TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

श्रीदत्तचंपू: - त्रितीयस्तबक:

श्री. प. प.वासुदेवानन्दसरस्वतीकृतं श्रीगुरुचरित्रकाव्यम्


त्रितीयस्तबक:
मधुकृदजगराप्तौ प्राह वैराग्यतोषौ
स्वजपिहितजलाभं य: स्वसौख्यं सशेषे ॥
मृगजलविषयात्प्रर्‍हादमूचे विरक्तं
निजगतिमनुपाधिं तं च निन्ये स्वभक्तम् ॥१॥
पञ्चविंशतिभूम्यादिगुरुप्राप्तं स्वशिक्षणं ॥
योन्वीक्षणं यदुं प्रोचे हेयोपादेयलक्षणम् ॥२॥
धृतिसत्यशमादिसाधनै: सकुसंगोत्सृतिभिर्मरुद्धनै: ॥
अहिपिंगलसाध्यदेवता गतिमूचे य इहानताविता ॥३॥
( उपजातिवृत्तम् ) आत्रेयदत्तो विधिविष्ण्वजात्मा स मे परात्मा गुरुदेवतात्मा ॥
यो नोsनसूयात्रिसुतोsधिपुण्यादिहोपलब्ध: सुरतो महात्मा ॥४॥
अनन्यगतिचातकं घन इहाभिवर्षत्यलं
तथापि सकलासुधारिपरितृप्तयेsलं जलं ॥
तथा करुणयावतीर्ण इह योsनसूयासुतो
महर्षिवरदोsपि नोsत्र परदोsभवत्सद्गति: ॥५॥
( स्वागतावृत्तम् ) चातकस्य कियती तृडपोsस्मै यो ववर्ष किमलं न परस्मै ॥
तास्तथापि न चिरस्थितयोsयं नित्य एश भगवान्वरदोsयं ॥६॥
( उपाजातिवृत्तम् ) भगीरथो यत्नत आनयद्रां गंगां स्वमुक्त्यै न इहापि मुक्त्यै ।
साsयं तथैवापि च सैकदेशेsयं स्मर्तृगामी सकलप्रदेशे ॥७॥
( इंद्रवंशावृत्तम् ) तोयैकदानो घन आगत: क्वचिद्गंगाघभंगा स्थिरकल्पपादप: ॥
संकल्पितं रात्यघतापपापहाsसंकल्पितं यश्चरकल्पपादप: ॥८॥
निद्रा मातृपुरेsस्य सह्यशिखरे पीठं मिमंक्षा पुरे
काश्याख्ये करहाटकेsर्घ्यमवरे भिक्षास्य कोलापुरे ॥
पाञ्चाले भुजिरस्य विठ्ठलपुरे पत्रं विचित्रं पुरे
गन्धर्वे युजिराचम: कुरुपुरे दूरे स्मृतो नान्तरे ॥९॥
( उपजातिवृत्तम् ) तमत्रिजातं श्रुतिजातगीतं वदान्यवित्तं प्रथितं हि दत्तं
सह्माचले चन्द्रकुलोत्थ आयूराजा शरण्यं शरणं जगाम ॥१०॥
( वसंततिलकावृत्तम् ) स्वच्छांबुपूर्णसरसीसरसीरुहान्तश्चक्रेत्र केलिकलहं कलहसजातं ॥
तस्मिन्नुडाद्युपरमे परमे निविष्टं देवं ददर्श वरदं वरदंडहस्तम् ॥११॥
( भुजंगप्रयातवृत्तम् ) चिरोपोषिताक्षीष्टसत्पारणेव चिरभ्रान्तचित्तभ्रमावारणेव ॥
कृपेक्षेच्छुनाजस्य मूर्तिर्मुदेव नृपेणेक्षिता तस्य मूर्ता मुदेव ॥१२॥
( योगिनीवृत्तम् ) स तमागतमात्मतुष्टये धुतमानं नतमात्मदृष्टये ॥
