TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

श्रीदत्तचंपू: - प्रथमस्तबक:

श्री. प. प.वासुदेवानन्दसरस्वतीकृतं श्रीगुरुचरित्रकाव्यम्


प्रथमस्तबक:
स्मृतोsप्यवति यो विघ्नं निघ्नन्नम्बासुत: स्तुत: ॥
गन्धर्वस्थ: स हि कलौ मलौघघ्नोsस्तु मे हृदि ॥१॥
योगभ्रष्ट: कश्चन ब्रह्मपुत्र: पित्रे प्रोचे यां चकारात्रिपुत्र: ॥
सल्लीलां तां वच्मि संक्षेपतश्चिच्छुद्धयै यायाद्धयेतदन्तं न कश्चित् ॥२॥
पुरा प्रतिष्ठानपुराग्र्य आसीव्हिजो रुजार्तोsक्षम एव गन्तुम् ॥
दृष्ट्रवा दिनस्त्रीं स जगौ निजस्त्रीं तद्धाम मां साध्वि नयाद्य रन्तुम् ॥३॥
इति पतिगदितं सती निशम्य स्मितवदना सदनान्निजान्निजाप्तम् ॥ निजभुजमुपरि प्रगृह्य याता निशि तडितापथमावलोक्य शान्ता ॥४॥
कान्ताकान्ताय सा कान्ता  प्रयाताकान्तरे स्थिता ॥
कान्तारेsवीक्ष्य माण्डव्यं शूलोतं तं व्यताडयत् ॥५॥
तत: क्रुद्धेन मुनिना मुनिनाथेनापीनालोकनादेतत्पतिना कीनाशभवनातिथिना भाव्यमित्यभिहितमाकर्ण्योद्गतिं मैहीति द्युनाथं शत्प्वाभीष्टं सम्पाद्य स्वसदनं सागमत् ॥६॥
शापाद्भीतो नोदितोsर्क: सशोक: सर्वो लुप्ताचार आसात्र लोक: ॥ ध्वान्ते गाढेsप्येवमेवास नाक: शोकाविष्टो यज्ञभोक्ताप्यनाक: ॥७॥
अथ धातृगिरामरावरा अगमन्नत्रिसतीं सतीवराम् ॥ अभिवाद्य सतीगृहं सुरा लघु निन्यु: सदरा: कृतादराम् ॥८॥
प्राब्रवीव्द्दिजसतीमनसूया भारतीमथ सतीमनसूया ॥ साधु साध्वि वृष एष धृतस्ते लोक एष हि वशे विहितस्ते ॥९॥
छायेव यानन्यगति: पतिं भजेत्प्राक्स्वापभुक्ती गतिमत्र या त्यजेत् । उत्थानबोधाप्लवमग्रतश्चरेत्पत्योर्ध्वलोकं सति सैव सचेरत् ॥१०॥
इति ब्रुवन्तीमवदत्सतीं सती प्रशस्तमुक्तं कुत आगम: सति ॥
इनोदयायेति तयोदिता सती सतीक्ष्णदृक्प्राह तदा मुने: सतीम् ॥११॥
अत्ति का निजसखीं प्रियं वदाप्यत्तिकाद्य भवती प्रियंवद ॥
वक्ति कागिरमहो न वेद्मयहं पुत्तिकासमतनुर्भवाम्यहम् ॥१२॥
उवाचानसूयाह्वयार्कं मया ते प्रियाग्र्ये दयालो हरेर्धाम याते । ततोsसौ निवर्त्यापि नीरुक्सुराभो द्रुतं दीयते यहिं ते रोचतेsद्य ॥१३॥
तथेति सार्कं प्रणताssह्वयत्सती सतीक्ष्णगु: स्रागुदितोsब्जिनीततिम् ॥ प्रहर्षयंश्च व्यथयन्भृशं सतीं हरन्द्विजासूंश्च समं तमस्ततिम् ॥१४॥
दवहूतिदुहिता दयितांघ्रिं सा विचिन्त्य सहसा सहसाssह ॥
यह्यनन्यशरण चरणं मे भर्तुरेव स तु जीवतु जीर्ण: ॥१५॥
सत्यां वदन्त्यामिति तत्र सत्यां सत्या: प्रमीतो दयितोsपि विप्र: ॥ सजीवितो देव इवास नीरुड् नितान्तशान्तश्च सती प्रभावात् ॥१६॥
सुमनसो ववृषु: सवरास्तदा सुमनसोsपि ययु: स्वपदं मुदा ॥
यदनुभावत आस सुरत्रयमिह हि कर्दमजात्रिसुतत्रयम् ॥१७॥
लोकेशो दिविचर आस तारकेशो दुर्वासा गविचर आस चण्डिकेश: ॥ श्रीदत्तस्त्विह भगवान्स्वयं त्र्यधीशो यद्दृष्टयंशत उभयर्द्धिगा: क्षमेशा: ॥१८॥
( गद्यम् ) अथ खलु कश्चन सोमवंशीयोsत्र क्षत्रियो हैहयोत्तम: कृतवीर्यो मृततनयोsपि गुरुवर्योपदेशेन सूर्यसप्तमीव्रतं स्वयमनुष्ठाय मैत्रेय्याज्ञयापि जायया द्वादशमासात्मकमनन्तव्रतं कारयित्वा कुमारपराक्रमं शूरतरं कुमारमलभत् ॥१९॥
