द्वितीयशतकम्

श्री. प. प.वासुदेवानन्दसरस्वतीकृतं श्रीगुरुचरित्रकाव्यम्


यो दैन्यं पापतापौ शमयति नियतिध्वंसको हंसकोटयै बैराग्यज्ञानभक्तीर्वितरति तरति ज्ञो यदर्थों यदर्थ: ॥ तारस्तं तारतारं हि भज भज भजद्वत्सलो वत्सलोभान्मातेवैति स्वकान्यश्चरणशरणसत्कामधुग्यो दयाब्धि: ॥१॥
अथ सत्यगुरर्भकयोस्त्रैमासिकयो: सतोर्जगावम्बाम् ॥
अर्चितसाम्बामम्बामिव हेरम्बाsग्निजान्वितामम्वाम् ॥२॥
जातौ द्वौ ते द्वौ भविष्यन्ति पुत्रौ कन्या धन्या चापि मान्या sसि मात: ॥ माsत: पात: संसृतौ ते ह्युमातो मातश्चार्च्याssज्ञापयान्हाय माsत: ॥३॥
इति वदति मतिश्वरेsम्बिका प्राक्स्मरणत ईपदमाह तं चरित्रम् ॥ अकलि कलिमलघ्नमत्र चित्र किल भवता सुपवित्रमत्रिपुत्र ॥४॥
यं श्रीपदं वदन्ति त्वाsखेदं हृतमदापदम् ॥
प्राप्तोsसि मत्पुत्रपदं पदं वन्दे तवापदम् ॥५॥
ये ये कामा दुर्लभा मर्त्यलोके सर्वांस्तांस्तांश्छन्दतो रासि लोके ॥
लोकेशस्त्वं श्रीश लोके वदान्य: कल्पद्रु: किं जंगमस्त्वं वदान्य: ॥६॥
कृतमन्तुरियं न जातु ते हितदा किंतु विधुंतुदार्तिदा ॥
यदरुंतुदवाक् परंतु तेsपि तु मातुर्न तु जातु दुष्कृतम ॥७॥
सुत आह न दोष एष ते मम लीलेयमशेषहृत्स्थिते: ॥
अयि तारपुरीं प्रयामि मे स्मरणादस्तु समीपताsम्ब ते ॥८॥
तथेति मात्रापि तथैव पित्रानुमोदितो मोदितदेववर्ग: ॥
भर्गप्रभोsपीक्षितुमेति भर्गमित्यार्यवर्गस्तुत आप काशीम् ॥९॥
सूरतं योगनिरतं यतयस्तमनारतम् ॥
अजं भजन्तं विरतं नत्वोचु: परधीरतम् ॥१०॥
भृङ्गो याति रसाय किंशुकसुमभ्रान्त्या शुकास्ये स तं यद्वज्जम्बुफलभ्रमाद्गिलति तौ पश्चदुभौ दु:खितौ ॥ एवं स्त्री - पुरुषौ परस्परमरं सौख्यभ्रमात्संगतौ तौ स्यातामतिदु:खितौ विधुतसंन्यासायनौ व्यध्वगौ ॥११॥
सुमखै: सततामृताप्तये द्विजमुख्यास्तु यजन्त्यहो भुवि ॥
दिविजा अमृताशिनोsपि यत्स्मरणं नापि हि कुर्वते दिवि ॥१२॥
अप्रत्यक्षमशेषतोषकरणं पूर्णं जगत्कारणं यत्प्रत्यक्षविलक्षणं सुशरणं भूमाद्वयं तारणम् ॥ तद्ब्रह्म श्रवणादिनेक्ष्यत इति त्रय्या: श्रुतं भाषणं संन्यस्य श्रवणं त्विति श्रुतिगणख्यातिर्गुणव्याञ्जिका ॥१३॥
न्यासमार्गमपि भ्रष्टं शंकर: सर्वशंकर: ॥
स्थापयामास मूढै: स मतस्तिष्येsपि धिक्कृत: ॥१४॥
भवेsब्धाविव सद्वाक्यैर्दृषद्भिरिव रामवत् ॥
भगवान्कीशत इव सेतुं बन्धातु शिष्यत: ॥१५॥
