TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

त्रितीयशतकम्

श्री. प. प.वासुदेवानन्दसरस्वतीकृतं श्रीगुरुचरित्रकाव्यम्


त्रितीयशतकम्
अथ कोsपि मृतार्भको वरे द्विज आस द्विज माहुरे पुरे ॥
स गुरो: कृपयाssप सत्सुतं स च दत्तं वदति स्म तं मतम् ॥१॥
स तु धीगुणशीलशालिनीं स्वसमानां स्त्रियमेव लब्धवान् ॥
सुमती भुवि दंपती तथा शुशुभाते रतितत्पती यथा ॥२॥
अथ दैववशात्क्षयार्दित: समभूत्कान्तिविवर्जित: सुत: ॥
शयनाशनवर्जित: कृशो ललना चाप्यभवत्तथा कृशा ॥३॥
हवनार्चनशान्तिभेषजैर्जपनाद्यैर्न शशाम स द्विजै: ॥
उदितोsयमसाध्य इत्यहो स रहोsम्बामवदच्छृणु ह्यहो ॥४॥
अयि मातरत: परं तु ते मयि माशाsस्तु रुजार्दिते सुते ॥
दयिते मयि तेsस्तु मा रतिर्दयिते श्रीदयितेsस्तु ते रति: ॥५॥
धृतभीतिरुवाच तं सती गतिरन्या भवतो न मे सती ॥
कति वच्म्यतिसूक्तिभिस्त्वलं मतिमान्मेsस्ति भवान्सुमङ्गलम् ॥६॥
इति सा समुदीर्य निर्ययौ पतियुक्ता श्वशुरानुमोदिता ॥
गुरुदर्शनकाङ्क्षया नता वरगन्धर्वपुरं ह्युपागता ॥७॥
सहसा मृतिमाप तत्पतिर्युवतिस्तं च शुशोच साsधृति: ॥
अतिदीनमतिं तु तां सतीं गुरुमूर्तिर्यतिराप सद्गति: ॥८॥
धृतभूतिरुवाच मा शुच: सति कस्ते परिरन्ति मे वच: ॥
वद चित्प्रतिबिम्बितोsथवासदचिद्वर्ष्म समीपवर्ति वा ॥९॥
उभयं न वयं यशस्विनि प्रवदाम: परमं मनस्विनि ॥
न गमागमनेsस्य सोsजरो निगमाद्योsप्यवरोsपरोsमर: ॥१०॥
यदनीदृगतादृगीक्षकं पुरुषाख्यं परमं ह्यमायिकम् ॥
निरुपाधिकमाद्यमेककं तदु शोकं कथमर्हति व्यकम् ॥११॥
यदु भाति जगत्यनेकवत्तदु मायामयमेणनीरवत् ॥
गुरुदर्शिततत्त्वदीपत: पुरुदृड् मुक्तिमियादूभ्रमादत: ॥१२॥
नरजन्मनि चेन्न रेमृतं परजन्मन्यत आसुरे मृतम् ॥
सति मुञ्च शुचं न चंक्रमं प्रति गच्छाश्रय मोक्षसत्क्रमम् ॥१३॥
स्वातंत्र्यं न हि योषितां सति पति: स्त्रीणां सुरो नेतरो हित्वा शाठ्यमत: पतिं भज तत: श्रेयो गुरोरुक्तित: ॥ सेवा तस्य सुरार्चनं पदुदकं तीर्थं प्रसादस्तदुच्छिष्टं धर्म उतास्य वाक्यकरणं संतोषणं भूषणम् ॥१४॥
नित्यं तज्जनगौरवं च सुहितं मर्यादयाsदो व्रतं धार्यं स्वापभुजीतयस्तमनु च प्राक् स्नानबोधोत्थिति: ॥ सर्वैन:शमनं धवानुगमनं गोत्रत्रयोद्धारणं भूशय्यावपनार्चनव्रतवृषैर्वैधव्यसेवाsथवा ॥१५॥
सा प्राह वैधव्यसुपालनं हा कष्टं युवत्या अपि धर्मवत्या: ॥
अतोsनुयानं मतमित्यथाsक्षान्दत्वा विभूतिं च तथेत्यागात्सन् ॥१६॥
