TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

श्रीदत्तचंपू: - द्वितीयस्तबक:

श्री. प. प.वासुदेवानन्दसरस्वतीकृतं श्रीगुरुचरित्रकाव्यम्


द्वितीयस्तबक:
सर्वात्मनोsस्य भजको विधुतान्यभाव:
कस्याप्यृणी न सकलेशितुरुत्स्वभाव: ॥
हृत्स्थस्य तु प्रियतमोsस्तयमो भवारे-
र्जेता त्वमेव स च मे कुहृदो भवारे: ॥१॥
जात: शत्रुजितस्त्वृतध्वज इति ख्यात: सुत: शत्रुजि -
द्योsहन्गालवयज्ञभड्क्तृदनुजं क्रोडाङ्गमुर्वीतले ॥
वव्रे तेन हृतां प्रसह्य च सुतां विश्वावसो: सन्मतां
दैवेनोपगतां तत: कुवलयाश्वाख्यां गतोsन्यार्पिताम् ॥२॥
( इन्द्रवज्रावृत्तम् ) गन्धर्वपुत्री तु मदालसाख्या सख्या प्रयत्नेन नृपाय दत्ता ।
चित्तानुसारिण्यभवद्धवद्धवस्य या पात्रभूता परमोद्धवस्य ॥३॥
( उपजातिवृत्तम् ) पातालकेतोर्निहतासुरस्य स तालकेतु: सहजश्चिरस्य ॥
वने मुनि: सन्नृपवञ्चनार्थं यथार्थमुर्वीशमयाचतार्थम् ॥४॥
( अनुष्टुप वृत्तम् ) तस्मै कुवलयाश्वोsदाद्यज्ञसम्पत्तये मुदा ॥
हिरण्मयीं कण्ठभूषां वेषान्तरजुषे मृषा ॥५॥
( अनुष्टुप वृत्तम् ) तामादाय स तद्राष्ट्रं क्षिप्रमागत्य मायिक: ॥
श्रृण्वतां तत्र सर्वेषां भूषां दत्वावदन्मृषा ॥६॥
( अनुष्टुप ) स्मरन्वैर द्विषन्दैत्यो वनेsहन्नेकलं नृपं ॥
दग्ध आरण्यकैरेषा तद्भूषा मे वचोsमृषा ॥७॥
( अनुष्टुप ) इत्युक्त्वागात्स तद्भूषां योषादाय मदालसा ॥
विवेशाग्नौ ततो भूप एत्याश्रौषीत्तदभ्दुतम् ॥८॥
( अनुष्टुप ) प्रियानृण्याय राड् भोगं त्यक्त्वाsसंगं वने वसन् ॥
कम्बलाश्वाहितनयैर्विनयै: सङ्गतोsभवत् ॥९॥
( रथोद्धतावृत्तम् ) पुत्रमित्रसुकलत्रलब्धये वाक्प्रसादवशत: कृपाब्धये ॥
रम्यमश्वतरकाद्रवेश्वर: संजगौ प्रमुदितस्तदेश्वर: ॥१०॥
( अनुष्टुप ) वयोवर्णाकृतिगतिध्वानैस्तुल्या मदालसां ॥
प्राग्वद्वव्रे तथेतीश आभाष्यांतरधात्पुन: ॥११॥
( अनुष्टुप ) शिवप्रसादाच्छ्राद्धीयमध्यपिण्डाशनादहे: ॥
पत्न्या निश्वासतो जज्ञे पूर्ववत्सा मदालसा ॥१२॥
( अनुष्टुप ) सा स्वप्नोत्थितवद् बुत्ध्वा दीनवत्पर्यदेवयत् ॥
हा नाथानन्यशरणां मां हित्वाद्य क्क यास्यसि ॥१३॥
( अनुष्टुप ) इत्यहिर्विलपन्तीं तामाश्वास्यानाय्य तत्पतिम् ॥
तस्मै कुवलयाश्वाय विधिनादान्मदालसाम् ॥१४॥
सपारिबर्हामादाय हृष्टां हृष्टोsपि तां नृप: ॥
पुरमेत्यावदत्तातं जातं यद्धूर्जटेर्वरात् ॥१५॥