चञ्चत्पञ्चशराञ्चितं ह्यपचितं न्यञ्चं प्रपञ्चं श्रितं नीचं वञ्चकवञ्चितं कुचरितं मुञ्चन्तमश्रूच्चकै: ॥ काचप्रायसुखाप्तिवञ्चितहितं तूच्चावचं वीक्ष्य च स्वाचार्योक्त्यनुसार्यहं त्विति वच: प्राचामुवाचाधिप: ॥१६॥
इति सारसरस्वतीं गृणन्वृतवान्कृष्णसरस्वतीगुरून् ॥
अवनीतसरस्वतीप्रभु: स नृसिंहाख्यसरस्वतीत्यभूत् ॥१७॥
आचार्य चाप्याचकाङ्क्षेsमृतार्थं प्राचामाचार्योsपि सन् संग्रहार्थम् ॥ रेजे न्यासी न्यस्तचूडोपवीतो भेजेsभ्यासी बहिक्ष्यमाज्ञोपवीत: ॥१८॥
कुण्डीमण्डितदोर्दन्डो दण्डी दण्डितधीजड: ॥
मुण्डी मुण्डितपाखण्डअश्चण्डीडिव बभो मृड: ॥१९॥
नैजं तेजोsस्य परमं भास्वरं भास्करोपमम् ॥
किं पुनस्तपसा ब्रह्मवर्चसाढयेन भाष्यते ॥२०॥
मारो रूपेण वाचा च वाक्यति: क्षमया क्षमा ॥
बुध्द्या बुधो भया भास्वानिति भाति यतिप्रभु: ॥२१॥
काश्यां प्रकाश्य विशदं श्रुत्याशयमसंशयम् ॥
प्रदक्षिणीकृत्य मेरुं बालादिच्छात्रयुग्गुरु: ॥२२॥
दत्त्वा प्रयागमागत्य माधवाय विदं मुदम् ॥
गत्वा करञ्जनगरं नत्वाsभाणीत्स्वमातरम् ॥२३॥
सोड्वा गर्भभरं दरं च नितरां कृच्छ्रात्प्रसूयापि च त्यक्त्वा स्वापमपास्य भोगसुरुचिं या पाति माता सुतम् ॥ स्नेहाद्राति पयो न योग्यकारण्म तस्या ऋणापाकृते: स्नेहं दात्यपि काप्रसूतिरपि य: संन्यासिनां दुस्त्यज: ॥२४॥
जहौ विरहजं तापं माताssश्लिष्य सुतं तु तम् ॥
मातु: स तु सुताश्लेष: प्रायश्चन्दनशीतल: ॥२५॥
प्राह स्नेहयुता माता क्काहमङ्ग कुदेहभृत् ॥
चिन्मयस्त्वं क्क चाsथापि दयादृष्टयाsर्हताsर्पिता ॥२६॥
अवदत्स च सद्गुरुस्तु तां भवभीतां विनतां मुहु: स्तुताम् ॥
मम संन्यसनात्तु तेsमृतं स्वकुलैस्तारपुरेsपि ते मृतम् ॥२७॥
गृहे गृहेsथ जगृहे क्षणात्पूजां व्यदर्शयन् ॥
सत्यत्वमिन्द्रो मायाभि: पुरुरूप इति श्रुते: ॥२८॥
स्वसाsथ पप्रच्छ गुरुं स्वभव्यं स्वसाधनं चाह सतां सुभव्यम् ॥
सतीव्रतं तीव्रतरं यतित्वं पत्युस्तनौ कुष्ठमथाsस्य शान्तिम् ॥२९॥
गोहत्याशान्तये शंभोर्गोतमेनाहृतां नदीम् ॥
सशिष्योsथैत्य सोsरक्षद् द्विजं शूलरुजार्दितम् ॥३०॥
सायंदेवगृहेsथ शिष्यसहितो गत्वाsपि भुक्त्वाssदराच्छूलार्तं प्रतिकूलशालियशसाsरक्षत्क्षणाद्रुग्दरात् ॥ नाश्चर्यं त्विदमस्य पादकमलध्यानं करोत्यादराद्य: सोsपीह हि तारयत्यपि कृपालेशान्महारुग्दरात् ॥३१॥
सायंदेवं यवनान्मृत्योर्भीतं ततार दरहर्ता ॥
धर्ता कारकशक्तेस्त्रासत्रासो न किं किमिह कर्ता ॥३२॥
पन्नगाशननन्दनं किमु पन्नगोsत्त्यपि किं करी सिंहनन्दनमष्टसिद्धियुताब्धिपुत्र्यपि किंकरी ॥ यस्य तस्य सुरार्चितस्य तु सेवकं यम ईक्षितुं नेश्वर: किमुतेतर: किल पामर: पुनरीक्षितुम् ॥३३॥