निजगौरवभृत्सुमर्षणो निजगौ मत्त इव स्वमर्षण: ॥१३॥
रे रे मूढ विरूढदर्प कुपथारूढातिगूढाश्रमे
कस्मात्त्वं भ्रमसीत आशु न यदा यास्यस्यरं तेsश्रमं ॥
नि:शेषभ्रममूलकृंतनमिह द्राक्कारयिष्येsधुना
स्त्रीवक्त्राद्गलता समेन मधुनाशुद्धोsस्म्यहं सीधुना ॥१४॥
( अनुष्टुप् ) भर्त्सितस्ताडितोsप्येवं पतितोsग्रे स नीतिमान् ॥
दयालो मा कुरूपेक्षां पाहि मेत्याह भक्तिमान् ॥१५॥
( अनुष्टुप् ) प्रणतं प्राह भगवानसि त्वं मयि भक्तिमान् ।
मद्यं सास्रामिषं देहि हृद्यं तोषोsन्यथा न हि ॥१६॥
( अनुष्टुप् ) तथेति साक्षात्स पशुसोमबुद्धयाण्डयोनये ॥
यथेष्टं संस्कृतं रुच्यं तथादाच्छास्त्रयोनये ॥१७॥
( रुचिरावृत्तम् ) इतिश्वर: क्षितिपतिना प्रसादितो मतीश्वर: स च रुचिरां प्रमोदत:
जगौ गिरं वरय वरं मदर्चको न चेतरं पुनरिह याचितुं क्षम: ॥१८॥
( असंबाधावृत्तम् ) भूपस्तं नत्वाहासुरसुरनरजेतारं शूरं दातारं सुरवर सुतमुत्तारं ॥
देहीत्याहेशं विधिहतमतिरेवायू रंकायैकोलं भवति जगत्यूर्णायु: ॥१९॥
( अपराजितावृत्तम् ) प्रभुरपि च तथाविधात्मजलब्धये फलमिनपतये ददौ स्वविभूतये । स्वहृदि सकलं निधाय स भावि शं मृडयति मृदिभैर्नृपोsपि हि बालिशम् ॥२०॥
( प्रहरणकलितावृत्तम् ) स निजपुरमगात्फलमिदमदात्स्त्रिय इयमपि गर्भमथ वरमधात् दिगधिपलवजं दिगिव जलधिजं निजपतिरतित: प्रभुफलबलत: ॥२१॥
( गद्यम् ) तदनु श्यामसुन्दरपरपुरुषेण क्षीरपूर्णशंखेनाभ्युक्ष्य मौक्तिकमात्मने दत्तमिति राज्ञ्येन्दुमत्याssवेदितस्वप्नस्य श्रीदत्तप्रसादजन्यो हूण्डासुरघ्न: प्रतापी पुत्रओ जनिष्यत इति शौनकोदित भाविफलं चारणमुखाच्छुतं हुण्डासुराय तत्कन्याssवेदयामास ॥२२॥
( वसन्ततिलकावृत्तम् ) तप्तुं तपो नृप इतो यदि तर्हि शूरो हुण्डासुरो जितसुरोsत्र धरोपरीश: ॥ जात: स देवगदितं स्वमृतं सुतात: श्रुत्वैत्य वीक्ष्य च तथा विमना हि जात: ॥२३॥
अन्योन्यगौरवस्पर्धिकुचास्ये नीलतार्पिता ।
गर्भेण केवलं राज्ञ्या नासुरास्येsपि सार्पिता ॥२४॥
( अनुष्टुप् ) तद्गर्भं हन्तुमासुर्या गुप्त एत्य स मायया ॥
ददर्श दष्टदशनो उवलत्तत्र सुदर्शनम् ॥२५॥
( अनुष्टुप् ) दुष्प्रधर्षात्स भीतोsस्यै दु:स्वप्नानि व्यदर्शयत् ॥
त्रयीतनुमनुष्ठाय सा तद्भयमनाशयत् ॥२६॥