साsपि श्मशानेsनुपदं हयेष्टिप्रदं मुदा भर्तृशवाग्रयानम् ॥
कृत्वाsखिलानन्दपदं पदं च गुरोर्दिदृक्षुर्लघु संगमेsगात् ॥१७॥
सौभाग्यसंततिदया स दयासमुद्रस्तामाशिषालमभिनन्द्य शवं वितन्द्र: ॥ आनाय्य चाथ जलसिक्तमजीवयत्तं ताभ्यां स्तुतो sवददजो निजदैवमुक्तम् ॥१८॥
तत: परेद्यु: प्रतिचोदितोsवददू वदद्वरेण्योsक्षविभूतिसंभवे ॥
वाराङ्गनामर्कटकुक्कुटोद्भवक्षमेशभद्रात्मजरुद्रसत्कथे ॥१९॥
स्त्रियो न देयो मनुरेतदर्थं तदीवयान्या विकचं चरित्रम् ॥
सतीं स ऊचे सकचं कचेन काव्यं वराङ्गं विकचं कृतं च ॥२०॥
सोमवारव्रतं साध्व्यै सोमप्रियमुवाच स: ॥
सीमन्तिन्याप्यैन्द्रसेनिसीमन्तिन्या कृतं व्यकम् ॥२१॥
एवं विनाथौ शरणागतौ नतौ कृत्वा सनाथौ यशसाप्यलंकृतौ ॥ प्रस्थापयामास गृहाय दंपती तौ हर्षितौ यत्यपकारदंयती ॥२२॥
परान्नाभिलाषिण्यथ ब्रह्मयोषित्परान्नारुचिं स्वं पतिं प्रार्थ्य चेशम् ॥ परान्नाय निन्ये भुजौ वीक्ष्य दंष्ट्रिश्वकोच्छिष्टमन्नं विहायेशमाप्तौ ॥२३॥
तां बोधयित्वा द्विजमाह खिन्नं स्वेष्टाप्तयज्वद्विजसज्जनान्नम्
ग्राह्यं तथा दानमसदूग्रहादौ तीर्थे नृपाच्चापि न चापदादौ ॥२४॥
स्वाचारवान्न दुष्येत गृह्णन्नपि कुटुम्बवान् ॥
स्वाचारं कथयेत्युक्तो ब्रह्मण्यो ब्रह्मणाsवदत् ॥२५॥
बुद्धवा ब्राह्ममुहूर्त ईशगुरुगा नत्वा दिवोदड्मुखो भूत्वा मूत्रविशौतृणेsस्रपदिशि त्यक्त्वाम्मृदाsधोबिले ॥ प्रक्षाल्याsङ्घ्रिकरान्स्ववर्णवृषविद्वक्त्रं च गण्डूषत: क्षीरीध्मेन रदाननिद्यदिवसे स्नायात्पुराsब्गोमयै: ॥२६॥
मध्याह्नेsप्सु मृदा व्रती त्रिषवणं भिक्षु: प्रवाहाभिदृक् गेहे प्राड्मुख आचमाघहृतितृप्त्युन्मार्ष्टिसंकल्पनम् । वर्ज्य मन्त्रितशीतलोष्णसलिलै: स्नायाच्चिरण्टी सदा नो शीर्ष्णा विधिवत्कृताचमनक: संध्यामुपासीत वित् ॥२७॥
मृद्भस्मागुरुचित्र आप्लवसवार्चोर्ध्वं पवित्रोत्तरीयाढ्योsसूंश्च नियम्य मार्जनमुखं कृत्वोपवीती स्वकम् ॥ दत्त्वाsर्घ्याणि परीत्य चासनगत: कृत्वा जपोपस्थिती तां संध्यां विसृजेद्धुनेन्निशि दिवा संध्यावदर्चेत्सुरान् ॥२८॥
यज्ञान्मासिकवार्षिकान्स्वसुगृहे नित्यांश्च पाठं सकृच्छ्राद्धं पोष्यभरोsमृतं हितमितं सास्वग्निहोत्रं चरेत् ॥ नि:शेषं लवणाज्यपायसमशब्दं मण्डले भाजने मौनी स्नानजपाशनोत्स्रुतिषु चामन्त्राशने काकता ॥२९॥
