TransLiteral Foundation

अरण्यकांडम् - काव्य १ ते ५०

अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य १ ते ५०
रामः श्री मान्स प्रविश्य दंडकारण्यमात्मवान्‍
ददर्श तत्र पुण्याढ्यं तापसाश्रममंडलम्‍. ॥१॥
सुचि रा हितसंकल्पा रुचिराशिं तपोदनाः
श्रीरामं पूजयामासू राक्षसेभ्योऽभयार्थिनः. ॥२॥
जगा म तैरनुज्ञातस्तस्मादाश्रममंडलात्‍
विराधं राक्षसं रामो ददर्शातीव भीषणम्‍. ॥३॥
सीतां ज ग्राह सहसा सोऽभिद्रुत्य निशाचरः
बाणैर्विद्धोऽपि, तां त्यक्त्वा, तावुभौ रामलक्ष्मणौ ॥४॥
धृत्वा य यौ बलान्न्यस्य स्कंधे बालाविवेश्वरौ.
रुरोद सीता शोकार्ता ततः क्रुद्धौ बलांबुधी ॥५॥
प्रव रा भ्यामसिभ्यां तं चक्रतुर्बाहुवर्जितम्‍
उद्यम्योद्यम्य बाहुभ्यां स्थंडिले निष्पिपेषतुः. ॥६॥
विद्धो म र्मण्यपि शरैश्छिनबाहुश्च मुष्टिभिः
पार्ष्णिभिर्मर्दितो गाढं तथापि न ममार सः. ॥७॥
गाढं ज गत्पतिः कंठे पादेनाक्रम्य राक्षसम्‍
उवाच लक्ष्मणं, ` गर्ते पिहितोऽयं मरिष्यति. ॥८॥
मुक्तो य क्षेशशापात्तं राघवं प्राह तुंबरुः,
` शरभंगं मुनिं गच्छ स ते श्रेयो विधास्यति. ' ॥९॥
गर्ते ज गत्यां निक्षिप्य मृदापूर्य निशाचरम्‍
शरभंगाश्रमं सीतामाश्वास्याभिजगाम सः. ॥१०॥
उद य स्थमिवादित्यं दूरात्संप्रेक्ष्य वासवम्‍
शरभंगेन संमंत्र्य तस्मिन्नपगते प्रभुः ॥११॥
सदा रा ध्य स्वयं रामः सदारानुजनिर्मुनिम्‍
स्वनाम संकीर्त्य ततो ननाम विनयेन तम्‍ ॥१२॥
` कोऽय म त्रागतो देव ' इति पृष्टो महामुनिः
शरभंगोऽब्रवी, ` द्राम मां नेतुं हरिरागतः, ॥१३॥
सोऽहं श्री मंतमभ्यर्च त्वां प्रियातिथिमागतम्‍
बह्मलोकं गमिष्यमि त्वत्समक्षं जगद्गुरो ! ' ॥१४॥
इति रा जीवनेत्रं तमुक्त्वा संपूज्य सादरम्‍
प्रविश्याग्नौ क्षणादेव दिव्यरूपोऽभवन्मुनिः. ॥१५॥
पिता म हादिभिर्देवैर्देवर्षिभिरूपागतैः
नीतो विमानमारोप्य रामदर्शननिर्वृतः. ॥१६॥
समा ज स्तत्र तत्रत्यमहर्षीणां रघूत्तमम्‍
सत्कृत्य दर्शयामास राक्षसैर्निहतान्मुनीन्‍. ॥१७॥
तेभ्यो य शस्विप्रवरोऽभयं दत्वाऽभयप्रदः
शरभंगप्रकथितं सुतीक्ष्णाश्रममभ्यगात्. ॥१८॥
तं स्म रा धिकलावण्यं सदारं सानुजं नतम्‍
आलिंग्य मूर्ध्न्यवघ्राय सुतीक्ष्णोऽतीव निर्वृतः. ॥१९॥
पर म प्रेमलात्‍ तस्मात्प्राप्य सत्कारमुत्तमम्‍
अन्यानपि ययौ द्रष्टुं दंडकारण्यवासिनः. ॥२०॥
मार्गे ज नकजोवाच, ` हिंसा नेष्टा तपोवने. '
तामाह, ` ब्रह्मराक्षार्थं हिंसा कार्ये 'ति राघवः. ॥२१॥
रामो य यौ वने धन्वी कवची सासिरग्रतः
मध्ये सीता, पृष्ठतस्तु लक्ष्मणोऽ‍नुजगाम ताम्‍. ॥२२॥
ते यो ज नायतं सायं तटाकं ददृसुर्वने
गीतवादित्रनिर्घोषं तस्मिन्‍ शुश्रुवुरद्भुतम्‍. ॥२३॥
विस्म य स्य पदं रामः पप्रच्छ सहवासिनम्‍
मुनिं धर्मभुतं नाम, स प्राह रघुनंदन ! ॥२४॥
` अम रा स्तपसो भीता मांडकर्णेर्महात्मनः
विघ्नं कर्तुं योजितास्तैः पंचापस्रस उत्तमाः. ॥२५॥
नीतो म दनवश्यत्वं ताभिरत्न स तापसः
तासां सरसि रामायं गीतवादित्रसत्ध्वनिः. ' ॥२६॥
श्रुत्वा श्री मान्‍ ` महाश्चर्यमि ' त्याह जयतां वरः
जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्‍. ॥२७॥