( गद्यम् ) अथ काले तमेव सुतमुपनीय ताते दिवमिते सत्यमात्यमुखै: पित्र्यं राज्यं कुर्वित्युदितो विनेतोsपि स सुतो हसन्नाह ॥२०॥
भूषष्ठांशं पण्यकद्वादशांशं भुड्क्तेsपश्यन्य: प्रजा: स्वप्रजावत् ॥ दण्डादण्डयौ वेत्ति ना स्तेनमेनं कालो हन्तीदृड् न राज्यं ममेष्टम् ॥२१॥
धार्मिकोsपि नृपो भृत्यकृतांहस्तुर्यभागभाक् ॥
अतो न तोषदमिदं प्राज्यं राज्यमपूज्यवत् ॥२२॥
मुनिवर्गोत्थितो गर्गो भर्गोपम उवाच तम् ॥
निर्गच्छानिर्गलं दत्तं स चित्तं ते प्रसादयेत् ॥२३॥
यदा पदानि देवानां बलाज्जम्भासुरोहरत् ॥
तदा पदार्थिनो देवा: श्रीदत्तपदमाश्रिता: ॥२४॥
( गद्यम् ) तदनु दनुजा अपि योद्धुकामास्तमाश्रमान्तमासाद्य मायामयीं दत्ताड्क आसीनामनुत्तमां मानिनीं विलोक्य कामातुरतया बलत्तामादाय द्रुतं निर्ययु: ॥२५॥
( गद्यम् ) ततो निमित्तभूतैर्देवैस्तानसुरान्घातयित्वा भगवता स्वपदं प्रवेशिता देवता अद्यापि तं भगवन्तं भजन्त एवंप्रभावं भावज्ञं भावलभ्यं सदयहृदयं दत्तात्रेयं शरणं व्रजेति ॥२६॥
तथेत्युरीकृत्य तदर्जुनोगं सह्यं गतोsसह्यपराक्रमोङ्गम् ॥
निपात्य दत्ताग्रत आह नम्रस्तं मां प्रभो पाहि तवास्मि कम्र: ॥२७॥
निर्भर्त्स्यमानोsपि नृप:सकोपं दत्तेन भावं सगतोsप्यकंप मू ॥
न विव्यथे सेवनतत्परस्तं प्रोचे गुरुर्येन भयं निरस्तम् ॥२८॥
( गद्यम् ) आयुष्मंस्ते भद्रमितो गच्छ गच्छाहं स्त्रिया उच्छिष्टभाग्विवसनो धर्माधर्मानभिज्ञो भक्ष्याभक्ष्याविवर्जितोsङ्कगतवनितासंसर्गदूषित उन्मत्तवदतो मत्संगतस्तेsशुभं भावीत्युक्त्वा दृड्मात्रेण तद्भुजावपातयत् ॥२९॥
भगवन् त्वदभिन्नत्वादित: क्कास्य गमनं भवान्मायारचितपदार्थभागिव विक्षेपावरनाभावाद्विवसनो नित्यमुक्तत्वाद्धर्माद्यतीत: स्वयमनश्नन्नश्नतो जीवस्य साक्षीतो भक्ष्यादिवजिंतो भवतो मायाया एकदेशस्थितत्वाद्वनितायाश्चासङ्गतत्वं लोकदृष्ट्र्या तु दूषितत्वमुन्मत्तत्वं चातो मम शुभं भार्वात्युवत्वा मां पाहीति प्रणिपतन्तं शोचन्तं वरान्वृणीप्वेत्याश्वास्यार्जुनमशोकं चकार ॥३०॥
कृतवीर्यसमुद्रेक: कृतवीर्त्यनृपार्भक: ॥
दत्ताभयं नमस्कृत्य दत्तात्रेयमिदं जगौ ॥३१॥
सप्तद्वीपधरेशतान्यवशता युद्धेsप्रतिद्वंद्वता ।
बाहूनां च सहस्रता विजयता ख्यात्याधिकात्पञ्चता ॥
वित्ता सिद्धयनुकूलतार्थबहुताकुण्ठेतिता दातृता
युष्मत्ता भवदर्‍ङ्घिभक्तिदृढता चान्तेsस्तु सायुज्यता ॥३२॥
( वंशस्थवृत्तम् ) - तथेति भूपोsर्थविदोदितो गतो नतोभिषिक्तो मुनिभि: पदे स्थित: ॥ अधर्मकर्ता परपीडकोsस्त्रभृन् मया विना हन्मि तमित्यघोषयत् ॥३३॥
( उपजातिवृत्तम् ) पूर्ग्रामगोक्षेत्रधनाश्वपाता स्मृतोsपि सर्वार्तिहरोsरिहन्ता ॥
त्राता प्रपन्नस्य रुगाधिहर्ता नैकाङ्गधर्ताsत्रिजवद्विहर्ता ॥३४॥
( प्रहर्षिणीवृत्तम् ) - नाकाले मृतिररिभीतिरास राज्यं भूपाले नयविदि शासतीज्यपूज्यम् ॥ दुर्भिक्षं न हि न हि मारिकेतिभीतिर्न स्तेनाग्निजभयमास कूटनीति: ॥३५॥