( अनुष्टुप ) दृष्ट्वाद्यां शत्रुजित्सृष्टिं प्रीतो यातो वनं वनम् ॥
सुतन्यस्तधराभारो भेजे भागवतीं गतिम् ॥१६॥
( अनुष्टुप ) पित्र्ये राज्ये स्थित: ख्यात: शस्त: शत्रुजित: सुत: ॥
प्रजा: प्रजा इवारक्षद्युक्तदण्ड: समानदृक् ॥१७॥
( अनुष्टुप ) अन्तर्वन्ती तत: पत्नी सञ्जता सा मदालसा ॥
गंगा देवव्रतमिव ततोसूत सुतं सती ॥१८॥
( अनुष्टुप ) जातमात्रं सुतं वीक्ष्य बोधदुग्धमपाययत् ॥
स्तन्यं तु प्राणधृतय उल्लपनमिषेण सा ॥१९॥
( गीतं उष्णिग्वा ) रोदिषि रे त्वं कस्मात्पूर्वमितस्त्वं यस्मात् ॥
भ्रष्टपथोsभूस्तस्मात्कष्टमवाप्तमकस्मात् ॥२०॥
( गीतम् ) क्काद्य सुतास्ते वनिता क्काद्य च माता जनिता ॥
क्काद्य च याता जनता कोsपि न तेsन्ते ह्यविता ॥२१॥
( गीतम् ) पूर्वनिकेतार्थरथा: क्काद्य न तस्यापि कथा ॥
प्राक्च यथाद्यापि तथा तादृशचिन्ता तु वृथा ॥२२॥
( गीतम् ) नाक्षिविभंगो यदिते रूपविमोह: कुमते ॥
भैक्ष्ययशोत्तं यदि ते नारकभुक्तिर्न च ते ॥२३॥
( गीतम् ) नेट्परिरंभे त्वयस: स्त्रीपरिरंभ: पयस: ॥
मातुरु पानं न पुन: पाहि सदात: स्वमन: ॥२४॥
( गीतम् ) मा स्वप मा स्वप रे निजरूपे ॥
एव हि जागृहि जागृहि भूप ॥२५॥
( गीतम् ) सकलनिशायां रेsगुणमय्यां ॥
मा भज शय्यां स्वेक्षक भूप ॥२६॥
( गीतम् ) जाग्रति सर्वे यस्यां, तस्यां रे गुणमय्यां स्वापमेहि भूप ॥२७॥
( गीतम् ) काकोलूकनिङ्वद्व्यवहरतस्ते ।
क्कापि न दिग्भ्रम आत्मज सुमते ॥२८॥
( पुष्पिंताग्रा वृत्तम् ) कनकसुकमनीयकामिनीति प्रथितमहानरकादकास्पदाद्द्राक् ॥
विषयविषधराद्विषय्यहींद्रादपसर दूरमित: प्रमादमृत्यु: ॥२९॥
( अनुष्टुप ) यदि जातिमृति त्रासाद्रोदिषि त्वं न तेsपि ते ॥
भावषट्कयुतो देहो भावाभावविकारभाक् ॥३०॥
( आर्यावृत्तम् ) क्षुत्तृडुभे असुजाते मोहशुचौ ते न ते मनोजाते ॥
जाते न बन्धमुक्ती ते अपि ते नैव कर्तृसञ्जाते ॥३१॥
( अनुष्टुप ) देहाद्यतींत तत्साक्षिन् संघातव्यतिरिक्त ते ॥
विद्धि साक्षित्वबोद्धृत्वे निर्विकारत्वत: स्वत: ॥३२॥
( अनुष्टुप ) देशाद्यतीत तेsनन्त गमागमविवर्जित ॥
न कर्तृत्वं न भोक्तृत्वं केवलानुभवात्मन: ॥३३॥
( अनुष्टुप ) एकमेवाद्वितीयं सत्तत्वं ब्रह्म परात्पर ॥
एवं शश्वत्स्वरूपानुसन्धानं कुरु तेsस्तु शम् ॥३४॥
( अनुष्टुप ) उल्लापनमिषेणैवं बोधयामाय तं सुतम् ॥
यथा यथा स ववृधे बोधोsप्यस्य तथा तथा ॥३५॥