पर्वार्केषु निशि व्रते न च चरेदूभूताष्टमीवासरे ताम्बूलं विधवा यतींवर इदं नाद्याद्व्रते चाह्निकम् ॥ निश्याद्यप्रहरान्तमन्तरितकं नैशं निशीथात्पुरा प्रायश्चित्तमत: स्वदारग ऋतौ रागी क्षणेsनिन्दिते ॥३०॥
कौ न्यासी विधवा स्वपेन्न यमदिक्पादोsखिलो यत्कृतं तं संन्यस्य हरावयं वरवृष: षट्कर्मणो ब्रह्मण: ॥ नात: श्रेय इदं पराशरमुखैरुक्तं मयोक्तं तु ते श्रुत्वा सोsपि तथाsचरत्समुदितो लुप्तोsपि धर्म: पुन: ॥३१॥
त्रिपुंभुक्तिपर्याप्तमन्नं गृहीत्वा ययौ भास्कराख्यो द्विजोsजाय भिक्षाम् ॥ प्रदातूं त्रिमासं स वासं चरन्वै न लेभेsन्तरं तं हसन्तीतरे स्म ॥३२॥
गुरु: कारयामास पाकं च साकं स्त्र्यपत्यैर्द्विजैर्भोजयामास लोकम् ॥ परं चापि चान्नं न हीनं हि जातं तदाsलौकिकं कौतुकं तत्र जातम् ॥३३॥
प्राकाम्यसिध्द्या स्वल्पान्नप्राकाम्यं हीश्वरोsकरोत् ॥
सकाममागतं विप्रं निष्कामं चाsपि भास्करम् ॥३४॥
गङ्गानाग्नी सोमनाथकामिनी पुष्पवर्जिता ॥
परजन्मनी पुत्रार्थं समर्थमजमाभजत् ॥३५॥
तामाह तादृशीं तात: क्क जन्मैष्यं क्क वा स्मृति: ॥
मृतिर्विस्मृतिरेवात्र सत्पुत्रौ ते भविष्यत: ॥३६॥
इत्युक्त्वा नारदब्रह्मवादोक्ताश्वत्थसेवनम् ॥
शशंसाsस्या अपुष्पत्वे फलवत्तेत्यसूचि किम् ॥३७॥
ततो दृष्टरजा भूत्वा सगर्भा जरती त्वभूत् ॥
तां वीक्ष्योचुर्जना: किं नु जंगमोsसौ वनस्पति: ॥३८॥
कन्याsथास्या अभूत्तां सा शुध्द्यूर्ध्वं गुरुसंनिधिम् ॥
नीत्वोचे दारिका त्वेषा पितृहृद्दारिका न किम् ॥३९॥
तस्यै तदनुमत्यादादल्पायुष्यं बुधं सुतम् ॥
स तन्तुवर्धको जज्ञे तथा सा सद्गतिं गता ॥४०॥
शुष्कोदुम्बरकाष्ठसेवनमहो कष्टं सुकुष्ठाय स प्रोचे कुष्ठनिवृत्तये नृहरये नत्वा गरिष्ठं स तु ॥ भेजे शिष्टनिवारितोsपि तरुवत्काष्ठं सुकष्टेन तल्लोका ऊचुरजं स ताञ्छबरसन्निष्ठां तथा रिष्टदाम ॥४१॥
हन्ताsहं तारकोsप्येतान् चिन्तानन्ता वृथागता ॥
मयि संतारिका भक्तिर्जाता संतारयेन्न किम् ॥४२॥
इत्युक्त्वा तत्र गत्वा प्रभुरथ करकस्थोदकै: प्रोक्ष्य काष्ठं तद्दृष्टया दिव्ययैक्षद्विटपिवदभितस्त्वंकुरा: प्रादुरासन् ॥ सन्विप्रोsभूद्विकुष्ठ: परतरकृपया स्वर्णवर्णोsस्तुवत्तं देव: सस्त्रीकमेतं खलु निजनिकटे स्थापयामास नित्यम् ॥४३॥
प्रेष्ठदृष्टया तु कामादिदुष्टा नष्टाsस्य संसृति: ॥
विशिष्टेष्टस्य य: प्रेष्ठ: कुष्ठवार्ता कुतोsस्य तु ॥४४॥
नामधारक ते पूर्व: सायंदेवाभिधानक: ॥
वर्षार्दितोsप्यजं भेजे तस्मै त्वाष्ट्रकथां जगौ ॥४५॥