कार्कोटकाहिजिद्रेमे परावर्त्य च नर्मदाम् ॥
शर्मदां तत्पतिं सिन्धुं जित्वापि बहुनर्मदाम् ॥३६॥
( द्रुतविलंबितवृत्तम् ) - चतुरशीतिसहस्रसमा व्यधात्स भुवि राज्यमहो सुयशोsप्यधात् ॥ त्रिभुवने भुवनेशकृपावशादथ विरागमगात्स विधेर्वशात् ॥३७॥
( उपेन्द्रवज्रावृत्तम् ) - क्क चात्मरूपानुभवप्रमोदा: क्क कुस्त्रियां वर्णरतिप्रमोदा: ॥
य इन्द्रियाणां जरयन्ति तेजो रमेत तै: किं चिरजीवितेsज: ॥३८॥
( इन्द्रवज्रावृत्तम् ) - जन्मान्तरे येsद्य च ते श्व एव तद्भुक्सदा श्वा स खरोsश्व एव ॥
धिक्तान्मनोविभ्रमबन्धहेतून् धिड् मां न चेक्षे सत आत्मसेतून् ॥३९॥
( द्रुतविलंबितवृत्तम् ) - चलदलान्तजलोपमजीविते मृगजलोपमभोग उ सेविते ॥
क्व सुखमद्य विवेक उपस्थितस्तत इतस्तु भजेsजमुपस्थित: ॥४०॥
( अनुष्टुप् ) - एवं सुनिर्विण्णमतिर्नृपति: प्राप सत्पतिम् ॥
सद्गतिस्तत्परीक्षार्थं व्यर्थं ध्यानस्थवद्ब भौ ॥४१॥
भूयो भूयो नामभिर्देवमुच्चैर्भूयो भूयो हन्त संबोध्य नीचै: ॥ कं साकं सास्रं गिराधाय देवं स्मारं स्मारं तद्यशोsस्तौत्तमेवम् ॥४२॥
( योगिनीवृत्तम् ) - भगवन् सविधे दयानिधे मघवन्मान्य तवाद्य सन्निधे ॥
पतितं किमुपेक्षसे हि दृक्पतितं पावयतीश ते स्वदृक् ॥४३॥
अघवानयमित्युपेक्षते भगवान्माद्य भवान्न चेक्षते ॥
मघवाप्यवितो नतो यथाप्यघवानप्यव मां नतं तथा ॥४४॥
( योगिनीवृत्तम् ) प्रथमं तव माययावृतस्तत एतद्विभवो मया वृत: ॥
स्वयमेव निजाहितोsभवं शरणं त्वाद्य ततो गतोsस्म्यहम् ॥४५॥
क्क च दोष उ एष वदान्यतस्तुषकांक्षिवदेव वदान्यत: ॥
भवतोषधिया भव ईप्सितो भवतोभव नाभव ईप्सित: ॥४६॥
द्विरदाश्वधनादिषु किं सुखं वरदार्भवधूत्थमु किं सुखम् ॥
सुखरूपनिजात्मविघातकै: किमु तैर्भवसागरपातकै: ॥४७॥
अहिता विहिता मयानुगा विहिता श्री: सुहितापि सानुगा ॥
अनुगायकवत्सुरा: कृता अनुगा नैव मृति: पराकृता ॥४८॥
न यमाच्च बिभेम्यहं तथा नयमानी भवचक्रतो यथा ॥
न यमादिभिराप्यते पदं नय माद्याभयमीश ते पदम् ॥४९॥
स्पृहयामि न भौववैभवं स्पृहयामीश न दैववैभवम् ॥
स्पृहयामि न सिद्धिवैभवं स्पृहयामीश्वर दास्यवैभवम् ॥५०॥
अपि दासवत: परतन्त्रता तव दास्यत इन्निजतन्त्रता ॥
अत एव मतं तव सेवनं तत एव चरे वनसेवनम् ॥५१॥
नरको नरकोट्यधिपस्य यदा नरकोत्तरकोशभृतोsपि तदा ॥
वरमेव हि भैक्ष्यममानदं परमेव लभेत्तव यत्पदम् ॥५२॥
( अनुष्टुप् ) अत एव स्वत:पूर्ण योग्यं योग्याय देहि मे ॥
उत्तिष्ठोत्तिष्ठ मद्दृष्ट्या प्रभो जागृहि जागृहि ॥५३॥
इति स्तुवति मूर्छां च याति भूभृति भूभृति ॥
उषस्यृषय एत्येशं नत्वा देवाश्च निर्ययु: ॥५४॥
( गद्यम् ) तदनूत्थित: श्रीदत्त: शिष्याभिवादित: स्वीकतशिष्यदत्तामृत आचान्त: श्रितनैरृतदिक्प्रान्त: कृतमलोत्सृतिर्जलाशयमित: शोधितपद्धस्तमुखदन्त: सुस्नात: कृतसंध्योपास्तिस्तर्पितदेवतादि: श्रीपत्तनादाहृतयाचितक: कृतभुक्तिराचान्त: पुनर्ध्यानमास्थितस्तदा प्रणत: शान्ततपा भगवन्नुपोषितं मूर्छितं स्थितमेतं कृतवीर्यसुतं द्रष्टुमर्हसीति प्रणिपपात ॥५५॥