( उपजातिवृत्तम् ) भूयोsपि जातं च सुतं जगौ सा तथा तृतीयं तनयं न यं सा ॥
पस्पर्श सर्वत्र ततापि कामक्रुड्लोभदावाल्पशिखा स्वरामम् ॥३६॥
( आर्या ) तेषामपि त्रयाणां विक्रान्तसुबाहुशत्रुजित्संज्ञा: ॥
पुत्राणां स्त्र्यननुमता अनुक्रमेणैव योजिता राज्ञा ॥३७॥
( गद्यम् ) क्षमैकभद्रासनानामनाहताग्र्यतूर्यस्वनानां सर्वत्र समानानां हरीन्नारीधृतयश:प्रकीर्णानां पुष्करछत्राणां पुत्राणां तथाविधादपि भर्तुराधिक्यं सदाप्राकृतवैभवं पश्यन्ती सती सुतरां जहर्ष ॥३८॥
( गद्यम् ) बाह्यान्तरावरणहीनानदीनान्परतरलीनान्बहिर्मलिनान् जडोन्मत्तपिशाचवत् स्थितान्सुतानपि तान्पिताsन्वीक्ष्य प्राकृतलोचन इदं वचनमुवाच ॥३९॥
( अनुष्टुप ) सदावां दम्पती पूतौ सदाचाररतौ मतौ ॥
स्थितौ स्वधर्मे कर्मेदं कुपुत्रफलदं कुत: ॥४०॥
( अनुष्टुप ) धिक्तज्जन्म कुपुत्रोsत्र धिवतत्सद्म वनोपमम् ॥
न यत्र पुत्रसुज्योतिर्नयत्यूर्ध्वं कुलं हि यत् ॥४१॥
( अनुष्टुप ) लोकजित्य मत: पुत्रो लोकपोsपि तपोsतपत् ॥
प्रजाकाम: प्रजापाश्च कुतो लोक: प्रजा विना ॥४२॥
( अनुष्टुप ) एवं भावनयाज्ञोsसौ दीनोsभूद्विपरीतया ॥
जायाथ गुर्विणी भूत्वा भूयोsसूत सुतं मतम् ॥४३॥
( स्वागतावृत्तम् )तुङ्गगेष्वखगगेषु खगेषु प्रेक्ष्य जातमथ पञ्चसु योषा ॥
स्वं त्रिशक्तिजमिवाक्षयमेषा शंकिताप्युपदिदेश विदोषा ॥४४॥
( इन्द्रवज्रावृत्तम् ) - प्रोत्साहितो ज्योतिषिकै: स जातकर्माकरोद् भूपतिरात्मजातं ॥
नाम्नाथ संस्कर्तुमुवाच भार्यां किं नाम देयं वद मेsर्भकाय ॥४५॥
( उपजातिवृत्तम् ) - प्राक्पुत्रनामान्ययि तेsमतानि कुतो निरथान्यपि किं नु तानि ॥
मानिन्युवाचांग गतिर्न यस्य विक्रान्तसंज्ञा न हि साध्व्यजस्य ॥४६॥
( उपजातिवृत्तम् ) - नाथांगवार्तास्य न तस्य सार्था सुबाहुसंज्ञा किमतो निरर्था ॥
एकस्य क: शत्रुरतोsस्य सार्था किं शत्रुजित्संविदतो निरर्था ॥४७॥
( रथोद्धतावृत्तम् ) पारमार्थिकदृशैवमीदृशी व्यावहारिकदृशापि तादृशी ॥
सार्थता न जडमूढडिम्भवद्वर्ततामिह निरर्थताsभवत् ॥४८॥
( योगिनीवृत्तम् ) व्यवहरसुसिद्धये यदा व्यवहारिन्मत आह्वयस्तदा ॥
कुरु जातमलर्कसंज्ञितं सुमतं ते यदि नाथ मे मतम् ॥४९॥
( अनुष्टुप् ) तथेत्याख्यां सुतायादाद्यथेष्टं च धनाद्यदात् ॥
विनयात्स द्विजादिभ्यस्तनयाभ्युदयार्थ्यपि ॥५०॥
( अनुष्टुप् ) मुदान्वितोsपि द्वितीयं कदाचित्तनयं स्वयं ॥