भूसु रा णामाश्रमेषु रममाणस्य सत्पतेः
सुखेन दंडकारण्ये ययुः संवत्सरा दश. ॥२८॥
आश्र म प्रवरं रामः सुतीक्ष्णस्य मुनेः पुनः
जगाम न्यवसत्तत्र कंचित्कालमरिंदमः. ॥२९॥
घट ज स्याश्रमं रामः सुतीक्ष्णप्रोक्तवर्त्मना
गच्छंस्तद्भ्रातुरभ्यागादाश्रमं प्रथमं पथि. ॥३०॥
कथा य शस्करीं रामः कुंभजस्य महात्मनः
वातापील्वलयोर्हंतुः कथयामास सन्मताम्‍. ॥३१॥
भ्रातु रा श्रममासाद्य क्कुंभयोनेस्तपोनिधेः
रामः सीता च सौमित्रिः सत्कृतिं प्राप्य निर्वृताः. ॥३२॥
जगा म तदनु भ्रात्रा सीतयानुगतः पथि
पुण्यरम्याश्रमपदं रामः कलशजन्मनः. ॥३३॥
अनु ज न्मानमनुगं लक्ष्मणं राघवोऽब्रवीत्‍,
` आश्रमोऽयं भगवतो यच्छांता मृगपक्षिणः. ॥३४॥
भ्रातु रा श्रममासाद्य कुंभयोनेस्तपोनिधेः
रामः सीता च सौमित्रिः सत्कृतिं प्राप्य निर्वृताः. ॥३५॥
यत्ते ज सोऽनिशं भीतो विंध्योऽद्यापि न वर्धते,
वत्स ! किं बहुनोक्तेन पीतो येनाखिलोंऽबुधिः. ॥३६॥
विन य ज्ञोऽसि सौमिखे ! तात ! त्वं प्रविशाग्रतः
निवेदयेह मां प्राप्तमृषये सह सीतया. ' ॥३७॥
उदा रा मुक्तिमाकर्ण्य प्रविश्याश्रममद्भुतम्‍
अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच सः, ॥३८॥
` पुत्रो म हीपतेर्ज्येष्ठो रामो दशरथस्य यः
प्राप्तो द्रष्टुं मुनिश्रेष्ठं भार्यया सह सीतया. ॥३९॥
अहं श्री मत एतस्य भक्तो भ्रातानुजो द्विज !
द्रष्टुमिच्छामहे सर्वे भगवंतं निवेद्यताम्‍. ' ॥४०॥
सोऽग्नेरा लयमासाद्य प्रोवाच प्रांजलिर्गुरुम्‍,
भगवन्‍ ! सीतया प्राप्तौ त्वां द्रष्टुं रामलक्ष्मणौ. ॥४१॥
श्रुत्वा म हात्मा तं प्राह, ` वत्स ! किं न प्रवेशितौ ?
मयापि  रामगमनं मनसा कांक्षितं चिरम् ॥४२॥
सानु ज न्मानमाशु त्वं ससीतं राममानय. '
इत्युक्तः स तथेयुक्त्वा लक्ष्मणं प्राह तापसः, ॥४३॥
` दर्श य क्काग्रजस्तेऽयं भगवांस्तं प्रतीक्षते
सभार्यः स मुनिं द्रष्टुमेतु प्रविशतु स्वयम्. ' ॥४४॥
स त्व रा वान्सुमित्रायाः पुत्रस्तमृषिमात्मनः
अग्रजं दर्शयामास रामं सीतासमन्वितम्‍. ॥४५॥
शिष्यो म हर्षेस्तद्विद्वान्‍ प्रश्रितं वचनं ब्रुवन्‍
प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम्‍. ॥४६॥
रामो ज नकजा देवी लक्ष्मणाश्चाश्रमे मुनेः
देवस्थानानि पश्यंतः प्रवेशं चक्रुरुत्सुकाः. ॥४७॥
ततो य थाभ्रात्तिग्मांशर्निर्गतोऽग्निगृहान्मुनिः,
तं दृष्ट्वा राघवः प्राह, ` पश्य लक्ष्मण ! यः श्रुतः, ॥४८॥
सोऽयं ज गति विख्यातः कुंभजन्माऽपरो विधिः
औदार्येणावगच्छामि निदानं तपसामिदम्‍. ' ॥४९॥
आम्ना य राशेस्तस्याथ सीतया सह सानुजः
पादौ जग्राह विनयाद्रामः सद्धर्मपालकः. ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:36.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sporulation

  • न. Bot.(the formation of spores esp. division into many small spores) बीजाणुकजनन 
  • न. बीजाणुकजनन 
  • बीजुकनिर्मिती 
  • बीजुके निर्माण होण्याची प्रक्रिया. 
More meanings
RANDOM WORD

Did you know?

गुरूंचे प्रकार किती? अधिक स्पष्ट करावे?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.