( उपजातिवृत्तम् ) - उवाच दत्तस्तमुदारचित: प्रियाय दत्त: ससुसिद्धिवित्त: ॥
भूगोल एवाद्य ददाम्यदत्तं स्वरादिमस्मै यत एष भक्त: ॥५६॥
कृतवीर्यसुतो र्‍हीत: नतो वव्रेsमृतं यत: ॥
श्रुतभ्रान्तिनिवृत्तिश्च प्राचामाचार्य आह तम् ॥५७॥
बृहस्पतिर्देवपतिं स्म वक्ति गाथाततिं तां श्रृणु भूतिनाथ ॥
पुराभवच्छास्त्रविदत्र शास्त्रं त्वाष्ट्रं स विद्वान्कृतभूरिगेह: ॥५८॥
आयादिविद्यस्य गृहं स चक्रे सायासदु:खार्तिरुगादिहीने ॥
यज्ञादयस्तद्भवनेsमिता:स्युर्मृतस्तत: स्वर्गमित: सुपुण्य: ॥५९॥
भूयोsत्र भृत्वापि नृपस्ततोभूद्भूयोsपि विप्र: स गतोsमृतं हि ॥
गाथादिरेषा त्वपरा तु गाथा विप्रोsभवत्कश्चन कामशास्त्री ॥६०॥
स स्त्रीसुमान्यो वृतराजकन्यो वात्स्यायनोक्तं सुरतं स वेद ॥
गन्धर्वतां प्राप्य मृत: स धातृप्रसादतस्तत्र गत: स मुक्तिम् ॥६१॥
तथान्यगाथां श्रृणु सन्विकंप्र: सप्तग्रहग्रस्त इहास विप्र: ॥
क्षिप्रप्रसादो भगवांस्तदोक: प्राप्त: सुगुप्त: खलु येन लोक: ॥६२॥
तल्लब्धमत्रै: क्रमतो द्विजस्य पिता प्रसादाद्विधिनाश्वजस्य ॥
न्यवारयद्यद्वदिहात्मदोषा योगै: क्रमान्मुक्तिमगात्तदैष: ॥६३॥
तथान्यगाथां श्रृणु विष्णुदत्त: स्वकर्माभ्यर्चितदेवदत्त: ॥
भूतेन बल्यन्नभुजापि दत्तस्त्रिर्दर्शितो येन परोsपि दत्त: ॥६४॥
तथापि गाथा पिशुनो झुटिङ्ग: साध्वीशतुल्याकृतिग: सतीग: ॥
स्वरादिसाम्येsपि तयोर्झुटिङ्गो बद्धो द्विजेनानृतिवत्कुसङ्ग: ॥६५॥
तथापि गाथापिबतेर्भकाय रुग्णाय निंबं प्रददौ तदम्बा ॥
खण्डप्रलोभाद्भवपीडिताय श्रुतिर्यथाsमुख्यफलं स्वरादि ॥६६॥
प्रायश्चित्त्यस्तगुल्मादिरुजं सत्यर्थितो द्विजम् ॥
निन्ये रसेन प्रकृतिं भवार्तमिव तं कृती ॥६७॥
गाथांतिमाथार्मक आस योगभ्रष्टो द्विजस्योझ्झितभोगसङ्ग: ॥
संसर्गहृत्यै कृतदुष्टचेष्ट: संबन्धभीत्यास्य गुरुर्न चेष्ट: ॥६८॥
( अनुष्टुप् ) अन्त:सङ्गविसर्गेण तस्य व्यस्य भयं नयं ॥
आदेश्य विष्णुदत्तस्तं सतीं प्रकृतिमानयत् ॥६९॥
आर्य पर्यवसानन्तु शास्त्राणां स्त्रोतासामिव ।
सिन्धौ ब्रह्मणि दभ्राणामदभ्राणां परेsद्वये ॥७०॥
ब्रह्मैवैकमिदं पुराद्वयमजं यन्माययोज्जृंभितं
रूपाख्यात्मकमेतदत्र सदसत्तत्कार्यकं कार्यकृत् ॥
मिथ्याप्येतदनुप्रवेशत इत: सत्यादिरूपं परं
तत्त्वं विद्धि धिया सुखी भव कृती योगेन भोगेन किम् ॥७१॥
यमाद्यभिज्ञोsन्वहमासनज्ञ: पीत्वेडयासुं कृतकुम्भकोर्कात् ।
त्यक्त्वा पुनर्व्यस्तामिति त्रिकालं कालं त्रिमास्या स जयेन्नृपालम् ॥७२॥
न योगसिद्धिं घटशोधनाज्ञस्त्रिबन्धयुक्ताष्टककुंभकाज्ञ: ॥
उपैति मुद्रादशकानभिज्ञो विज्ञोsपि नादश्रवणानभिज्ञ: ॥७३॥
प्राणायामोण्डग: प्राण; सपञ्चविपले पले ॥
प्रत्याहारादयो ज्ञेया द्वादशघ्नोत्तरोत्तरम् ॥७४॥
जिते प्राणे हृदार्थेभ्य: प्रत्याहृत्याखिलेन्द्रियम् ॥
अविक्षिप्तं स्थिरीकुर्यान्मन आत्मन्यचञ्चलम् ॥७५॥
