प्रतिच्छन्नः प्रयुक्तो भरतेन वा. ॥२३४॥
रामं श्री मंतमाश्रित्य कामयेयं कथं परम्
समक्षं तव सौमित्रे ! प्राणांस्त्यक्ष्याम्यसंशयम्. ’ ॥२३५॥
निष्ठु रा णि वचांस्युक्तः सीतां प्रांजलिवब्रवीत्,
‘ उत्तरं नोत्सहे वक्तुं दैवतं भवती मम. ॥२३६॥
वाक्य म प्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि !
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ॥२३७॥
वचो ज नककन्येऽहमीदृशं न सहे तव
श्रोतयोरुभयोर्मध्ये तप्तनाराचसंनिभम् ॥२३८॥
धिक्त्वां य दद्य मामेवं नश्यंती त्वं विशंकसे
गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने ! ’ ॥२३९॥
स दा रा नग्रजख्यार्तः प्रणम्य रचितांजलिः
बहुशोऽवेक्ष्य तां रामसमीपं सत्वरं ययौ. ॥२४०॥
आश्र म स्थां तदा सीतामभिचक्राम रावणः
क्षिप्रभंतरमासाद्य परिव्राजकवेषधृक्. ॥२४१॥
रक्षो ज वेनाससाद तां ताभ्यां रहितां वने
वियुक्तां चंद्रसूर्याभ्यां संध्यामिव महत्तमः. ॥२४२॥
सभ य स्तत्क्षणे वातो निश्चलोऽभूद् द्रुंमव्रजः
स्तिमितं गंतुमारेभे गोदावर्यपि तद्भयात्. ॥२४३॥
तां रा ज कन्यां कामार्तः प्रशशंस दशाननः,
‘ मनो हरसि रूपेण नदीकूलमिवांभसा. ॥२४४॥
सुव य स्ते विशालाक्षि ! श्रीर्वा त्वमथवा रतिः
अत्यद्भुतभिदं रूपं क्कापि दृष्टं नहीदृशम्. ॥२४५॥
का त्वं रा मे ! वने सिंहव्याघ्रराक्षससेविते,
ब्रूह्यहं श्रोतमिच्छामि नाम वृत्तं च देवि ! ते. ’ ॥२४६॥
पूज्यं म र्त्याशनं मत्वा भिक्षुमाश्रममागतम्
कथयामास वैदेही निजवृत्तमशेषतः. ॥२४७॥
‘ मम श्री मान् दशरथः श्वशुरो, जनकः पिता,
रामो दाशरथिर्भर्ता, वनवासो गुरोर्गिरा. ॥२४८॥
न घो रा रण्यवासो मे भयदः पत्युरोजसा
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्. ॥२४९॥
वस्तु म त्र त्वया शक्यं, गोत्रं नाम च किं तव
एकश्च दंडकारण्ये किमर्थं चरसि द्विज ! ’ ॥२५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP