TransLiteral Foundation

अरण्यकांडम् - काव्य २५१ ते ३००

अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य २५१ ते ३००
एवं ज नककन्यायां ब्रुवयां स महाबलः
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः. ॥२५१॥
‘ लोका य स्मादिभे त्रस्ताः सदेवासुरमानुषाः
अहं स रावणो नाम सीते ! रक्षोगणेश्वरः. ॥२५२॥
रुचि रा क्षीं सुवर्णां त्वां श्रुत्वा दृष्ट्वातिसुंदरीम्,
रुचिं स्वकेषु दारेषु नाधिगच्छाम्यनिंदिते ! ॥२५३॥
उत्त म स्त्रीसहस्राणामाहृतानामितस्ततः
सर्वासामेव, भद्रं ते, ममाग्रमहिषी भव. ॥२५४॥
लंका ज लधिना सीते परिक्षिप्ता पुरी मम,
तस्यामुपवने साकं मया त्वं विचरिष्यसि. ॥२५५॥
भार्या य दि त्वं भवसि मम सद्रत्नभूषिताः
दास्यः परिचरिष्यंति त्वां पंचाशच्छतान्ययि. ’ ॥२५६॥
तं सा ज नकजोवाच, ‘ शार्दूलात्वोर्यदंतरम्
यत्तार्क्ष्यकाकयो राज्ञस्तस्य ते च तदंतरम्. ॥२५७॥
रक्षो य दंतरं लोके स्पष्टं सिंहसृगालयोः
तदंतरं राघवस्य तव च क्षुद्र ! किं त्वया ? ॥२५८॥
स्थिते रा जीवनयने रामे नाथे धनुर्धरे
हृताप्यहं त्वया पाप ! गमिष्ये नैव ते वशम्. ’ ॥२५९॥
इति म न्युमती सीता तमुक्त्वा रजनीचरम्
वेपमाना बभौ तन्वी प्रवाते कद्दलीव सा. ॥२६०॥
दृष्ट्वा श्री जानकीं भीत्या वेपमानां दशाननः
स्वरूपं कालरूपाभं भेजे भृशभयंकरम्. ॥२६१॥
दिक्शि रा विंशतिभुजो नीलजीमोतसन्निभः
रक्तांबरधरः प्रेक्ष्य मैथिलीं रावणोऽब्रवीत्. ॥२६२॥
‘ सीते ! म नोरथस्ते चेत्त्रिषु लोकेषु विश्रुतम्
मामाश्रय वरारोहे ! तवाहं सदृशः पतिः. ॥२६३॥
आत्म ज स्तेन राज्ञा स स्वपदे स्थापितः प्रियः
मंदवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम्. ॥२६४॥
तेना य ताक्षि ! किं राज्यच्युतेन गतचेतसा
करिष्यसि वरारोहे ! तापसेन वितेजसा ? ॥२६५॥
निःस्वे रा मे पितृत्यक्ते तपस्विनि मितायुषि
कैर्गुणैरनुरक्तासि मूढे ! पंडितमानिनि ? ॥२६६॥
त्यक्त्वा म हीं स्त्रीवचसा योऽस्मिन्वसति कानने
स्नेहः कस्तत्र दुर्बुद्धौ मयि भावोऽस्तु ते चिरम्. ’ ॥२६७॥
एवं ज नकजामुक्त्वा स वामेन करेण ताम्
केशेषु दक्षिणेनोर्वोः परिजग्राह साहसी. ॥२६८॥
आदा य सीतामंकेन रथमारोपयत्तदा,
प्राद्रवन्मृत्युसंकाशं तं दृष्ट्वा वनदेवताः. ॥२६९॥
परि ज ग्राह स यदा दारुणः प्रसभेन सा
अतिचुक्रोश, ‘ हा राम ! हा रामे’ति भृशातुरा. ॥२७०॥
आदा य तां विचेष्टंतीं पन्नगेंद्रवधूमिव
सकाम आश्रमात्तस्मादुत्पपात स तार्क्ष्यवत्. ॥२७१॥
सीता रा क्षसराजेन हियमाणा विहायसा
भृशं चुक्रोश मत्तेव, ‘ सौमित्रे ! किं न पासि माम् ? ॥२७२॥
कथं म हाभुज त्वंमां ह्रियमाणां न रक्षसा
जानीषे तात ! सौमित्रे ! गुरुचित्तप्रसादक ! ॥२७३॥
कथं श्री मन् प्राप्तकलं शासनं न करोष्यरौ ?
ननु नामाविनीतानां विनेतासि परंतप ! ॥२७४॥
पाप ! रा क्षस ! कर्मैतत्कुरुषे कालमोहितः
जीवितांतकरं घोरं रामाद्वयसनमाप्नुहि. ॥२७५॥
यः का म स्ते स कैकेयि ! सिद्धोऽद्य सुखमाप्नुहि,
आमंत्रये जनस्थानं वंदे गोदावरीं नदीम्. ॥२७६॥