( गद्यम् )  तदनु श्रुत्यनुकूलयुक्त्यनुसारी गुरूक्तं षड्लिङ्गवित्तं भागत्यागलक्षितं सोsहमात्मेत्यभेदत: श्रुतं परात्मैकत्वं विजातीयप्रत्ययनिरासपूर्वकं सजातीयप्रत्ययप्रवाहीकरणमनुक्षणं विपर्यासनिरासकृन्निदिध्यासेत् ॥७६॥
( अनुष्टुब्वृत्तम् ) उपस्थिता इहाप्येता: सिद्धयो या: कुबुद्धय: ॥
ते भोगबुद्धयाददते नृप तात्स्यज तापदा; ॥७७॥
विक्षिप्तं शमयेत्समाधिसमये वित्तं लये बोधये -
दात्मन्येव न चालयेत्तदभये संस्थं न चास्वादयेत् ॥
मध्येसाररसं रसं परमितं निर्वातदीपस्थितं
चित्तं संयमितं तदेव हि मतं शान्तं समाधिं गतम् ॥७८॥
( अनुष्टुप वृत्तम् )
योगोयं दु:खसंयोगवियोगो भोगसंगहृत् ।
हृद्दर्पसर्पसर्पघ्न: सुकृताद्ब: कृतान्तकृत् ॥
ब्रह्ममूर्ति: शून्यवृत्तिर्यति: स्वात्मरति: कृती ॥
भिन्नस्म्शयहृद्ग्रन्थि: सद्गतिर्मेsतिवल्लभ: ॥७९॥
प्रारब्धाय तनुर्यस्य जनुर्यस्य पुनर्न हि ॥
न हीयतेsस्य महिमा हिमांशुकुलजाशुभै: ॥८०॥
राजन्युञ्जन्त्वमप्येवं कार्तवीर्य कृती भव ॥
भवदाज्ञा मतेत्युक्त्वा गत्वा दध्यौ गुहां महान् ॥८१॥
भूयो भूयोsभ्यसन्सभ्यस्त्रिमासं स समाहित: ।
तच्छशंसैत्य गुरवे रवेस्तुल्याय सन्नत: ॥८२॥
भुक्तो गुर्वाज्ञयासक्तो योगयुक्तोsभवत्पुन: ।
भक्तो युक्तोsपि वर्षेण हर्षेणोत्थापित: सता ॥८३॥
गुरुराह महामतेsत्र ते वद किं वा अनुभूतमुद्गते ।
न रहो हि चिरं परंतप स्थितिरुर्वीश विना परं तप: ॥८४॥
नृप आह महानुभाव ते कृपया मय्यहहा समाहिते ।
त्रिपुटीं न पटीयसी मतिर्धृतिमत्यप्यज वेद भेदहृत् ॥८५॥
मनसा सह पञ्च पञ्च च प्रिय गाव: स्थिरतां गता स्थिता ।
मतिरप्यतिहर्ष उत्थित: स्मर एतामनुवृत्तिमीश्वर ॥८६॥
इमं मिमंक्षयानन्दर्‍हदमेत्य सुखांबुधिम् ।
गतोsस्मि विगतोपाधिराधिव्याधी न मे सुधी: ॥८७॥
आलिंग्यालिंग्यधीशस्तं शस्तं प्राह नृपार्जुन ।
प्रजा: प्रजाधिभू: शाधि गच्छ गच्छ न ते द्वयम् ॥८८॥
अन्त:सङ्गविहीनस्य बहि:सङ्गो न बाधक:
धर्मं चर परार्थं तु क्कचिव्द्यस्तं बहिश्चर ॥८९॥
भजांघ्रिं मे यथा देही यजाद्यं मां यथा गृही ।
त्यजासक्तिं नष्टभव द्विजादेरर्चको भव ॥९०॥
तथेत्याज्ञां प्रगृह्यापि श्लथच्चित्तोंघ्रिदत्तदृक् ।
दत्तदृग्जातमुदयं नैच्छत्त्यक्तुं महोदयम् ॥९१॥
सदयं हृदयं यस्य तेन प्रस्थापितोsपि स: ।
वाचा मोचातिरसया स्थितश्चित्र इवाग्रत: ॥९२॥
( उपजातिवृत्तम् ) प्रस्थापयामास पुन: सहायं प्रभुस्तत: प्राप नृप: स्ववांसम् ।
नवोदयं चंद्रमिव प्रजास्तं पपुर्दृशागाच्च तदाधिरस्तम् ॥९३॥
( उपजातिवृत्तम् ) चक्रे स यज्ञाञ्छशिवंशकेतुरगर्वकाम: सुरवंशकेतु: ।
अकम्पतर्तेsप्यनिलं तदैव स्थिरासनास्थोपि भृशं सदैव: ॥९४॥
( उपजातिवृत्तम् ) तत्सत्वहृत्यै सुरनोदितोsर्को भूत्वातिथि: प्राप नृपाधिपौक्क: ।
नृपादुपादाय स वृक्षामिक्षां नृपं स निन्ये मुनिशपशिक्षाम् ॥९५॥
( गद्यम् ) ततो दैववशादुद्धतेन तेन पराजिता देवता अपराजितम्रुपेत्याभिष्टूय ख्यात्याधिकात्तन्मृतिं कल्पयामासु: ॥९६॥