द्विजो यवनराजेन प्राप्तो भीतेन सत्कृत: ॥
व्द्यष्टाब्दैर्दर्शनं दास्य इतीशेन निवारित: ॥३४॥
बाल: कृष्ण उपेन्द्रमाधवसदानन्दा अहं सप्तमो ज्ञानज्योतिरितीतरेsप्यज इमानूचे न चेहान्वहम् ॥ स्थेयं वर्णिवनिव्रतिभ्य उदिते धर्मेsत्र तैश्वान्वहं कर्तव्यं त्वितरैर्विनाsजशयनं तीर्थाटनं चान्वहम् ॥३५॥
पुरी: सप्त धाम्नां चतुष्कं विशोकं सरोरण्यतीर्थाश्रमादीन्नदीश्च ॥ द्विषड्ज्योतिराख्यानि लिङ्गानि दृष्ट्वा गुरौ सिंहगे श्रीनगे मां मिलन्तु ॥३६॥
गुरोरवज्ञा भववन्धदैव गुरोरनुज्ञा भवबन्धदैव ॥
सदैव मूर्ध्ना सुमवद्धृतैवं मुदैव ते जग्मुरहं तु नैव ॥३७॥
अन्तेवासी दूरवासी यदि स्यादन्तेवासित्बं तदाsस्तंगतं स्यात् ॥ युष्मत्पादाब्जालिरत्राsस्त्वितीशो यस्माद्भक्त्या मेsर्थितो मां जुगोप ॥३८॥
स वैद्यनाथं त्वथ लोकनाथ: प्राप्तस्तदाप्तो द्विज उज्झिताप्त: ॥
तमाह कस्माद्विधुतस्त्वयाप्त: स प्राह कष्टमसौ किमाप्त: ॥३९॥
विद्यार्थी तं चाश्रयेsहं सदैव सेवार्थी सन्मां बबाधे मुधैव ॥
स त्यक्तो मे देशिकस्येदृशोsपि त्यागो न्याय्यो गर्वितस्याsविदोपि ॥४०॥
गुरुराह महान्विहितस्त्वया कुबुध्द्याsनयोsयमविवाद: ॥
सेवननमनप्रश्नैर्गुरुप्रसादो ह्यतोsपि भवसाद: ॥४१॥
दुर्वृत्तस्यैव भृत्यादे: परित्यागोsपिनाsन्यथा ॥
पुत्रमांसाशनं मातृगमनं च विधिर्भवेत् ॥४२॥
शिष्योsरुणोsम्बुहरणाद्गुरुदु:खभागी बैदोsनआनयनतो गुरुभारभागी ॥ गोरक्षकोsपि च तथा क्षुधितोपमन्युस्ते धौम्यदेशिकयशोsनुदिशो विनिन्यु: ॥४३॥
अधुना मधुना तुल्यो भवतुल्यगुरोर्भव ॥
यतिसूक्तिमिति श्रुत्वा नत्वा प्राहेति दुर्मति: ॥४४॥
युज्यते भिन्नधात्वैक्यं न मुक्तायास्तथा हृद: ॥
अतस्तद्दोषहतये मतान्प्राणान्समर्पये ॥४५॥
इति तन्निश्चयं विद्वान् कृतार्थं तं व्यधाद् द्युमान् ॥
निसर्गोsयं हि महतां यदार्तार्तिनिवर्तनम् ॥४६॥
पुष्णाति याssर्तान्विनिवृत्ततृष्णान् कृष्णाजमूर्ति: प्रथिताsत्र कृष्णा ॥ प्रत्यक्तटेsस्या निवसन्विजिह्वं प्रत्यग्व्यधाद्विप्रसुतं सुजिव्हम् ॥४७॥
ततो दक्षिनकाशीति कृष्णापञ्चनदीयुति: ॥
ख्याता या तामितो दत्तो यतोsब्दान्द्बादशाsवसत् ॥४८॥
दरिद्रभूसुरागारं गत्वाsमरपुरे हरि: ॥
शाकाहारं भजन्विप्रशोकागारं समुच्छिनत् ॥४९॥
स्थित्वाsमरपुरे भक्तपुरभित्सुरवेष्टित: ॥
बभारामरसंयुक्तपुरंदररुचिं शुचि: ॥५०॥
त्रिस्थलीं दर्शयामास योगिनीपूजितोsजित: ॥