( अनुष्टुप् ) तत: सुतमसूतासौ काले तुङ्गगषड्ग्रहे ॥
महेश: किं नृपगृहेsवतीर्णो दैत्यनिग्रहे ॥२७॥
( अनुष्टुप् ) आनन्दो भूपते: पूर इवाब्धेरब्जवीक्षणात् ॥
नान्त: स्थातुं समर्थोsभूत्पुत्रसद्रत्नवीक्षणात् ॥२८॥
मुदाप्लुतोsभ्यर्च्यं देवान्स पितॄन्मुक्तबन्धन: ॥
धनाद्यदाद् द्विजातिभ्यो जातकृत्ये महाधन: ॥२९॥
( अनुष्टुप् ) मायामाराध्य मायावी गत्वारिष्टं स दानवीं ॥
मायामुद्भाव्य तं पोतं सुप्तेभ्योsहरदद्भुतम् ॥३०॥
शक्तो दत्तोsप्यदान्मंत्रशक्त्यै मानं स दानव: ॥
नवपाकं स्त्रियै दत्वा तत्पाकं कर्तुमादिशत् ॥३१॥
सा प्रेक्ष्य सनालं सास्राक्ष्यपि बालं ॥
प्राहैष न वध्य: प्राज्ञायममेध्य: ॥३२॥
प्राहापि स बाल: प्राप्तो मम काल: ॥
भक्ष्योsद्य दुरात्मा रक्ष्योयमिहात्मा ॥३३॥
( अनुष्टाप् ) तथेति दुष्टधी: सादात्सैरन्ध्र्यै च स्वयं ह्मदात् ॥
सा च तं बल्लवकरे सोsस्त्रं हन्तुं दधौ करे ॥३४॥
( उपजातिवृत्तम् ) सुगुप्तचक्रोपरि तच्छितास्त्रं भग्नं तथान्यत्प्रहृतं शितास्त्रम् ॥
ग्राव्णीव खङ्गं परभक्तिसारविप्रे प्रयुक्तोsपि यथाभिचार: ॥३५॥
( अनुष्टुप् ) तदा क्रूरापि सैरन्ध्री द्रुतचित्ताssह बल्लवं ॥
न जह्येते शिरस्यस्य देवोsधात्करपल्लवम् ॥३६॥
( उपजातिवृत्तम् ) तथेति पोतं स च तं वसिष्ठद्वारे निधायैककुरङ्गपोतं ॥
हत्वा ददौ तत्पलमासुराय हुण्डाय धुर्त: कुधियेsचिराय ॥३७॥
( उपजातिवृत्तम् ) तत: प्रभाते विदुषां वरिष्ठो दृष्ट्वा सुतं दिव्यदृश्या वसिष्ठ: ॥
दत्तप्रसादं सुतमायुषस्तं विज्ञाय चादाय निनाय पस्त्यम् ॥३८॥
( इन्द्रवज्रावृत्तम् ) दत्तप्रसादोsयमिहायुषोsर्भो दत्त: प्रसादो विधिनेति सोsदात्
पत्न्यै महापूरुषलक्षणं तं प्रेम्णापि साsपात्कमलेक्षणं तम् ॥३९॥
( अनुष्टुप् ) ददौ डिंभायाभिधानं करिष्यत्यरिबन्धनम् ॥
अत्यर्थ हीति नहुष इत्यर्थज्ञर्षिमारिष: ॥४०॥
( अनुष्टुप् ) दिने दिने स ववृधे शशिवच्छशिवंशज: ॥
तपनर्षिकरस्पर्शात्परेशानुग्रहादपि ॥४१॥
( अनुष्टुप् ) उपनीत: स मुनिना विनीत: शिक्षितोsमुना ॥
विद्याकलासु निष्णात: स्ववेदे च विषशेत: ॥४२॥
( अनुष्टुप् ) राज्ञी बुत्ध्वाथ सुमति: प्राज्ञी सेन्दुमती सती ॥
अरिष्टेsर्भमपश्यन्ती मूर्छिता पतिताsधृति: ॥४३॥