( गद्यम् ) अथ ह किल गाधिभूभृति वने निवसति सति परिणयार्थं भृगुणादिष्ट ऋचीको योगप्रभावाद्वरुनादाहृतश्यामकर्णाश्वसहस्त्रं शुक्लत्वेन राज्ञे प्रतिपाद्य स्त्रीमुख्यां सत्यवत्यभिख्यां तत्तनयामुपयेमे ॥९७॥
( गद्यम् ) स्वस्या मातुश्चानुरूपपुत्राप्तये स्नुषार्थितेन भृगुणा कारितपुत्रकामेष्टिवरुप्राशनव्यत्ययेन जनिष्यमाणपुत्रव्यत्यासं निवेद्य स्नुषाप्रार्थनया तत्पुत्रस्यर्षित्वं पौत्रस्य क्षत्रत्वं चाकारि ॥९८॥
विश्वामित्रो गाधिपुत्रो मन्त्रदृक्क्षत्रियोsपि सन् ।
चतुप्रभावात्तमसा ब्रह्मर्षित्वं गतो मत: ॥९९॥
जमदग्नि: सत्यवत्या: शम्या अग्निरिवाभवत् ।
शिवांशो मन्त्रदृग्वव्रे शिवांशां रेणुकां सतीम् ॥१००॥
पञ्चासन्तत्सुता: ख्याता: पञ्चाग्नय इवार्चिता: ।
रामोsन्तिमोsत्र परमो धीरो वीरोsतिशूरजित् ॥१०१॥
( आर्या ) सस्त्रीकदेवगायकरतिकौतुकदृष्टिदूषिता माता ॥
ताताज्ञप्तेन हता येन स साक्षात्पयोब्धिजामाता ॥१०२॥
तातप्रसादत: पुनरपि येनोत्थापिता मृता माता ॥
प्राप्ता चायुष्मता जयितास्य गुणस्य को भवेन्माता ॥१०३॥
( उपजातिवृत्तम् ) शिवाप्तविद्ये शिवतातभक्ते यातेsटवीमाश्रमग: प्रसह्य ।
जहार भूपोsप्यृषिकामधेनुं निन्ये वशं यो निजकामधेनुम् ॥१०४॥
( अनुष्टुप् ) - राम: स्वमाश्रमं प्राप्य ज्ञात्वा धेनु हृतां नृपं ।
हन्तुं प्राप तमालोक्य राजा बलमचोदयत् ॥१०५॥
( अनुष्टुप् ) एतै रंहस्विगन्धर्वपदोत्क्षिप्तकुपांसुभि: ।
पांसुघ्न्यप्यमलापापा कृता मन्दाकिनी किल ॥१०६॥
( पद्मिभि: सप्तधोत्सृष्टैर्दानोदैश्च सुगन्धिभि: ।
मुने: पृथ्वी गन्धवतीत्युक्ति: सार्था कृता स्फुटम् ॥७॥
( अनुष्टुप् ) तयोस्तु कलहात्पूर्वमन्योन्यं विजिगीषताम् ।
स्यन्दनानामिभाश्वानां ध्वनीनां कलहो महान् ॥८॥
( अनुष्टुप् ) विलोक्य गर्जदुद्वेलजलध्युपमितं चलम् ।
बालो मुनेर्बलमल्म तुमुलं युयुधे बलात् ॥९॥
( अनुष्टुप् ) वडवातनय: खण्डपिण्डाशीतीर्ष्ययागता: ।
वडवातनया: खण्डपिंडा: संतो मृतं गता: ॥१०॥
( रथोद्धतावृत्तम् ) एकया परशुतिग्मधारया राम आगतमितस्ततो रयात् ।
पञ्चधारतुरगौघमोञ्चसा सञ्चघान घनगर्जनोsञ्चसा ॥१११॥
( शार्दूलविक्रीडितवृत्तम् ) यद्भीत्या सरथे कृते च विरथेप्याधोरणेधो रणेजघ्नेशेषबलं तदायुधमासृडूनद्यस्तत: सुस्रुवु: ॥
चर्मावर्तयुता मृतेभपुलिनाश्र्छिन्नांघ्रिहस्ताहयो घोरा आमिषकर्दमा हतहयग्राहा: शिर:कच्छपा: ॥११२॥
किरीटी कुण्डली छत्री प्रतापी दुर्धरी रथी ।
सहस्रकर एत्यात्र मित्रवद्युयुधे sर्जुन: ॥११३॥
अर्जुनस्यार्जुनस्येव स्कन्धान्स्कन्धानिवाच्छिनत् ।
रामो भूयोsपि जातान्तान्तन्निर्गममशोषयत् ॥११४॥
तदास्मरद्दत्तमकुण्ठचित्तो येनापवर्गस्तु पुराप्युपात्त: ।
कृत्तsपि मूर्धा न नृपेण वित्त: स्वाभेदतो ध्यात इहापि दत्त: ॥११५॥
( अनुष्टुप् वृत्तम् ) हत्वा नृपं गृहीत्वा गां राम आश्रममश्रम: ।
एत्य ताताय तत्प्राह स हाsसहन आह तम् ॥११६॥
असहनत्वमाह दशेति - ( अनुष्टुप् ) दशश्रोत्रियवद्राजा तद्धन्तुस्तीर्थसेवनात् ।
शुद्धिस्त इति रामोsपि तथेत्युक्त्वा तथाचरत् ॥११७॥