गङ्गानुजाय क्षणेनेक्षणेनेदं ततान य: ॥५१॥
ततो गन्तुकामो विलोक्याप्तकामो भृशं दु:खिता योगिनीस्ता अकाम: ॥ समागादिदं पादुके स्थापयित्वा समाश्वास्य ता: सद्वरांश्च प्रदत्वा ॥५२॥
तत: प्रभृति तत्पुरं प्रवरमाबभौ सुन्दरं दरं हरति यत्सदा निवसतां सतां सादरम् ॥ वरं च वितरत्यरं गदहरं सुचारं नरं न रञ्जयति किं न किं दुरितहारि पृथ्वीवरम् ॥५३॥
सुप्तिस्थितीत्यासनहीन एष कृष्णातटेsभीष्टकरो विशेष: ॥
गतोsपि गन्धर्वपुरं दरारिर्यो निर्जिताशेषपुरंदरारि: ॥५४॥
तत्रत्यविप्रवनिता मृतापत्यत्वदु:खिता ॥
विप्रवाक्याद्गुरुपदं क्षिप्रदं भेज आर्तिदम् ॥५५॥
तया पुरा विप्रधनं हृतं मृतो दयाविहीन: स पिशाचतां गत: ॥ स भीषयामास सतीमतीव तां सुभीषण: स्वप्न उपस्थ आनताम् ॥५६॥
सहसा गुरुराय तां नतां तरसा तं विनिवार्य दु:खिताम् ॥
स विधाय च पृष्ठतोsवदत्सविधे मेsप्यनयोsसि को वद ॥५७॥
एवं वदन्तमवलोक्य स नारसिंहं सिंहोन्नताक्षमपि धूतविपक्षपक्षम् ॥ त्यक्त्वा वसन्तलिलकामिव कान्तवक्त्रां वक्त्रागतामिव सुधांशुतनुं तनून: ॥५८॥
उवाच नीच: सततं पिशाच: श्रृणुष्व वाचं त्वमिहाsप्रपञ्च: ॥
द्विपक्षभूतस्तु सपक्षपातो यते विघातश्च न ते प्रशस्त: ॥५९॥
अनयाsपहृतो ममैव रा अनया वासनयाsस्य मेsवरा ।
सम योनिरुपागतार्थिता मम को वारयिता चिरागताम् ॥६०॥
गुरु: प्राह ते सद्गतिं कारयिष्ये सुदीनां तथैनां पिशाचोद्धरिष्ये ॥ इमां भीषयस्यङ्ग चेत्ताडयिष्ये पिशाचोsपि चोचे तथाsतस्तरिष्ये ॥६१॥
सतीमतीव नीतिमानिमां जगौ त्वया क्रिया विधीयतां सतां मता धिया तयाsप्यमायया ॥ गतिं समाप्नुयादयं लयं च तेsपि दुष्कृतं मतं सुतं सुतन्तुवर्धकं द्रुतं लभस्व तम् ॥६२॥
ततो बुध्द्वा तथा कृत्वा तस्मै दत्त्वा गतिं सती ॥
लेभे फले गुरो: काले ततो जातौ मतौ सुतौ ॥६३॥
अष्टमेsनिष्टदे वर्षे संनिपात उपागत: ॥
ततो मृतोsग्रतो जात: पितृत: स मृत: सुत: ॥६४॥
सतीं सुनीतिं रुदतीमतीव दयालुरेत्याsखिलदृग्व्रतीव ॥
भूत्वाsवदन्नैति मृत: कुतस्त्वं मुधोच्चकै रोदिषि मैद्यवित्त्वम् ॥६५॥
नि:सारोsयं: संसारो यं यान्त्याश्रित्य भ्रान्त्याsपायम् ॥
विद्युन्मालालीलालम्बी तं बीभत्सं जह्याघातम् ॥६६॥
भुजगशिशुभृता यद्वत्स्वपिति न भववान्तद्वत् ॥
तनुतनुजमुखं नित्यं भृशसुविपदहो सत्यम् ॥६७॥
न विमतो हि सुतो यदि ते मत: स्मरसि किं गतजन्मकथां वृथा ॥ सुमति मा कुरु शोकमकास्पदं विपदधारि हरे: स्मर रे पदम् ॥६८॥