( तनुमध्यावृत्तम् ) उत्थाय च बुत्ध्वा बालं निजबुद्धया ॥
अन्वेष्य रुरोदार्ता सा तनुमध्या ॥४४॥
( कुमारललितावृत्तम् ) कुमारललितां मां व्यधात्क्षणमपीमां ॥
विधि: सकलपालं स किं खलु न बाल: ॥४५॥
( माणवकाक्रीडितकं वृत्तम् ) माणवकाक्रीडितकप्रायविचेष्टो हि स क: ॥
र्पाक्तनदुष्कर्मवशात्प्रादुरभूक्तिं कुदशा ॥४६॥
( चित्नप्रदावृत्तम् ) चित्रपदार्थसुचौर्याच्चित्रमभूक्तिमिहार्या ॥
एहि कुरु स्तनपानं देहि सुदर्शनमानम् ॥४७॥
( विद्युन्मालावृत्तम् ) विद्युन्मालातुल्यो योग: स्वानां यद्यप्येषोsयोग: ॥
सोढुं शक्यो नैवातीव प्राप्तं कष्टं दुष्टं देव ॥४८॥
( भुजगशिशुभृतावृत्तम् ) भुजगशिशुभृता रोष: कृत इह मयि तत्तोष: ॥
प्रणतिमखत एवास्तु प्रभुरथ स मुदं यातु ॥४९॥
( अनुष्टुप् ) आयुरप्याकुलप्राणवायुरत्यार्त एत्य तां ॥
मूर्छितां वीक्ष्य वनितां मूर्छितोsगादचेष्टताम् ॥५०॥
( उपेन्द्रवज्रावृत्तम् ) स लब्धसंज्ञोsवनिपsथ दैवप्रलब्ध आह प्ररुदन् तदैव ॥
सदैव रक्षार्थमिहार्चिता ये मुदैव तेsप्यप्रभवस्त्वपाये ॥५१॥
( अनुष्टुप् ) धिक्प्राकारान्सपरिखान्धिक्प्रासादांश्च सारसान् ॥
धिग्बलं मंत्रजालं च धिग्धर्मं कोsपि न प्रभु: ॥५२॥
( इन्द्रवज्रावृत्तम् ) वन्ध्यं तपोsभूदपि कृछ्रसाध्यं वन्ध्यं जपाद्यं च सुयत्नसाध्यं ॥
साध्यं किमेभिर्यदि वामदैवमाध्यंचितोsत्र त्वभवं सदैव ॥५३॥
( उपजातिवृत्तम् ) दुर्दर्श ईशोsपि मयात्रिजात: संपूजितो येन वरोsपि दत्त: ॥
दत्ताभये तत्पदि मेsस्ति चित्तं दत्ताश्रयं तं प्रणमामि दत्तम् ॥५४॥
( योगिनीवृत्तम् ) भगवन्किमु मामुपेक्षसे मघवन्मान्य सहापि नेक्षसे ॥
चरितं किमु दुष्कृतं मया चरितं वाग उतेश ते मया ॥५५॥
( योगिनीवृत्तम् ) प्रणमामि विभो प्रसीद मे प्रणतेsपीश धृते महादमे ॥
शरणं क्क परं परेश नश्चरणं तेsभयदं गतिर्हि न: ॥५६॥
( शालिनीवृत्तम् ) पुत्रार्थं त्वाराध्य लब्ध्वापि कान्तं पुत्रार्थं ते सत्प्रसादादकान्तं ॥
नेक्षेsद्यार्तो नष्टपुत्र: सुरेश वीक्षे त्वत्तोsन्याश्रयं नो परेश ॥५७॥
( योगिनीवृत्तम् ) इति विक्लवितं निशम्य तन्मतिवित्क्लिन्नमना मनागपि ॥
सदकासहनो मनोजवं मुनिमेवेरयितुं स्म वाञ्छति ॥५८॥
( अनुष्टुप् ) अर्थार्थी पूर्वमप्यार्तो भक्तोsनुग्राह्य एव मे ॥