यात्रानि रूपणमिषेण स दर्शयित्वा काशीं निजासनगताय नताय तेन ॥ स्तोत्रेण किल्बिषहरेण सुतुष्ट ऊचे त्वं चेह दारसहितोsवहितो वसेति ॥४६॥
उदारान्स दारान्समानीय सार्भादर्भात्मजासंनिभानिन्दुभास्यम् ॥ ववन्देsभवं देवदेवं स भावं निरीक्ष्यास्य वंशाय चाsदात्स्वभावम् ॥४७॥
तस्मै कौण्दिण्यगोत्राय कौण्डिण्यर्षिकृतं व्रतम् ॥
उक्त्वाकारयदानन्तं पाण्डवेन हरिर्यथा ॥४८॥
कथां परां श्रृणु रुचिरां सुभाविक: कुविन्दक: प्रभुभजक: स तन्तुक: ॥ तमाह्वयच्छ्रयगगमनाय बन्धुता स तां जगावग इह मेsर्च्यदेवता ॥४९॥
मत्वाsज्ञं तं सा तु जगामाsगमथोचे मध्याह्ने तं संगममाप्तं स तु नो चेत् ॥ दृष्टोsगोsन्वेहीत्यनयत्तं स च दृष्ट्वा नृत्यन्रेजे मत्तमयूरोपम इष्ट्वा ॥५०॥
कृत्वा वपनं द्रष्टुं गुरुणाssदिष्ट: स मल्लिकार्जुनं गत्वा ॥
तत्र गुरुन्स्वजनानपि दृष्ट्वैत्य पुनर्जगौ गुरुं नत्वा ॥५१॥
अवेक्ष्याप्यन्तिकस्थं त्वामुपेक्ष्यापि कुतो जन: ॥
दूरमेतीति सुंपुष्टो दूरदृष्टिरुवाच तम् ॥५२॥
कारुण्यात्स्वेच्छया मे जननमिह कृतं कर्म दिव्यं  च तज्ज्ञा गौण्या भक्तया पवित्रा: स्मृतिकथनमुखैश्चार्चनैर्नापराधै: ॥
पादोsदाद्यैर्मदात्मा विदित इह तु यैर्भक्तिमाप्ता: परां ये संमानाद्यड्कितास्तत्कृतवसतिषु मे नित्यवासो विभोश्च ॥५३॥
इत्युक्त्वा कथायित्वाsस्मै विमर्षणकथां पुन: ॥
सुमर्षणो धारयित्वा पादुके मठमानयत् ॥५४॥
जनाय पृच्छते क्षौरहेतुं तन्तुक आह सत् ॥
असन्मेने स पक्षान्ते सदासाssप्तात्तु तैर्थिकात् ॥५५॥
दूरीकृत्यान्तरं साक्षादूरीकृत्याङ्ग तन्तुक: ॥
परां भक्तिं ययौ साक्षात्परां भागवतीं गतिम् ॥५६॥
नन्दिशर्माsभजद्देवीं कुष्ठान्ताय तया यतिम् ॥
गन्धर्वस्थं चरेत्युक्त: स्वप्ने बुद्धोsवदत्स ताम् ॥५७॥
वृषाकपाय्योर्नो भेदो वृषाकप्योर्मनागपि ॥
संमतो देवदैवज्ञे विमतोsमर्त्यमर्त्ययो: ॥५८॥
नरं चरेति कथितुं देवि लज्जाsपि ते न किम् ॥
तेन किं मम चात्रैव कुर्वे प्रायोपवेशनम् ॥५९॥
ततोsसौ हापितो यातो यतिं तेनोदितोsपि ते ॥
कृत्यं मर्त्येन किमिति स तदा वेद तं परम् ॥६०॥
संगमे स्नापयित्वा स आनीतो गुरुणान्तिकम् ॥
एकं प्रतीकं कुष्ठाक्तं दृष्ट्वाsभाणीत्स तं हितम् ॥६१॥
कुष्ठं शिष्टमिदं कुतो वद हरे मत्संशयाच्चेत्सुधा पीताsप्यम्बुधिया मृतिं नयति किं स्पृष्टोsनलोsज्ञानत: ॥ किंवाsल्पं दहतीत्यजोsवददमुं जन्मान्धबुध्द्या यथा भात्यर्कोsपि तमोमयो मयि तथा त्वत्कल्पनेयं वृथा ॥६२॥