मलिनं वीक्ष्य सदयं नलिनाक्षोsब्रवींदयम् ॥५१॥
( अनुष्टुप् ) विज्ञाय दण्डनीत्यादि व्वाह्य सदृशीं स्त्रियं ॥
विधाय नीत्या स्वराज्यं पूज्यमिष्ट्वानृणी व्रज ॥५२॥
( उपेंद्रवज्रावृत्तम् ) त्यजात्तमौढ्यं तनुजैधि गेही यजाध्वरैर्यैश्च कृतीह देही ॥
भजाग्रतोsत्रैव हि सांपरायं व्रजाटवीं प्राप्स्यसि नान्तरायम् ॥५३॥
( अनुष्टुप् ) प्रहस्याह स तं ज्ञाता सद्विद्या मातृतोर्जिता ॥स्वानुभूतिर्वृता कान्ता स्वाराज्यस्थिरताssगता ॥५४॥
( अनुष्टुप् ) भार्यार्या ते न आचार्या सोदर्या हि वयं त्रय: ॥
आर्याश्च भविता तुर्यस्त्वमार्यात:  कृती भव ॥५५॥
( योगिनीवृत्तम् ) द्वयतोsद्वयमात्मविद्यया पुनरैक्यं न भजेत्पृथक्कृतम् ॥
मथनेन पृथक्कृतं पुनर्नवनीतं न हि तत्र ऐक्यभाक् ॥५६॥
( अनुष्टुप् ) इत्थं सतां मतमृतममृतस्पर्धि भाषितम् ॥
ज्वरितोन्नं यथा तातो मेने तत्कर्णशूलवत् ॥५७॥
( अनुष्टुप् ) सतीमेत्यासतीमुक्तिं प्राह प्राहववित्पति: ॥
मूढेsश्राव्यं सुतान् ब्रूषे किं वचो वंशनाशनम् ॥५८॥
( अनुष्टुप् ) अनेन कूपदेशेन शं न नौ का गतिस्त्वित: ॥
स्वर्गादिस्थपितॄणां न: को निवापप्रदो वद ॥५९॥
( अनुष्टुप् ) विधिनेयं कृता वृत्ति: कृत्तिवास:सुतुष्टिदा ॥
पुष्टिदा च नृणां गेहीं न हि सर्वोपजीवनम् ॥६०॥
( अनुष्टुप् ) गोहस्तिवीतिसंपत्तिं कुमतिर्यो जहाति ताम् ॥
देवदत्तां मतां गेही देवद्रोही पतेदध: ॥६१॥
( अनुष्टुप् ) मान्य: प्रवृतिमागों न:सर्वोपकरणक्षम: ॥
कुमतीनां तथान्यो नो द्वारं नोsपि हि तद्गति: ॥६२॥
( अनुष्टुप् ) दुर्दैवस्य तु मार्गोsन्य उभयक्लेशदो न किम् ॥
अपुत्रस्य न लोकोsस्तीत्येषा भाषा श्रुतेर्न किम् ॥६३॥
( अनुष्टुप् ) तस्मादायोंsर्भकस्तुयों भ्रष्टो भवतु नान्यवत् ॥
इति श्रुत्वा पतिवच: प्राज्ञी राज्ञी तमब्रवीत् ॥६४॥
( इन्द्रवज्रावृत्तम् ) निवृत्तिमार्ग: परम: सतो मतो यतोsमृतं जय्य इहात्मलोक इत् ॥
प्रबोधपुत्रेण परेण नेत्यपि श्रुते: पते शीर्षमशेषविन्मतम् ॥६५॥
( इन्द्रवज्रावृत्तम् ) अथापि नाथाद्य भवत्प्रियार्थं यथार्थमस्मै श्रुतदृड् नयार्थं ॥
साधूपदेक्ष्येsखिलमेवमुक्त्वा सापाठयत्स्वाग्रहमत्र मुक्त्वा ॥६६॥
( अनुष्टुप् ) अलर्क: सर्वविद्या: स आददे शिक्षितोंsबया ॥
नयादिनिपुणायास्मै दापयामास भूधुरम् ॥६७॥
( अनुष्टुप् ) वनं जिगमिषुं कांतमनुयास्यत्यदात्तदा ॥
भाविरिष्टहरं पत्रं गुप्तं पुत्राय सा तदा ॥६८॥