इति देवर्षिमात्रेयो मतिदेव: समीरयत् ॥५९॥
( अनुष्टुप् ) विष्वक्प्रसारिधामाध: पतन्सूर्य इवापतत् ॥
रणद्वीणो हरिं गायन्नारदो दिव्यदर्शन: ॥६०॥
( उपजातिवृत्तम् ) तदोर्ध्वमुत्क्रामत आत्मनोsसून्मुदोत्थितोस्याश्वभिवादनेन ॥
भूयो यथावत्प्रतिपाद्य पाद्यपूर्वै: स आनर्च सुरर्शिमाद्यम् ॥६१॥
( उपजातिवृत्तम् ) भक्त्या विधाय प्रनतीरुदंतं विज्ञाप्य दु:खं पुरतो रुदन्तं
हसन् तमाश्वास्य स चारुवाचमृषि: स्मरन्नत्रिजमित्युवाच ॥६२॥
( उपजातिवृत्तम् ) कथंचनापि स्मरणेन यस्य सद्यो भवान्तो भवतीह तस्य ॥
पदं चिदानन्दमयात्मलोकं भजंश्चिरान्नापि जहासि शोकम् ॥६३॥
( अनुष्टुप् ) विधूतरागपङ्कं हि श्रेयोयनमुपेयुष: ॥
निरपायाश्रयानन्ता प्राप्यासौ वसुधा मता ॥६४॥
अध्यात्मदृष्ट्या प्रकृते: परस्ताद्बहिर्विकारं पुरुषं महर्षि: ॥
यं वा उदासीनमनाद्यनन्तं शशंस सोsस्मात्क इहापरोपि ॥६५॥
( उपजातिवृत्तम् ) स एव तप्त्वा तप आत्मनोद: स्वाभिन्नशक्त्यासृजदप्रमेय: ॥
सद्धर्मगुप्त्यै मुनिजोsवतीर्ण: कस्तद्गुणान्सद्गतिदान्वितीर्ण: ॥६६॥
( इन्द्रवज्रावृत्तम् ) तस्मात्प्रसन्नात्तु शुगास्पद: सुत: प्राग्याचित: सद्गतिदाद्विमोहत: ॥ योsजायमान: पितरौ पुरा चिरात्संक्लेशयेच्च प्रसवा त्तत: परम् ॥६७॥
जातो ग्रहार्ते: परतोsपि मौर्ख्याद् व्रती त्वविद्योविबुधोsविवाहात् ॥ युवौपपत्यात्सुतवांश्च नैस्व्यात्पुत्रेण किं शर्म सदार्तिदेन ॥६८॥
गौणात्मा नृहरिरिवात्र पुत्रसंज्ञो मिथ्यात्मा घट इव चात्र गात्रसंज्ञ: ॥ मुख्यात्मा परतरचित्स एष दत्त: सख्या युग्भव खलु तेन चाप्रमत्त: ॥६९॥
यतो यावदिष्टं तत: प्रेम तावत्सदा प्रेयसि त्वात्मनि प्रेम शश्वत् अतश्चान्यत: संविविच्य प्रियत्वं विधेह्याशुदत्तात्मनि क्षत्रिय त्वम् ॥७०॥
तत्रात्मनीदं जगदत्र चात्मेत्येवंविदो नैव हि शोकमोहौ ॥
एवं विचार्य त्यज राजवर्य शोकं कुरु स्वीयमवश्यकार्यम् ॥७१॥
( अनुष्टुप् ) हुण्डासुरेण नीतोsपि सुतस्ते दत्तरक्षित: ॥
गेहेsस्ति कस्यचिदृषे: स तं दैत्यं हनिष्यति ॥७२॥
तं पश्यस्यचिरेणेति निवेद्य मुनिपुंगव: ॥
नृपस्य पश्यतस्तत्र विद्युद्वत्स तिरोदधे ॥७३॥
( स्वागतावृत्तम् ) नारदेन गदितं गतशोक: शारदेन्दुवदन: सविवेक: ॥