विप्राsथाsपि स्तुहि परधिया मां तया तेsस्तु शुद्धिस्तद्धि श्रुत्वाsवददयमहो विद्धि मां हीनबुद्धिम् ॥ मौने जाने न च लिपिमपीत्यत्रिजो भस्म दिव्यं तज्जिह्वाग्रेsक्षिपदथ कवि: सोsपि भूत्वेशमस्तौत् ॥६३॥
ब्रह्मन् तत्त्वमसि त्वमादिपुरुष: सन्निर्विशेषोsकल: कालादीन्निजशक्तित: सृजति य: सोsचिन्त्यशक्ति: स्वराट् ॥ पञ्चाग्निक्रमतोंsशकान्कृतफलप्रात्प्यै मुहुर्भामयन्गर्भावासजनुर्दशादिभिरहंत्वेनापि नो लिप्यते ॥६४॥
निवर्तते ज्ञानमृते त्वनादिभ्रमो न न त्वद्भजनं विना तत् ॥
अतस्त्वयि प्रीतिरनारताsस्तु यथाबुधानां विषयेषु नाथ ॥६५॥
एकस्त्वं षड्रिपून् जेतुं भगवन्न क्षमोsसि चेत् ॥
जह्येकं काममेवाथो शिष्टा यास्यन्ति पञ्चताम् ॥६६॥
तौतातितातीत तात तततन्तुततीत ते ॥
तत्ता तूता तता तेsन्तातीतताsतितता तत: ॥६७॥
सरसासारसंसार सुरासारारिसारर ॥
सूरिसूरेsसुरारे रैरसारेरं रसोsसि स: ॥६८॥
एवं संस्तुवतोsस्य कुष्ठमभवन्नष्टं विशिष्टेष्टसंतुष्ट्या तं च सदारमात्मनिकटे तुष्टे ररक्षेष्टकृत् ॥ तस्याभूत्प्रथिता क्षितो सुकविता कश्चित्समाकर्ण्य तां मेने नृस्तुतिमण्डिताsपि कविता गर्ह्याप्युदारेत्यवित् ॥६९॥
स नित्यवन्मानसपूजने नवस्वसत्कवित्वं गिरिशेsर्पयन्निव ॥
ददर्श लिङ्गे यतिनं नृकेसरी तत: स तच्छिष्यपदं गतो व्यरि: ॥७०॥
एवं विचित्रचरितो विचित्रगुणमण्डित: ॥
ततान भगवान्भव्यं नव्यं सेव्यं यशो भुवि ॥७१॥
सप्तर्षय इव सप्त प्रियभक्ता आप्तभक्तय: प्राप्ता: ॥
आप्तं नेतुं स्वगृहान्दीपावल्युत्सवे तमनुरक्ता: ॥७२॥
मद्गृहं चर मद्गृहं चर मद्गृहं चर मद्गृहं मद्गृहं चर मद्गृहं चर मद्गृहं त्विति तद्ग्रहम् ॥ सोsवधार्य च तान्निवार्य विचार्य कार्यमथार्यवानष्टमूर्तिरुताष्टभक्तहृदिष्टत्परिपृष्टवान् ॥७३॥
सप्त यूयं त्वहं केवलस्त्वेकल: सप्तगेहेषु चैकक्षणेsतोsनल: ॥ एष चैकत्र चैकैकगेहं हि वाssनीयतामन्यथा स्याद्व्यथा सा वृथा ॥७४॥
अथापि तेषाम निरवद्यमाग्रहं महर्विदित्वा रह आह चैककम् ॥ न वाच्यमन्यत्र चरैष्य आलयं तवेत्यगुस्तेsपि विभुस्तदालयान् ॥७५॥
सप्तात्माsसौ सप्तगेहानि गत्वा स्थित्वाsप्यस्मिन्नेवमेकोsषि भूत्वा ॥ अष्टात्मैवं ते विदु: प्राप्तकामा: कार्तिक्यां तं तुष्टुवुर्नष्टकामा: ॥७६॥
श्रवणाध्ययनार्थप्रतिषेधात् कुर्वन् गुरोस्तु परिचर्याम् ॥
वर्यां मर्यादातो वृषलो वषलोभ्यगाद्गतिं वर्याम् ॥७७॥
कण्टकाश्माद्यपाकृन्य प्रत्यहं संगमायनम् ॥