एवं सा बोधिता माता मृतास्यातीव दु:खित
गुरुं प्राह न वेदान्तोsदान्ताया रोचते मम ॥६९॥
कुमारललितां मां व्यधात्पुनरपीमाम् ॥
स मज्जयति शोके कुतो वद नृलोके ॥७०॥
सोsवददीश: स्ववरं सोsपि हि वेदापि परम् ॥
माणवकाक्रीडितकं तं परिपृच्छेदमकम् ॥७१॥
श्रुत्वेत्यथ संध्याsभ्राक्षी तनुमध्या ॥
मध्याह्न उपाप्ता साप्ताश्रममार्ता ॥७२॥
सशवा सजवाsगत्य पदो: साताडयच्छिर: ॥
नाssदाद्दग्धुं शवं जग्मु: सर्वे तत्र तु जंपती ॥७३॥
चण्डी सोच्चण्डवाक् चक्रे चक्रांके गुरुपादुके ॥
रक्तोक्षिते निजशिरस्ताडनेन पुन:पुन: ॥७४॥
गुरु: स्वप्नेsथ तां प्राह मा रोदीर्जिवित: सुत: ॥
प्राणो नामैष वायु: स यातोsपि पुनराहृत: ॥७५॥
मृतमुत्थितमुत्थितौ तु तौ मुदितं तं मुदितावपश्यताम् ॥
अपि कल्य उपागता द्विजा अजमापूज्य सुपूज्यमस्तुवन् ॥७६॥
यातेsपि भगवत्यत्र फलसिद्धिरलं नृणाम् ॥
एवमग्रेsपि जागर्ति न निद्राति सतां पति: ॥७७॥
भीमामरजासंगममागत्य श्रीगुरु: स्थित: परद: ॥
भिक्षार्थं ग्रामगतो वन्ध्यामहिषीमदोहयद्वरद: ॥७८॥
भक्तिप्रियोsपि स्वाधीनो राजाधीनोsभवद्यति: ॥
स्वयं निरुपचारोsपि जातो राजोयचारभाक् ॥७९॥
पुरमेत्य समुद्धृत्य ब्रह्मराक्षसमीक्षणात् ॥
सलीलोप्तादितजगज्जगद्वासो मठेsवसत् ॥८०॥
योsभिधानत उत त्रिविक्रम: सार्थकं परमकं त्रिविक्रमम् ॥
सद्गतिं यतिपतिं स्म निन्दति यं हृदाsपि इ मुनिर्न विन्दति ॥८१॥
तं विद्वान्प्रययौ शास्ता राजलक्षमपरिष्कृत: ॥
राजंराजश्रियं भेजे नृधर्मा नरवाहन: ॥८२॥
मुदा नृसिंहं हृदि चिन्तयानस्तदा ददर्शाsपि च मर्त्ययानम् ॥
नदीतटस्थं यतिभि: परीतं स दीनदीन: प्रययौ विनीत: ॥८३॥
त्रिविक्रमोsपश्यदशेषसैन्यं संन्यासिरूपं न च कंचनान्यम् ॥
तं विस्मितं यानग आह देवस्त्वं यं यते निन्दसि सोsयमेव ॥८४॥
अखर्वगर्वोsप्यभवद्विगर्व: सर्वात्मकोsसाविति शान्तिपर्व ॥
अपूर्वमाप्त्वा विनयेन नत्वा मत्वा नृसिंहं समदृक् च भूत्वा ॥८५॥
तत: स्वरूपमादर्श्य तत्त्वमादिश्य पश्यत: ॥
तस्य सोsन्तरधादद्धा कृतार्ह्तोsभूत्त्रिविक्रम: ॥८६॥
श्रावयन्तौ श्रुतीर्म्लेच्छे तर्जयन्तौ द्विजौ द्विजान् ॥
जयार्थमागतौ नित्ये श्रीगुरुं तौ त्रिविक्रम: ॥८७॥
द्वन्द्वदावदव देव वेदविद्देवदेव वद वेदवाददौ ॥
वाददावदव देववादविदन्द्वदोsवददिदं वदोवद: ॥८८॥
वोधितावपि तौ नैव हितं स्वीचक्रतुर्मतम् ॥
पतितं तत आनीय तद्गर्वं सर्व आहरत् ॥८९॥
ततो नरौ पलाहारौ भूत्वा शान्तिपरौ वरात् ॥
उषित्वा द्वादश समा: समाप्तौ सद्गतिं तु तौ ॥९०॥