वल्लभां स पुनरुक्तमिवोचे सापि हापितशुगात्तमुदूचे ॥७४॥
नमस्तेsकहंत्रे समस्तेष्टदात्रे विहस्तेष्टकर्त्रे समस्तेडितात्रे: ॥
प्रियाया: प्रभावात्तवेहोपलब्धि: क्रियाहीन ते मेsर्पिताद्योपलब्धि: ॥७५॥
सदैव तेंध्र्यंबुजपञ्जरेsद्य मुदैव मे मानसहंस ईड्य ॥
अकंपमस्त्वित्याधिपं ननाम सकंपरोमाञ्चयुगाह नाम ॥७६॥
जगौ नृपालोsखिलहेतुभूत विगौरवाद्याखिलसेतुभूत ॥
अभूतपूर्वा इह तेsनुवेलं लीला विभांत्याधिहरा इहालम् ॥७७॥
योगीक्षते योगवशीकृतेन चित्तेन यत्सत्तव देव धाम्न: ॥
जिज्ञासुरस्मीश्वर धीरतं त्वां भक्त्या मुमुक्षु: शरणं प्रपद्ये ॥७८॥
( अनुष्टुप् ) इति संप्रार्थ्य देवेशमतिसन्तुष्टमानस: ॥
भगवत्कीर्तनप्रेमनिर्वृतोsभूत्सदैव स: ॥७९॥
( अनुष्टुप् ) नहुषस्त्वेकदारण्ये शुश्राव मृगयां चरन् ॥
आकाशवाण्या स्वोदन्तं गुरवे स शशंस तम् ॥८०॥
( अनुष्टुप् ) वसिष्ठोप्यादित: सर्वं निवेद्य सुरदुर्हृदाम् ॥
वधायाज्ञापयत्सोsपि प्रतस्थे चिन्तयन्गुरुम् ॥८१॥
धीसारथिर्देहरथोर्थवाहो हृत्प्रग्रहो ज्ञानिवदेक एव ॥
महाबलानां हतये प्रतस्थे सुरद्विषां देवगुरूक्तिशक्ति: ॥८२॥
( उपजातिवृत्तम् ) आजानुबाहुं शरचापहस्तं पभ्द्यां चरन्तं निजकार्यसक्तम् ॥
दृष्ट्वेव रामं मघवा ससूतं तस्मै रथं प्रेरयदाशु सास्त्रम् ॥८३॥
( अनुष्टुप् ) उग्रायेव रथ तस्मै भूरथाय स मातलि: ॥
सोपस्करं रथं प्रादात्सन्नद्ध: सोsपि चारुहत् ॥८४॥
( अनुष्टुप् ) तत्साहाय्याय सन्नद्धा: स्वयं देवा: समागता: ॥
तत्कोलाहलमाकर्ण्य चकितोsभून्महासुर: ॥८५॥
( गद्यम् ) तदनु दनुजायायु:पुत्रो युद्धायागच्छतीति श्रुतवते पूर्वदत्तोsर्भो हतो न वेति शश्वत्पृच्छते हुण्डाय स्वप्राणपरीप्सया भार्यादयो हत एवेति मृषा प्रतिपाद यामासु: ॥८६॥
( गद्यम् ) अत्रांतरे हुण्डकारारुद्धयाsशोकसुन्दर्या शुककन्यया प्रेरितां रंभां दैत्यवधोत्तरं देव्या दर्शनं भविष्यतीति नहुषो निवर्तयामास ॥८७॥
हुण्डोसुरोsपि संशुष्यत्तुण्डोsसुरबलं बली ॥
चतुरं राजपुत्राय चतुरंगमचोदयत् ॥८८॥
( सिंहोन्नतावृत्तम् ) दैत्या: समेत्य रणसीम्न्यमृतानवेक्ष्य
मर्त्यं ह्युपेक्ष्य सहसारिहृदोभिलक्ष्य ॥
बाणांस्तरां खरतरान्मुमुचु: कृतान्त-