क्षत्रकुलसंहरणहेतुमुपक्षिपति स्वागतया - अर्जुनस्य तनया अनयास्ते प्राप्य यत्र सह रेणुकयास्ते ।
योप्युपास्य विधिवज्जमदग्निं तं विजघ्नुररिवज्जमदग्निम् ॥११८॥
( वंशस्थवृत्तम् ) तदा वियुक्तेश्वरतोकरेणुका सार्ता यथैका विपिने करेणुका ।
ममाधिभागो यदुपर्यदेवयत् स मे प्रिय: क्वेति च पर्यदेवयत् ॥११९॥
अहहा हतास्मि दिष्ट ( ष्टात् ) भ्रष्टाप्ता रुष्ट एव मे स्मरहा ।
शरणं क्वापि न शिष्टं दृष्टं कष्टं परं वरम मरणम् ॥१२०॥
हा नाथ शुद्धगाथ प्रियकथ कथमत्र शस्त्रदितगात्र ।
गात्रमिदं तेsर्धं रतिपात्रं तिष्ठेत्पवित्रपरागात्र ॥१२१॥
हतकायाप्तेन समं स्वर्यास्येsद्यैव दैवहतकाया: ।
हतकर्तवीर्य इह मे नार्भोsतोsमी भवन्ति हतकाया: ॥१२२॥
इति सत्यां रुदत्यां तत्पुत्रो राम उपेत्य तत् ।
सर्वं श्रुत्वानुतप्त: सन्प्राह गुर्वहितोsस्म्यसन् ॥१२३॥
हन्त हन्त बत तात तेsहितो जात एष न सुतो यतो मृत: ।
त्वं तत:खलकुलाप्तिलाञ्जलै: शुद्धिरस्य न पितस्ततोsन्यत: ॥१२४॥
( उपजातिवृत्तम् ) इति प्रतिज्ञाय वधाय तेषां रामोsचिराय प्रययावशेषां ।
धरां करिष्यन्ननृपां कृपांशमप्यस्पृशन्प्राप नृप्राधिपार्भान् ॥१२५॥
ब्रह्माण्डान्निजजठरस्थिताननन्तान्विस्मृत्य प्रपदभराच्चरन्ननन्ताम् ।
तोयस्थान्तरिमिव चालयन्महात्मा जघ्नेरीन्सपदि महारिधामहात्मा ॥१२६॥
अतितीक्ष्णपरश्वधेन ताननतानाशु रणे द्विधा कृतान् ।
भुवि भ्रुतगणाय सोर्पयन्निनदो यस्य च गां व्यकम्पयत् ॥१२७॥
विद्युद्भास्वत्स्वं परितोस्त्रं विधुनानं मेघध्वानं मेघरुचोsलं हृतमानम् । दृष्ट्वा मेघो भुव्यवतीर्ण: किमिहास्ते मत्वापीत्थं मत्तमयूरा ननृतुस्ते ॥१२८॥
( अनुष्टुप् ) स जयश्रियमुद्वाह्य प्राहाम्बामेत्य भूभृत: ।
तेइसप्तकृत्वा हत्वास्त्रैस्तर्पये पितृमुक्तये ॥१२९॥
( अनुष्टुप् ) इति प्रतिज्ञां कुर्वन्तं सुतं प्राह प्रसू: पुरा ।
कृत्वौर्ध्वदेहिकं नौ त्वं प्रतिज्ञातमृतं कुरु ॥१३०॥
( अनुष्टुप् ) तुलायामेकतस्तातं मृतं मामेकतस्तथा ।
धृत्वावाचीं दिशं याहि यत्र श्रोष्यसि खाद्वच: ॥१३१॥
( अनुष्टुप् ) तत्राचार्यं विमातसर्यं लब्ध्वानुगमनं मया ।
कार्यं नौ कर्म ते कार्यं कार्यं सिद्धयेत्ततस्तव ॥१३२॥
( उपजाति: ) तथेति रामोsपि तथैव गत्वा श्रुत्वा खवाणीं रमणीं गुणीश: ।
गत्वाश्रमं मातृगिरा पवित्रं दृष्ट्वांश्रमं तत्र मुदात्रिपुत्रम् ॥१३३॥
विचित्रगात्रं शतपत्रनेत्रं वृत्तघ्नमित्रं करुणैकपात्रम् ।
अड्के कलत्रं परिगृह्य चित्रं क्रीडन्तमेतं स ददर्श सत्त्रम् ॥१३४॥
प्रार्थयतेsनुष्टुभा - भर्त्रा सह गमे मात्रा प्रार्थितो भगवान्भवान् ।
तत्राचार्यो भवत्वौर्ध्वदेहिकेsपि च कर्मणि ॥१३५॥
इत्यर्थितोsपि रामेण क्रमेण ख्यापयन्नयं ।
सन्निष्ठां तमसन्निष्ठामिव यातो मतोsवदत् ॥१३६॥
य आचिनोति शास्त्रार्थं तथाचरति य: स्वत: ।
आचारे स्थापयत्यन्यान्सैवाचार्यो न चेतर: ॥१३७॥
अहं परिग्रहं त्यवत्वा वृत्वात्मरतिमक्रिय: ।
वर्ते स्वछन्द आनन्द आचार्यत्वं कथं मम ॥१३८॥