( योगिनीवृत्तम् ) तरुणारुणदीप्त गुप्तचित्करुनाब्धे भवतो विना क्वचित् ॥
न हि कश्चन तारको द्युमन्महिमन्नुर्भवतोsत्रिभूर्महन् ॥६९॥
भवतेर्पित एष बालको भवतोsन्य: क इहास्य पालक: ॥
इति सा प्रतिपाद्य योगिनी पतिमार्यानुगतेव भोगिनी ॥७०॥
( गद्यम् ) अथ ह तातयोर्निर्वाणं गतयो: सतो: पित्र्यभद्रासनासीनं सुधर्माश्रितं विबुधगणपरीतं गुर्वभिमतं मघवंतमपरं जिष्णुमिव सन्तं चोदनाधिया रतामिषसुरासक्तं तमलर्कं बुबोधयिषु: सुबाहुरुत्सृष्टात्तमौढ्य एत्य पित्र्यराज्यभागं याचयित्वा तेन प्रत्याख्यात: प्रयत्नत: काशिराजसाहाय्येन कांश्चित्सामंतामात्यादीन्साम्ना कांश्चिद्दानेन भेदेन च वशीकृत्याग्रजोsनुजं जिगाय ॥७१॥
( अनुष्टुप् ) अलर्को विजितो रात्रावलर्कवदगाद्वनम् ॥
तत्र मातृवच: स्मृत्वा पत्रं दृष्ट्वा सुविस्मित:॥७२॥
( अनुष्टुप् ) त्यक्त्वा स्वेषां विरुद्धानां संगं सत्संगभाचरेत् ॥
इति ज्ञात्वा मातृहार्दं श्रीदत्तं शरणं ययौ ॥७३॥
( उपजातिवृत्तम् ) स सह्यधामानमपेमानमसह्यधामानममानमानं ॥
मानं ददन्तं परमात्मने तमानन्दकन्दंनृपतिर्ददर्श ॥७४॥
निधाय योsड्के खलमोहनाय विधाय मायामयभीरुमार्य: ।
तडिन्निभां नीलनिभोस्तमारस्तडित्वदाभां धरगो जहार ॥७५॥
( उपजातिवृत्तम् ) अशेषदोषक्षपणक्षमाभिर्नि:शेषसत्तीर्थसमाहृताद्भि: ॥
कमंडलुं पूर्णमसौ दधान: स्रष्टेव रेजेsमरदत्तमान: ॥७६॥
( योगिनीवृत्तम् ) अतिपिङ्गजटाकिरीतिना समतां यो गतवान्पिनाकिना ॥
शरदभ्रनिभाच्छभस्मना परिलिप्ताखिलकोमलात्मना ॥७७॥
( मालिनीवृत्तम् ) सजलजलदमित्रांगद्युति: श्रीकलत्रो
विमलकमलनेत्रो मञ्जुलाशेषगात्र: ॥
अमलसकलचन्द्रस्पर्धिवक्त्र: पवित्र:
शुशुभ इव विपत्र: सह्यगो योsत्रिपुत्र: ॥७८॥
( उपेन्द्रवज्रावृत्तम् )  निपात्य वर्ष्माग्रत एव दण्डनिपातवत्प्राह तमात्तपीड: ॥
अतीव दु:खं हि ममोपपन्नं यतीश तस्मादव मां प्रपन्नम् ॥७९॥
( स्रग्धरावृत्तम् ) श्रीदत्त: प्राह दु:खं क्व वपुषि तव तद्दर्शय त्वं च को वा ।
ब्रूहीत्युक्त: स्वदेहो घटवदिह तथाचेतन: प्राण एष: ॥
क्षुत्तृड्वानिन्द्रियाणि स्वविषयग्रहणार्हाणि चित्सन्निधाना -
द्भृद्धीश्चाकादिहेतू अपि निखिलमिदं वेद्मि योsहं स साक्षी ॥८०॥
आत्माहं दु:खसौख्ये न मम कुमलसस्ते मतेsध्यासतो मे ते अद्यांज: सबीजे मयि विलयमिते श्रीगुरो: संप्रासादात् ॥