प्राणापहारकुशलान्युयुधुर्नितान्तम् ॥८९॥
( योगिनीवृत्तम ) नहुषोsसुरपीडितान्सुरानवलोक्याथ जघान सोsसुरान् ॥
पतिता: कतिचिद् द्विधा कृता भुवि कृत्ता दितमस्तका मृता: ॥९०
( वंशस्थवृत्तम् ) क्षणेन सैन्यं चतुरंगमोजसा रणे हतं मत्तमतीव तेजसा ॥
पलायिता: केsपि हताश्च केsपि तान्बलाद्विलोक्यापतदाशु हुण्डक: ॥९१॥
( इन्द्रवज्रावृत्तम् ) हुण्डासुर: प्राह मनुष्यपोत ज्ञातं न ते मे बलमल्पचित्त ॥
प्राप्तोsस्मि कालो यदि जीवनेहा चेन्मां गतास्त्र: शरणं व्रजेह ॥९२॥
( हरिणीवृत्तम् ) हसितवदनो बालो दीनो जगौ खलु मे श्रृणु
प्रहर कुचर त्वं मां कामं दयामिह मा कुरु ॥
न हि शशिकुले जात: कश्चिन्नर: शरणं गतो
जनुषि विरहं पित्रो: कर्तुस्तवास्म्यसहुगत: ॥९३॥
( शार्दूलविक्रीडितम् ) इत्युक्त्वा निजघान बाणनिचयैर्हुण्डं स मायाविनं
मायां तस्य विधूय देवगुरुपद्धयानप्रभावाच्च तम् ॥
हत्वान्हाय जयश्रिया सह तदाsशोकान्वितां सुन्दरीं
वव्रे गुर्वनुमोदितोsपि सुरान्स्वर्गाय स प्रैरयत् ॥९४॥
( शिखरिणीवृत्तम् ) वसिष्ठेनाज्ञप्त: सह वनितयोपेत्य विनयी
जयी पित्रो: पादान्विधिवदभिवाद्याह न मयि ॥
विधेयाsसूया स्वाचरणगुनबद्धो हि जनिमान्
परेशाधीनोsसौ कुहकगुणबद्धेध्मनवरत् ॥९५॥
जननी नवनीतकोमलं सुविशाल्म सुतवर्ष्म मञ्जुलम् ॥
परिरभ्य मुमोद साप्यलं खलु मातुर्यदु चन्द्रशीतलम् ॥९६॥
( उपजातिवृत्तम् ) प्रभोर्वरं नारदवाक्यमायु: स्मृत्वा पुनर्नष्टसुताप्तिमोह: ॥
मुमोद नालं सकलं मृषेति विद्वान्विरक्त: स गृहाश्रितोsपि ॥९७॥
( आर्यावृत्तम् ) जरसा पलितत्त्वेन श्रुतिमेत्यावेदितान्तकोपगम: ॥
पुत्रन्यस्तमहीधू: सस्त्रीकोsगाद्वनं वृतावगम: ॥९८॥
( रथोद्धतावृत्तम् ) तत्र विप्रधन आबभौ प्रभौ लब्धभक्तिरथ योगविद्बिभौ ।
लीन आस सुतरां स विद्विषड्डिण्डिमोपममहोक्तिरद्विषत् ॥९९॥
या सारात्रेरात्मजस्येयमत्रेरुक्तारात्रेर्दिव्यलीला मयात्रे: ॥
सात्रेयस्य प्रीतिदास्त्वीरकस्य प्रेम्णोत्सृष्टा शालिनीयं परस्य ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-18T10:01:22.2370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

overspeed protection

  • अतिचाल रक्षण 
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.