पतित: पण्डितो भूत्वा ज्ञात्वा सप्त गतोद्भवान् ॥
प्राह मे दुर्गतेर्हेतुं ब्रवीतु ब्रह्मणो भवान् ॥९१॥
मातापित्राप्तदारात्मजनिजसुवृषत्याजको निन्दकोsर्च्यब्रह्मश्रेय:सतां य: श्रुतिरसतनुजागोक्रयी क्रूरयारी ॥ इत्याद्या: प्रेत्य घोरं निरयमरमथो यान्ति चण्डालयोनिं योनीरन्याश्च पापो ह्यनुभवति तरां तारतम्यादधस्य ॥९२॥
भूतप्रेतपिशाचका: स्युरितरे दुर्वासनावासिता मत्ता विप्रगुरुद्विषोsपि कुधियो रक्षस्त्वमायान्ति च ॥ उष्ट्रो द्रव्यहरोsप्यालिर्विषहर: पत्रादिहृद्वानरो गृध्रो मांसहरो नरो मधुकरो मध्वाहरोsपीतर: ॥९३॥
भोगी न योsर्थस्य च किंपचोsत्र भोगी स भूत्वापि भवे परत्र ॥ न भोगभोगी भविताsस्य किं तु नभोगभोगी शयिता ततस्तु ॥९४॥
अधस्तान्नृजाते: स्मृता यातनास्ता गवाद्यास्तृणान्ता अघान्ताय तास्ता: ॥ स्वपापानुसारी कुचारी परीत्य क्रमाद्याति भूयो नृयोनिं सचिह्न: ॥९५॥
श्वा शुनी च नरो नारी पारदार्यात्खर: खरी ॥
औपपत्यान्नृनारीणां कृमियोनि: पुन: पुन: ॥९६॥
भारत्याsथ कथं त्वघान्त इति संपृष्टोsब्रवीच्छ्रीगुरु: पश्चात्तापघान्तकं स्वबलत: कृच्छ्रादिकं शोधकम् ॥ उक्ताsघं च सदस्यृतं तदुदितं क्षौरादि युक्तं चरेत्प्रायश्चित्तमदाम्भिक: शुचिरघाद्वा मन्वतीर्थव्रतै: ॥९७॥
नीचं तूच्च उवाच पित्रपकृतेस्त्वं चावचोsभूरतो मासं संगमसेवनाव्द्दिजनितागाम्युद्भवे सोsवदत् ॥ विप्रं योजय मां द्विजेषु करटोहंसोsपि सन्मानसे भूय: किं करटोsप्ययोsपि कनकं भूत्वा पुन: किं त्वय: ॥९८॥
इत्थं तस्मिन्वदति युवतिस्तस्य चाप्ताsथ तां स त्यक्तुं हैच्छद्गुरुरथ जगौ स्त्रीर्न पूर्व विवाह्या ॥ पश्चात्त्यागे पतसि सदिति प्रोह्य तं स्नापयित्वा गेहायाssज्ञापयति स यति: सोsप्यगाज्ज्ञानहीन: ॥९९॥
पावितोsपि पतित: कुतो गतो हीनतामिति यतीरितो यति: ॥
प्राह भस्मवशतो मयार्पिता वेत्तृताssप्लवत उद्गता तत: ॥१००॥
दुराचारो जारो यतिवर पुरा कश्चन धरापती रक्षो भूत्वा क्षुधित उपगं क्रौञ्चवनग: ॥ मुनिं प्रापात्तुं तद्धतभसितसंस्पर्शवशत: स्मृतप्राक्पञ्चाक्षिप्रमितगतजातोsस्तकुकृत: ॥१०१॥
तस्मै द्राविढविप्रमुक्तिमवदच्छ्वाङ्गस्थभस्माहितां संवादं गतिदं कुमारहरयोर्भस्मार्पणं चोद्गतिम् ॥ एवं कर्मविपाकमाकलयतोsप्याराध्य चाध्याधिहे तत्पादाम्बुरुहे ययौ यतिरिति ख्याता विभूते: कथा ॥१०२॥

N/A

References : N/A
Last Updated : May 18, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP