TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमशतकम्

श्री. प. प.वासुदेवानन्दसरस्वतीकृतं श्रीगुरुचरित्रकाव्यम्


प्रथमशतकम्
सुशंकरं सन्तमजं गुरुं परं परंपराध्रं प्रणमत्पुरंदरम् ॥
दरं हरन्तं प्रवरं सुसादरं भजेsत्रिजं योगिवरं निरन्तरम् ॥१॥
विकाराभावेsपि प्रभुरभवदाकारिवदजोsधिकाराभावेsपि स्वविमलयशोsवाचयदत: ॥ पिता पुत्रस्याssस्यादिव नववचो यो निजमुदे स देवोsद्याप्युक्तिं शिव इह मुहुर्वाचयति हि ॥२॥
मुग्धा जग्वा दग्धा म्लिष्टा वाsर्भस्य वाक् पितुर्मिष्टा ॥
शिष्टाल्पदोषदुष्टा दिष्टाद्यूनोsपि सास्य किं नेष्टा ॥३॥
धीशुद्धयै प्राक्चरित्रार्थ एष संगृह्यते स्फुट:
प्राज्ञै: प्रेक्ष्योsत्र तत्सारो दर्पणेsल्पे यथा मठ: ॥४॥
गन्धर्वपूर्या प्रथिता क्षितौ गोगन्धर्वपूर्णाsमरजापरीता ॥
गन्धर्वपूर्वाsमरमण्डिता च गन्धर्वपूस्तुल्यकुसंसृतिघ्नी ॥५॥
सुचिरार्जितपातकान्तकं रुचिरागारमिदं ह्यकान्तकम् ॥
अचिरादखिलार्यदं पुरं शुचिराजेन विराजितं वरम् ॥६॥
सत्रक्रिया द्राक् सफला भवन्ति यत्र प्रियार्थाश्च नरा भवन्ति ॥
आपन्नदु:खा: सुखिनश्च दत्त आपन्न दु:खानि यतोsत्र दत्त: ॥७॥
नरसिम्हसुनामधारको नरसिंह: किमनामधारक: ॥
इति तद्दृशयेsवधारक: प्रथित: प्राप स नामधारक: ॥८॥
सायंदेवान्नगनोथsथ देवरावोस्माद्गङ्गाधरोsस्मात्स एव ॥
पूर्वे सर्वे भक्तिमन्तोsथ तद्वत्स्यमित्याकाङ्क्षी सरस्वत्यभिख्य: ॥९॥
मां नो वेत्स्यपि नेक्षसे न श्रृणुषे सर्वज्ञ साक्षिन् विभो
नोपेक्षाsर्हति सर्व मेsज्ञनृपवत्त्वं नासि पूर्वप्रभो ॥
किं दाता सतृडब्दवद्वितर मेsतोsर्थ्यं पिताम्बा गुरुस्त्वं रुष्टो भव माssगतोsस्मि शरणं ह्याग:क्षमां मे कुरु ॥१०॥
द्विज इति नुतिमुक्त्वाsगात्स मोहं समोsहं न्विति निजभजकेभ्य: शंसमान: समान: ॥ नरहरिरथ तं चाssश्वासयत्स्वप्न एव प्रकटितनिजधाम्नाsत्राखिलं स्वप्न एव ॥११॥
तत: प्रबुद्ध: स तदा प्रबुद्धं जगत्प्रसिद्धं स ददर्श सिद्धम् ॥
विचिन्त्य दत्तं स मुदाsवदत्तं कं येन दत्त सुदृशाsन्यदत्तम् ॥१२॥
को भवान् कुत आयाति क्वैति भाति पितेति स: ॥
पृष्ट: सिद्धोsवदच्छुद्धो बुद्धोsनद्धोsजमानस: ॥१३॥
गुरोश्चरित्रामृतशान्ततर्ष: सिद्धोsयमीशेक्षणजातहर्ष: ॥
भूपृश्थचारी विधिलब्धतोष: सदा गुरोरस्य च संनिकर्ष: ॥१४॥
तिष्ये गन्धर्वस्थश्चिन्तामणिरिव स नो गुरुर्द्विशय: ॥
सभ्यो माधवतनयो योsम्बागर्भाशयोदयोsसत्यभय: ॥१५॥
नामधारक उवाच नो गुरु: सोsपि कष्टमसुखं च नो गुरु ॥
वारयत्यपि कथं भवाम्बुधेस्तारयत्यपि तथा दयाम्बुधे ॥१६॥
उवाच सिद्ध: श्रृणु वाचमद्धा त्वं द्वैतविद्धात्मक इत्यबोद्धा ॥
श्रद्धाविहीनश्च मुधा सुदीन: सिद्धाधिपे दोषमु मा निधा न: ॥१७॥
रुष्टे गुरावस्य न कोsपि पाता तुष्टे गुरावस्य न कोsपि हन्ता ॥
इत्यब्जयोनि: कलये शशंस स किं न देयात् सविमर्श शंस ॥१८॥
काश्यां कष्टेन चेष्टार्पणत उत मुदा तं विशिष्टेष्टजुष्टं पृष्ट्वा पृष्ट्वाsपि रुष्टं स्वगुरुमविरतं प्रेष्ठमेतं गरिष्ठम् ॥ मिष्टान्नद्यैश्च तुष्ट्वा वरदहरिहरौ दीपकोsतीत्य वेदधर्माख्यात्स प्रकृष्टर्द्धिमलभदुभयीमित्यवादीद्विधाता ॥१९॥
सत्त्वावृतो गुरुस्नेहभरितोsस्ततमा द्युमान् ॥
दीपको दीपक इव दिदीपे लोक उत्तम: ॥२०॥
लौकिकस्य तु गुरोर्महिमैवं किं पुनस्त्रिवपुषोsस्य हि मैवम् ॥
कुर्वशेषविदि नूनमसूयां यं ह्यजीजनदृषेरनसूया ॥२१॥
अतनु: सतनु: कुत आस तनुस्त्रितनुर्नृतनु: कथमत्रिजनु: ॥
इति पृष्ट उवाच स तच्चरणं मतिजुष्टमवेक्ष्य जगच्छरणम् ॥२२॥
लीलयैक इह भाति स स्वया मायया पुरुतनुर्ह्यमायया ॥
नैव मुह्यति यदर्चको द्विज स्वैरग: स वरदानतो द्विज: ॥२३॥
साsसूयात्मीयशक्तीरितकहरिहराख्याsतिथिभ्योsनसूया तत्कामा याप्तकामा परिहृतवसनान्नं ददौ बालदृष्ट्या ॥
बाला जातास्तदा ते सपदि सुवनितातीर्थविख्यापकास्तद्वत्सोत्थौ वत्सलत्वाद्रसमपि ददतुर्लोचनाभ्यां च साकम् ॥२४॥
अथ सा विभून्सुयशसा पयसा शमिताशिषोsत्रिदयिता शयितान् ॥ प्रमितात्मपालकहितान्प्रत्मिताक्षरगीति शायितवती वरगी: ॥२५॥
पालकाहितसुबालकालकालोचनात्कुटिललोचना न सा ॥
सद्दृशेर्न हि विपर्ययोsमताsसद्दृशिस्तु कुटिलाsपि चादृता ॥२६॥
श्रुत्वोद्गीतं गेहमाप्तस्तदाsत्रिर्ज्ञात्वा सर्वं तान्स तुष्टाव सत्री ॥
पुत्रीभूता नौ भवन्तोsद्य दिष्टया सृष्टयाद्या: स्वो वोsद्य धन्यौ सुदृष्टया ॥२७॥
यो विश्वं सृजति च पाति हन्त्यधीशो यो विश्वं विशति चे वीक्षते त्र्यधीश: ॥ योsध्यक्षो गुणरहितोsप्यजो गुणात्मा याsज्ञेयस्त्वमसि परा गति: स आत्मा ॥२८॥
वरं वृणीष्वेत्युदितोsथ स स्तुतै: परंतप: सत्यनुमोदितोsमृतै: ॥
नुतं सुतं वव्र इमे तथेति तं मतं जगुर्जरमुरथो यथागतम् ॥२९॥
साsदादत्रेर्द्युमत्तेज आधाद्गर्भमथो द्विज ॥
अजानसूत जगति गतिदा इह येsत्रिजा: ॥३०॥
मार्गे मार्गप्रदो मार्गशीर्षेsभूच्छ्रुतिमार्गित: ॥
सौम्य: सौम्यदिने पूर्ण: पूर्णमास्यां निशामुखे ॥३१॥
दत्तो मया तेsहमितीह दत्त: पूर्वोsपरश्चन्दंनतश्च चन्द्र: ॥
दुर्वासआख्य: प्रथितंस्तृतीय: साक्षात्प्रभुर्दत्त इहाद्वितीय: ॥३२॥
यद्वर्जुनालर्कमुखोद्धृदाद्यो वंशौषधीस्वृद्धिकृदिन्दुराप्य: ॥
तप्ताम्बरीषाक्ष इबाम्वरीषं शप्त्वाsप्यजं निन्य उतान्यथात्वम् ॥३३॥
नवसुधा वसुधातल आहृताsद्य भवता भवतापहृता सता ॥
इयमथाsन्यकथां कथयेत्ययं द्विजनुतो विरतोsप्यवदव्द्ययम् ॥३४॥
सकलेश्वरे दिवमिते सकले सकले प्रवेशनमिहास कले: ॥
कुतलेsप्यवतारदृषि: सुकुले विकलेंsहसा सति जने सकले ॥३५॥
प्राच्यदेशेsत्रिजस्तारवाच्य एत्य स्म याचते ॥
श्राद्धाहेsन्नं द्विजस्य प्राक् श्राद्धाद्गेहमदीनवाक् ॥३६॥
सुमतिर्नाम्नाsस्य सती सुमति: सुदती कृत्वाsतिथये सुनतिम् ॥
यशसाssनर्च प्रेम्णा यशसा सरसाsतो द्यौर्व्याप्ता महसा ॥३७॥
कुपुत्रदु:खं परिहर्तुमस्या: सुपुत्रतां दत्त इत: सदस्या: ॥
श्रीपादमाहुस्तमु योsर्च्यवर्य: श्रीपा दयार्द्रेक्षणजीवितार्य: ॥३८॥
व्रात्योsपि योsव्रात्य इवात्र वेदबेद्योsप्यखेदं खलु वेद वेदम् ॥
कलाधराभ: सकला: कलाश्च विद्याधरार्च्योsपि च सर्वविद्या: ॥३९॥
शुशुभे त्रिवृत: श्रीमान् सुशुभेल: स बुद्धिमान् ॥
य त्वस्य वाक् स्वतो मिष्टा किमु श्रेष्ठाsथ शास्त्रत: ॥४०॥
आजन्मात्मजसंस्कार कर्तुकामौ मुदाsन्वहम् ॥
तातौ गणयतो वारानियं हि प्रकृतिस्तयो: ॥४१॥
श्रीपाद आनन्दभरो जगाद श्रीवेदसद्वादविदस्तवाद: ॥
योगश्रियं तात वृणेsम्ब मान्यां भोगश्रियं नैव कदाsप्यमान्याम् ॥४२॥
उक्त्वा तदेति विरराम स धर्मसेतु: श्रुत्वा पिताsस्य वचनं द्विजवंशकेतु: ॥ किं प्रव्रजिष्यति सुतोsयभितीतकम्प्रो विप्रोsप्यकम्पत विनाsनिलमेकपुत्र: ॥४३॥
वाचा मोचातिरसया हर्षद: सोsप्यमर्षद: ॥
इति मत्वाsब्रवीत्पुत्रमम्बा निम्बातितिक्तगुम ॥४४॥
त्वमेकपुत्रोsस्य एधि गेही यजाध्वरैर्यैश्च कृतीह देही ॥
कृत्वाsप्तपुत्र: पितृसांपरायं व्रजाsन्यथा प्राप्स्यसि चान्तरायम् ॥४५॥
श्रीपदाह कति लालिता: सुता नापि मेम्ब वनिता मता वृता: ॥
ते क्क ता: क्क जननि क्क चाप्यजं पान्थसंगम इवैष संगम: ॥४६॥
सांपरायाधिलाभोsम्ब ते न्यासत: सद्गतिर्मेsप्यत: काssप्तिरन्या सत: ॥ इत्युदीर्याग्रजौ स्वक्षिपादौ तदा संविधायाssहसेव्यौ गुरू वां सदा ॥४७॥
पुत्रै: पिताsर्च्यो हि गुहिपुत्रदेव: श्रुतो यत: ॥
मातृदेवो भवेत्यादिश्रुतेर्माताsधिका तत: ॥४८॥
स्वरूपं दर्शयित्वाsम्बामाश्वास्य विजहार स: ॥
गामटन्नेत्य गोकर्णं जनशोकं जहार स: ॥४९॥
स्वं लिङ्गं दत्तमीशा निशिचरपतये गीतहर्षाद्गणेशा व्याजाद्विष्ण्वाज्ञया चान्वहमिह हि सह स्वैरिहास्तेsत्र मुक्ता चण्डालीत्याह मित्रसहनरपतये गौतमस्तद्धि सोsगात् ॥५०॥
अपर्णायस्य तत्क्षेत्रमपर्णा यन्निवासिन: ॥
गोकर्णाख्ये वसत्त्र्यब्दं गोकर्णाकृतिलिङ्गभाक् ॥५१॥
स विघने गगने गमने गुरुर्मतिमतीव नतीकृतगोतरु: ॥ सुखकरोsप्यकरोदकरोगहृद्द्रुतविलम्बितगोs खिलगोsघहृत् ॥५२॥
कृष्णातीरं ययौ भक्ततृष्णाहृच्छ्रीपदस्तत: ॥
ययौ कुरुपुरं तारं सुयौवनतनूद्वह: ॥५३॥
स्वयं तीर्थरूपोsपि तीर्थप्रकाशं करिष्यन्स्वगत्या जनानुद्धरिष्यन् ॥ स सस्नौ सुरादे: करोति स्म तृप्तिं सुरर्ष्यादिवर्ग: करोत्यस्य तृप्तिम् ॥५४॥
रेजे राजेव यति: क्षितितलभद्रासन: शशिच्छन्न: ॥
दिग्धृतयश:प्रकीर्ण: स्वच्छन्दगति: क्षमेट् समानश्च ॥५५॥
विश्वस्ता वनितार्दिता सकुसुता मर्तुं नदीमागता काचित्तां तु गतागतापहृदयं सद्भाषितै: सांत्वयन् ॥ आवन्तेयकचन्द्रसेनमणिसन्मन्दप्रदोषव्रताख्यानैस्तत्कुसुतं व्यधाद् बुधमदादिष्टं वरं श्रीवर: ॥५६॥
स यतिरथ भवान्तरेsपि तस्यै निजसदृशोत्तमपुत्रलब्धयेsज: ॥
अकथयदभयं शनिप्रदोषव्रतमथ सापि च तं जगौ दयालुम् ॥५७॥
भक्तोsभवत्तोकरक्षाsकरक्षा नमस्ते नमस्ते प्रसीद प्रसीद ॥
स्मरामि स्मरामित्रपादं त्रपादं न मन्ये त्वदन्येशितारं सुतारम् ॥५८॥
अणोरणिम्ने महतो महिम्ने श्रीपादनाम्ने परतत्त्वसीम्ने ॥
नमोsस्तु भूम्नेsमितसन्महिम्ने सच्चित्कधाम्ने दितमोहदाम्ने ॥५९॥
स्तुत्वेति साsभ्यनुज्ञाता नत्वेशं गृहमागता ॥
त्यक्त्वेहां भेज इतरां कृत्वेशव्रतमादरात् ॥६०॥
तत: प्रेत्य साsम्बाsभवद्विप्रकन्या प्रभु: सोsप्यदृश्योsभवद्यो वदान्य: ॥ स्वतुल्याङ्ग्यभावात्स्वसत्यत्वसिद्धयै स्थितोsत्रापि गुप्तोsपि भक्तेष्टसिद्धयै ॥६१॥
लब्धसंकल्पितेष्टार्थं द्विजं यान्तं गुरुं प्रति ॥
व्याजमैत्र्याsनुगा: कंचिज्जघ्नुश्चोरा हि निर्जने ॥६२॥
सद्यो विद्योतितस्तत्र शंकर: किंकरार्तिहा ॥
महसा तरसाssगत्य श्रीपादो विपदोsहरत् ॥६३॥
यन्मूर्घ्न्यभान्निर्मलचन्द्रहासस्तेनोज्झितो दस्युषु चन्द्रहास: ॥
क्षणेन सर्वानकरोद्गतासून्स्मृत्याssत्मतां योsनयदुद्गतासून् ॥६४॥
एकस्तत्रागतश्चोर: शरणं करुणं जगौ ॥
तस्करोsहं नहि भवान्तस्करो भास्करोsपि सन् ॥६५॥
महाचोरो हि भगवान्विलेयान्तर्विशन् द्युमान् ॥
रहस्यमप्यघं धीमान्सर्वं हरति नो भवान् ॥६६॥
जन्मप्रभृति न स्तेयं ज्ञातं सुकृतमर्जितम् ॥
तेन धर्मेण बह्गवन्नुद्धृतोsस्मि न संशय: ॥६७॥
पदान्मुखाच्च भवतो गङ्गा धर्मश्च निर्गत: ॥
गङ्गा मज्जयति स्पष्टं धर्म उद्धरति स्फुटम् ॥६८॥
क्काहं मन्दमति: क्केमे त्वद्गुणा भूकणाधिका: ॥
तथापि गुणवर्धिन्या दयया तsर्हताssगता ॥६९॥
श्रीपादोsपि सकारुण्यां पुण्यामाकर्ण्य तद्गिरम् ॥
दत्त्वाsभयं ह्यभयकृदजो द्विजमजीवयत् ॥७०॥
हततस्करशोणितशोणनिभे सति पूषणि सन्मणिवद्धयुदिते ॥
प्रभुरन्तरधाद्वसुधाविबुध: स च बुद्धवदुत्थित ईशदृशा ॥७१॥
हतशेषमुखातसर्वं श्रुत्वा नत्वाsस्तुवद्द्विज: ॥
हरिं हरे कुतश्चोरगोचरोsभूर्न मे कुत: ॥७२॥
कस्तेsर्हतीहितं वक्तुं ब्रह्माद्या अपि मोहिता: ॥
कृतं मे सुहितं तात स्ववित्तस्य निमित्तत: ॥७३॥
त्वां विनेतरमदभ्रमुदारं नेक्ष ब्रह्माद्या अपि मोहिता: ॥
कृतं मे सुहितं तात स्ववित्तस्य निमित्तत: ॥७३॥
त्वां विनेतरमदभ्रमुदारं नेक्ष ईण्न सममभ्रमुदारम् ॥
मन्य एष मितदो ह्यतिकामं त्वं ददासि च करोष्यतिकाभम् ॥७४॥
शतमुखमुखा: स्तोतुं यं त्वां प्रवृत्तधियोsपि ते विमुखविमुखा ह्रीता जाता अपीदमवेक्ष्य ते ॥ सुगुण गुणनां कर्तुं वर्ते सुमन्दमतिर्द्युमन्नहह कलये पाणिभ्यां किं कलानिधिमाधिहन् ॥७५॥
द्विज इति नुतिमुक्त्वा तत्पुरं प्राप्य चक्रे द्विजभुजिमथ निन्ये श्रीपदस्तं पद्म स्वम् ॥ अकलि कलिमलघ्नं येन चरित्रं सजलजलदनील: श्रीपद: श्रीप्रदो न: ॥७६॥
या पूर्वोंक्ता द्विजसुवनिता विप्रकन्याsथ जाता साम्बा साsम्बार्चनसुनिरता माधवस्याssस कान्ता ॥ विप्रस्योभौ मतिगुणलसद्रूपलक्ष्मस्वभावौ प्रेम्णा बद्द्धात्मनयनधियौ चक्रवत्सुस्वभावौ ॥७७॥
तौ सुस्वरौ सुवसनौ सुमुखौ सुवृत्तौ सव्रीडहावसुखवीक्षणहृष्टचित्तौ ॥ तुच्छीकृतत्रिदशनर्मुसुखौ सुगात्रौ देवाविवासतुरुभावपि भद्रपात्रौ ॥७८॥
अथ साsमृतभागिनी परा परमानन्दभरादरा वरात् ॥
निदधौ परतेज उत्तमं वरदानाच्छुशुभेsपि सत्तमम् ॥७९॥
द्वैतवादे प्रवृत्ते तत्कुचयोरिव वादिनो: ॥
भ्रूणोsधात्तन्मुखे नैल्यं माध्यमे चापि गौरवम् ॥८०॥
सर्वगोsपि खलु गर्भगोsभवन्निष्कलोsपि सकलोपमोsभव: ॥ मायिकोपमचरित्र ईश्वरे नात्र चित्रमतिमायिके परे ॥८१॥
हृदयद्वययोगत: स्मृतं दयानीयं खलु दोहदं मतम् ॥ अहहाsत्र विचित्रमूह्यतेsहृदयोsजोsप्ययथावदीक्ष्यते ॥८२॥
महाभूतं भूतं तदहमिह बाह्यान्तररगतं मतं ब्रह्मादीनामनिशमसकृच्चेष्ट्यति यत् ॥ यतो भीता जाता: पवनमुखदेवा: प्रचलिता विरूपं सर्वादं यदिति वदति स्म द्विजसती ॥८३॥
क्षणलवचपलं कुलायुरेषा तनुरस्थ्यामिषमांसयुङ्मलाढ्या ॥
चलदलजलबिन्दुवच्छ्रियस्ता मृगसलिलैस्तुलितं त्विहार्थजातम् ॥८४॥
योगामृतं क्क क्क गलल्लालस्त्रीमुखचुम्बनम् ॥
क्क समाधि: क्क व्यवायो मोहो जडधियामयम् ॥८५॥
शमदमसमबन्धुतात्युदारा न न भुवने विरतीतरा हि दारा: ॥
न्यसनसमसुधाशनं न चान्यन्न च सुवृषो ह्यभयार्पणात्तथान्य: ॥८६॥
सुधाsपमानो विषमेव मानो भिक्षासमानं न च सोमपानम् ॥
तदेव मेsभीष्टतरं परं नो हृदाsपि काङ्क्षे कुसुखं न वीक्षे ॥८७॥
एवं ब्रुवन्ती सुदती सती सा न साधु मन्यsन्यदुदारहासा ॥
वासालयं भासयती स्वभासा न साध्वसं स्म क्क च वीक्षते सा ॥८८॥
विज्ञाय लोका इति दोहदेहां तां वीक्ष्य विद्योतितचारुदेहाम् ॥
विसस्मिरेsथ व्यकरोद्धवश्च क्रिया अभूत्तत्र वरोद्धवश्च ॥८९॥
अब्रध्नगेष्टखगसोचितसिधिपूर्वप्रव्रज्यकेथ समयेsनपरोsनपूर्व: ॥
स व्याहरन्प्रणवमाविरभूदजातो जातोsविता य इह भक्तिमतामजात: ॥९०॥
निरञ्जनेsस्मिन्पूर्णेsतिशयाधानमलक्षती ॥
न स्तोsथापि व्यधात्तात: संस्कारं बुद्धिमान्द्यत: ॥९१॥
स च सुतो नृहरीत्याभिधानत: सुविधितो जनकेन च संस्कृत: ॥
प्रववृधे क्रमतो जनरञ्जन: स तु धिया स्म न वक्ति निरञ्जन: ॥९२॥
नानोपाया ये कृतास्ते वृथैव जातास्तातौ दु:खितौ तौ मुधैव ॥
मूकं वाचालं करोतीह यत्तु ज्ञं तन्मूकं मेनिरे ब्रह्मवस्तु ॥९३॥
खिन्नौ वीक्ष्य गुरू व्रतोत्तरमहं वक्ष्ये तदेत्यात्मज: संज्ञाप्याथ स तन्मुदे च कनकं लोहस्य चक्रे द्विज: ॥ पारस्कारगिराsकारोदुपनयं भिक्षां ययाचे तदा वेदानप्यवदद्बटु: पटुगिराsहं प्रव्रजिष्ये गुरू ॥९४॥
तदा माता वाताहतसुकदलीवाsपतदमुं समुत्थाप्य प्राहाsहहह सुत नाsयं क्रम उत ॥ पतस्येतेनाsतो वरय रमणीं मो भव गृही नहीत: पातस्ते परमहितमेतच्छ्रुतिमतम् ॥९५॥
संस्कारै: संस्कृतोsन्त:शुचिरिह लभते साधनानीतरो नो तस्मात्त्वं सद्वितीयो भव भवहतये देवपित्रर्चक: स्या: ॥
कालोप्तं बीजमुच्चै: फलति सुत तथोद्वाहनादि स्वकाले कार्य पूर्वेsपि सर्वे पितर इदमहो तात हीच्छन्ति नित्यम् ॥९६॥
स प्राहाsम्ब विवेकिनो न नियमोsयं दुस्तरे नश्वरे संसारे सति सारवर्जित इतो मात: पित: किं सुखम् ॥ दु:खं दारपरिग्रहोsप्यधनता चेत्क्लेशिताsशान्तताssढ्यस्याsप्यन्वगकं स्वसंक्षयमुखं नाकोsपि चैवंविध: ॥९७॥
यज्ञे सामग्र्यभावे तु कृषिवदफलं चेत्सुसिद्धोsपि चान्ते पात: स्वर्गात्तदाज्ञां वितर हि विरत: प्रव्रजाम्येकपुत्रे ॥
मध्द्यानात्त्व तरिष्यस्यपि झटिति सुतास्ते भविश्यन्त्यपीत्थं प्रोक्त्वाsस्यै दर्शयित्वा प्रथमतनुमदात्प्राक्स्मृतिं च त्र्यधीश: ॥९८॥
जननी नवनीतकोमलं नवनीहारभमस्य सोज्ज्वलम् ॥
परिरभ्य वपुर्मुमोद सा यदु मातुर्हि सुचन्द्रशीतलम् ॥९९॥
सा प्राहैकसुतं विलोक्य खलु ते दास्याम्यनुज्ञां भवांश्छ्रीपात्सत्यवचास्त्वया सुकृपया गोत्रद्वयं पावितम् ॥ ओमित्युक्तवताsवतारसुभृता तस्या: स्मृतिर्लोपिता धृत्वा गर्भमसूत साsपि च सुतौ नित्यं सुताह्लादिता ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-18T09:54:01.4930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

routing

  • स्त्री. आवर्ती देवघेव 
  • मार्गनिश्चिति 
  • न. कार्यमार्गण 
  • स्त्री. क्रमनिश्चिति 
More meanings
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site