देवा ज नस्थानगता ये मृगास्तरवोऽद्रयः
नमस्करोमि तेभ्योऽद्य शरणं यामि तानहम्. ॥२७७॥
रामा य शंसत क्षिप्रं दुरात्मा रावणो बलात्
मामकामां हरत्येष व्याघ्रो बालमृगीमिव. ॥२७८॥
मां त्व रा वान्महातेजाः परलोकगतां प्रभुः
आनेष्यति प्रियां भार्यां वैवस्वतहृतामपि. ’ ॥२७९॥
एवं भ हीजा करुणं विलपंती सुदुःखिता
वनस्पतिगतं गृध्रं दृष्ट्वोवाचायतेक्षणा. ॥२८०॥
‘ हं हो ज टायो ! पश्यार्य ! ह्रियमाणां बलेन माम्
वधूमनाथामिव ते रक्षसानेन पापिना. ॥२८१॥
आर्या य मद्य नो शक्यः क्रूरो वारयितुं त्वया
सत्त्ववान् न्नितकाशी च सायुधश्चापि दुर्भतिः. ॥२८२॥
सरो ज लोचनायेदं रामाय हरणं मम.
आख्यातव्यमशेषेण लक्ष्मणाय च धीमते. ’ ॥२८३॥
महा य शाः स सुप्तोऽपि शुश्रुवेतां वधूगिरम्
ददर्श रावणं गृध्रो वैदेहीं च स्नुषां निजाम्. ॥२८४॥
स तं रा त्रिंचराधीशं व्याजहार शुभां गिरम्,
‘ शृणु भ्रातर्द्शग्रीव ! जटायुर्नाम विश्रुतः ॥२८५॥
अह म स्य वनस्येशो गृध्रराजः पुरातनः
सख्युर्दशरथस्येयं स्नुषः मम च धर्मतः. ॥२८६॥
रामः श्री मान् सर्वलोकराजः सर्वहिते रतः
तस्यैषा दयिता साध्वी मुंचैनां मानयं कुरु. ॥२८७॥
इमां रा क्षसराज ! त्वं मयि त्रातरि जीवति
न नयिष्यसि रामस्व्य प्रियां गीतामलंक्रियाम्. ॥२८८॥
कार्यं म या प्रियं सर्वं तस्यावश्यं महात्मनः
जीवितेनापि रामस्य तथा दशरथस्य च. ॥२८९॥
अहं ज राग्रस्ततनुः शक्तिहीनश्चिरंतनः
षष्टिर्वर्षसहस्राणि जातस्य मम रावण ! ॥२९०॥
त्वं व य स्यद्य मध्येऽसि रथी खङ्गी शरासनी
तथापि कुशली सीतामादाय न गमिष्यसि. ’ ॥२९१॥
इति रा क्षसराजः स श्रुत्वा क्रुद्धः खगेश्वरम्
अभिदुद्राव निःसीमः समरोऽभूत्तयोर्द्वयोः. ॥२९२॥
सोऽत्य म र्षणमुग्रेषून् पक्षाभ्यां प्रविधूय तम्
रावणं विरथं चक्रे शक्रेष्वशनिभंगदम्. ॥२९३॥
बभं ज कार्मुकं तस्य चरणाभ्यां खगेश्वरः
द्वितीयं च, नखैस्तस्य व्रणान् गात्रे चकार सः. ॥२९४॥
तत्का य त्राणमपि च व्यधुनोद् गृध्रसत्तमः
अंकेनादाय वैदेहीं पपात भुवि रावणः. ॥२९५॥
अंड ज प्रवरं दृष्ट्वा जरया श्रांतमाशु सः
उत्पपात पुनर्हृष्टो मैथिलीं गृह्य राक्षसः. ॥२९६॥
निधा य जानकीमंके खङ्गशेषं दशाननम्
गच्छंतं स समुत्पत्य तमावार्याब्रवीद्रुषा. ॥२९७॥
‘ तस्क रा चरितो मार्गो नैष वीरनिषेवितः
स्त्रीरत्नमेतद्बडिशं त्वं मीनो राक्षसाधनम ! ’ ॥२९८॥
उक्त्वा म त्तं मनस्व्येवं तत्पृष्ठं विददार श
अधिरूढो गजारोहो यथा स्याद्दुष्टावारणम्. ॥२९९॥
पुनः श्री मान् स प्रहारान् दुःसहानकरोद्भृशम्
केशांश्चोत्पाटयामास नखपक्षमुखायुधः. ॥३००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:37.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

alluvial soil

  • जलोढ मृदा 
  • Geol. जलोढ मृदा 
  • जलोढ मृदा 
RANDOM WORD

Did you know?

पितापुत्र अथवा भाउ भाउ एकाच नक्षत्रावर जन्मले असता त्याचे काय परिणाम होतात? उपाय काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.