( अनुष्टुप् ) नग्न उन्मत्तवद्वर्ते धर्माधर्मविवर्जित: ।
तिष्ठे वने वनचरप्रियोsस्पृश्योsस्म्यवाच्य इत् ॥१३९॥
( अनुष्टुप् ) सुपेशा वयुनं वस्ते प्राग्घृतास्या ममाङ्कगा ।
नूत्नेयं युवतिर्नित्यं पुराणपुरुषस्त्वहम् ॥१४०॥
( अनुष्टुप् ) अपूज्य: कर्मणि प्राज्ञ न योज्य इति तद्वच: ।
श्रुत्वा रामोsभवन्मौनी तदा माताह मानिनी ॥१४१॥
( योगिनीवृत्ताम् ) भवता सदवादि वादिनां मतभेदव्यतिगेन भेदिनाम् ।
भवतोदितवद् वृषाकपे भवतोsन्य: क इह त्रिविष्टपे ॥१४२॥
इति मातृवचो निशम्य तन्मतिमांस्तन्मुखतो निशम्य तत् ।
निखिलं तमुवाच सादरं सकलं क्षत्रकुलं हराsदरम् ॥१४३॥
युग्मम् - ( उपजातिवृत्तम् ) इति प्रगल्भं पुरुषो वचस्तदतिप्रतापस्त्ववधार्य शस्तम् ।
देवाज्ञयानीय स तीर्थमस्त्रादेवाज्ञयाजस्य सती सवस्त्र ॥१४४॥
स्नात्वात्र कृत्वापि सुभूषिताङ्गान्यार्याय दत्वापि सुभूषितां गां ।
सौभाग्यदानानि च सा विवेश सौभाग्यदापि स्वयमग्निमीशा ॥१४५॥
मरुतां दिवि वीक्षतां सतां सधवा रेणुभवा सयोषिताम् ।
अधिरुह्य सती स्थिता दिवि स्वसुतायापि मुखं ददौ भुवि ॥१४६॥
( शार्दूलविक्रीडितम् ) धन्यासौ खलु रेणुका सुभविका साक्षात्स्वयं याम्बिका ।
कन्या रेणुनृपस्य या त्रिकुलजानां सम्यगुन्नायका ।
मान्यावाप हयेष्टिकोटिसुफलं प्रत्यंघ्रि या निर्मलं ।
कान्या त्वीदृगिहाग्नयेर्पयदलं वर्ष्मालभन्मङ्गलम् ॥१४७॥
( मालिनीवृत्तम् ) इति दिवि भुवि देवैर्मानवैश्च स्तुताया: ।
सुगतिमतिधृतिं च प्राप्य नाकं गताया: ॥
यश इह चिरजीवि प्रौढमाप्तं समन्तान्न शतमुखमुखास्तद्वक्तुमीशोsमितत्वात् ॥१४८॥
साद्यापि जागर्ति निजार्चकानामभीष्टदानाय सुभाविकानाम् ।
घरावरे मातृपुरे वरे तान्छ्राद्धान्नयत्यूर्ध्वगतिं परेतान् ॥१४९॥
( अनुष्टुप् ) दत्ताचार्येण रामोsपि दत्ताचारोsकरोद्विधे: ।
पित्रो: समं साम्परायं निन्ये क्षत्रकुलं क्षयम् ॥१५०॥
उपसंहरति गद्येन - क्षत्रियागर्भस्त्रावि ( वी ) यदागम: क्षत्रियप्राणहरणं यदीक्षणं तेन रामेण यत्प्रभावतस्त्रि:सप्तकृत्व उरुधारपरशुना नि:क्षत्रां गोत्रां विधाय क्षत्रवधदोशहतये तमेव दत्ताचार्यं वृत्वा चातुर्होत्रादिनेष्ट्रवा चार्याज्ञया सागराम्बरां कश्यपाय सर्वस्वं विप्रेभ्यश्च प्रदाय स्वनिवसायाsसायासं समुद्रादभिनमानवनिमुपलभ्यावस्थाय श्रीदत्तप्रसादात्सावर्णिकेन्तरे महर्षित्वमन्ते ब्रह्मभूयमुपलब्धम् ॥१५१॥
ग्रन्थालङ्कार: स्रग्धरया - यत्कीर्तिं बाल ऊचे सुरवरवरतो योsनसूयात्रिपुत्रो
जज्ञे जम्भासुरं योsमरवरकरतो मारयामास भर्ग: ।
गाथाभि: सप्तभिर्यद्भजनरस इनं योजयद्योsपि भूपं
तस्यर्षेश्चेष्टदस्तत्पद इति कवितां प्रार्पये स्रग्धरान्ताम् ॥१५२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-18T09:58:34.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

developmental age

  • विकास वय 
RANDOM WORD

Did you know?

पत्नीला अर्धांगिनी कां म्हणतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site