नाहं दु:खी सुखी वा स्त्र्यनुगसुतधरादेरपेक्षा कुतो मे सम्बन्धोङ्गस्य नो मे तत इह तु कुत: स्वात्मन: शुत्रुमित्रे ॥८१॥
गुरुर्जगौ साध्व्यपि संविदस्या:स्थेम्नेsद्य योगी मितभैक्ष्यभुक्स्या: ।
जितासनश्वासहृषीकचित्त: सञ्चिन्तयात्मानमभेदतोन्त: ॥८२॥
( अनुष्टुप् ) पीयूषविषदृष्ट्यात्तौ मानामानौ सुबन्धदौ ॥
विषपीयूषदृष्ट्यात्तौ मानामानौ सुमिक्तिदौ ॥८३॥
( आर्यावृत्तम् ) ममता यत्र तु दु:खं तत्र तु मार्जारभक्षिते स्वशुके ॥
यद्वद् दु:खं न वृके तद्वदहंयो: सदैव सुखदु:खे ॥८४॥
( आर्यावृत्तम् ) ममताहंता त्यक्ता येनास्य तु मुक्तता तत: सुमते ॥
त्यज ते तत्त्याग: सुमदलनास्तुकरोsपि साररसदृक्ते ॥८५॥
( अनुष्टुप् ) सिद्धयोत्रान्तरायस्ता जहि यद्यप्युपस्थिता: ॥
तत: समाधिसिद्धिस्ते ततो भूयो भ्रमो न ते ॥८६॥
( आर्यावृत्तम् ) जीवन्मुक्ति: प्रत्यगभिन्नपरमात्मतत्त्वविज्ञानात् ॥
सुतरां मनीविनाशादत्रैव त्रिविधवासनाहाना‍त् ॥८७॥
एवं श्रीगुरुणा यथावच्छिक्षितस्य देहाद्युपाधिकरात्मनो नानात्वं कर्तृत्वं भोक्तृत्वं च लोककालागमात्मानित्यत्वं च भोग्यभावानां भगवन्मायामयत्वं च गुरुप्रसादाद्विजानतो विरतस्य प्रशान्तस्य तस्य युगपत्त्रिकाभ्यासवशादपरोक्षसाक्षात्कारदाढर्यमभवत् ॥८८॥
( पुष्पिताग्रावृत्तम् ) गुणरचितनृदेहसंसृतिघ्नीं परस्परमात्मविदं स्वशिश्यलब्धां ॥
द्रुतमिह विदुशोsस्य सावकाशाण्डचयभूतो जठरे ममुर्मुदो नो ॥८९॥
( वसन्ततिलकावृत्तम् ) गुर्वाज्ञयाग्रजमुपेत्य स आह बन्धो गुर्वाप्तराज्यमिदमस्तसुदु:खसिन्धो ॥ त्वं स्वीकुरुष्व सुहृदे तव यच्छ वा स्वत्वं स्वीकृतं परिहृतं प्रभुतामुपास्व ॥९०॥
सुबाहुरालिंग्य तमाह बन्धो कारूण्यसिन्धो: कृपयास्तबंधो ॥
कृतार्थता ते समभागता न: कृताद्य दैवेन भवैकतान: ॥९१॥
( उपजातिवृत्तम् ) स्वस्त्यस्तु ते काशिप गच्छ यामि वनं कृतार्थोsद्य न कामकाग्नी तं काशिराजोsप्यवदत्किमाप्तं तन्नेव जाने वद मां तवाप्तम् ॥९२॥
( पू०इन्द्रवज्रा०उत्त०वंशस्था ) योगी जगौ मान्यसतीसुता वयं भोगी जजानर्षभवत्क्षितावयम् ॥ भवत्सहायात्सम( तात्रिजेक्षयाभवत्सगर्भ्यस्य च शान्तिरक्षया ॥९३॥
( हरिणीवृत्तम् ) स तमथ जगु स्वत्वान्यत्वे न ते करुणानिधे
निरुपमदयाक्लिन्नस्वान्तोsसि सद्गुणशेवधे ॥
अभवमधुना दैवात्तेहं सुसाप्तपदीनभा -
क्कथमपि ततो मां शाधि स्यान्न येन पुनर्भ्रम: ॥९४॥
( मन्दाक्रान्तावृत्तम् ) एवं दीनं प्रणतमथ तं खिन्नचित्तं नितान्तं
प्रोचे नो चेन्नरवर महासंपदार्या इहाहु: ॥
यां तत्त्वज्ञा: परमहितदां साधनाख्यामृते तां
नो बोधाप्तिर्भवति भवतो नास्त्यसावाश्रयैताम् ॥९५॥
( गद्यम् ) तदनु महानुभावसेवया षड्लिंगैस्तात्पर्यावधारणलक्षणेन श्रवणेन युक्त्या संभावितत्त्वानुसंधानलक्षणेन मननेन ताभ्यां नि:संशयेर्थे स्थापितचित्तस्य विजातीयानात्मप्रत्ययानन्तरितसजातीयात्मप्रत्ययप्रवाहीकरणलक्षणेन निदिध्यासनेन ध्यातृध्यानभावरहितसुस्थिरध्येयाकारान्तरस्थितिलक्षणेन समाधिना कृती भव ॥९६॥
( उपजातिवृत्तम् ) यद्यप्यलकों विषयाक्तचित्त: स्वांबाप्रसादेन हि येन दत्त:
गुरुर्गुरूणां भगवानुपात्तस्तत: स मुक्तोस्तसमस्तवित्त: ॥९७॥
( स्वागतावृत्तम् ) कोटिजन्मसुकृतादपि लाभो दुर्लभोsस्य समभूदिह लाभ: ॥
यद्दृशा वितिमिरोsयमलर्क: शेषयेत्किमुदितोsन्धमिहार्क: ॥९८॥
( शार्दूलविक्रीडितम् ) इत्युक्त्वानुजमाह याहि विपिनं राज्यं कुरुष्वाथवा
यास्येsहं त्विति सोsगमत्तदनुग: काश्योsपि सोsगाद्गतिं
पुत्रन्यस्तभरोsप्यलर्क उदरामत्रो वनं पावनं
गत्वात्यन्तिकबुद्धिलब्घपरमानन्दो जगौ पावनम् ॥९९॥
अहहाsभेदेनायं भवहाप्तो मे निर्मायं ॥धृ०॥ अत्यर्थं यस्य तु सदयं भक्त्यर्थं मृदुलं हृदयं । युक्त्यर्थं भाविकहृदयं मुक्त्यर्थं संसृतिहृदयं ॥ ( अन्यारीति: ) तममेयं श्रुतिगणगेयं हृतमायं मुनिविज्ञेयं । अद्वयं ह्मत्रेस्तनयं भावये दत्तात्रेयं ॥१॥ तृष्णायां सत्यां स्त्र्याद्यं यल्लोके तन्नैकस्य । तृप्तिदं विषयसुभोगस्तृप्तयेsप्यत्र तु कस्य ॥ ( अन्यारीति: ) ॥ तृष्णायां नष्टायां मे भोगेच्छा शिष्टा का मे । श्रीदत्तेsत्रात्मारामे सुतरां मे तस्थौ हृदयं ॥२॥ आगमापायीन्द्रियजं सोपाधिकमकसंभिन्नं । आगमान्यदृशा दृष्टं यत्सुखं स्वस्माद्भिन्नं ( अन्यारीति: ) मौर्ख्यं तत्सत्त्विदमेवं दग्ध्वा योगेन कुभावं प्राप दत्तेनैकीभावं वासुदेवेनैवामायम् ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-18T10:00:15.7930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झगी

  • स्त्री. चकाकी ; तेज ; झांक ; झकाकी . जेवीं कां शिंपीचे अंगीं । जडली रुपेपणाची झगी । - एभा २२ . २३९ . [ झक - ग ] 
RANDOM WORD

Did you know?

vastudoshavar udakshant ha paryay ahe ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.