व्यधाद्विशदमाधातिक स्वात्मनो: संगमायनम् ॥७८॥
तं चैकदा प्राह गुरु: किमिच्छसि प्रोचे स चेति त्वमनेन गच्छसि ॥ सोध्वा सुसेव्यो भवदीक्षयाsभवत्क्षेत्रे फलर्द्धिस्तु तदीक्षको भव ॥७९॥
तथेति दृष्ट्वा तदजोsप्यपक्कमुपादिशच्छेत्तुमथाप्यपक्कम् ॥ पत्याssच्छिनद्वारित एव पत्न्या चूर्णोपमानीकृतपादधूल्या ॥८०॥
आगच्छन गुरुरप्यवेक्ष्य तु दितं तं प्राह किं ते कृतं नोक्तं सत्यतया मया स च वच: प्रोचे न चेदं मया ॥ मौढ्येनापि कृतं त्वया यदुदितं मेsभीप्सितं तन्मतं श्रुत्वा तद्गदितं तथेत्यपि गुरुर्यातो मठ स्वर्चितम् ॥८१॥
मूलं यार्तेsशुमालौ जलमुगलमपो मुक्तवान् तेन तव क्षेत्रे छिन्नेsप्यनेके वरगुरुकृपया त्वड्कुरा: प्रादुरासन् ॥ शूद्री दृष्ट्वाsनुतप्ता तमु शरणमिता सोsमुयाsभ्यर्च्य देवं धान्यम लेभेsमितं द्राग्गुरुपदमपि यद्गोत्रमद्यापि धन्यम् ॥८२॥
काश्यादिक्षेत्रमुल्लंघ्य तस्थावत्राजित: कुत: ॥
इति पृष्ट: स तेनाsसौ क्षेत्रमाहात्म्यमादिशत् ॥८३॥
जालन्धरासुरहतामृतजीवनार्थं शर्वार्पितामृतघटश्चयुत इन्द्रहस्तात् ॥ जाता तातोsप्यमरजेति जगत्प्रतीता कालान्तभीतिदुरितान्तकरी परीता ॥८४॥
गङ्ग्याsर्कतनया यथा तथा भीमयाsप्यमरजाsत्र संगता ॥
अष्टतीर्थयुतसंगमोsघहृत्स्यात्प्रयाग इव सर्वकर्महृत् ॥८५॥
इच्छासंतोषतीर्थे अभिमतफलदे विश्वनाथोsयमग्रे जीवन्मुक्तोsत्र शैवो जड इव विचरन् दर्शयामास काशीम् ॥ कल्पद्रवश्वत्थमूले कलुषहृदिह सा नष्टकुष्ठा स्वसाsभूद्रत्नाख्या कोटितीर्थं हरपदिह गया द्वार्वती चक्रतीर्थम् ॥८६॥
एवमादीनि तीर्थानि पावनानि प्रकाशयन् ॥
तस्थाविहैव भगवान्म्लेच्छमुद्धृत्य योगवान् ॥८७॥
भगवन् हीनसंभूत: को म्लेच्छ: कथमुद्धृत: ॥
एवं द्वजेन संपृष्टास्तुष्ट: स उपदिष्टवान ॥८८॥
कृष्णतीरे कुरुपुरे सेवको रजकोsभवत् ॥
श्रीपदो विपदो हर्तुर्वरं तस्मै स दत्तवान् ॥८९॥
भवान्तरे म्लेच्छकुलेsभवत्स क्षमापति: सन्मतिरात्तनीति: ॥
प्राक्संस्कृतिप्राप्तसुरद्विजाति भक्तिर्निजज्ञातिसुशिक्षितोsपि ॥९०॥
वक्त्राद्यैर्देहसाम्येsपि कथमवयवैर्वर्णभेदो विभेदो देवत्वं मृच्छिलादौ कथमिति स पतिर्ज्ञातिपृष्ट: स्म वक्ति ॥ धीमान्द्यं वोsदयेते गुणचरनाभिदा देवसृष्टास्त्वनादिर्वेद: सत्य: स्मृतिश्च प्रभुरिह भजतामस्ति सर्वत्र पूर्ण: ॥९१॥
श्रुतिस्मृती निश्चित ईश्वराज्ञे राज्ञेह नीतिर्विहिता यथाsज्ञा ॥
भवेदलंघ्याsपि तथैव लोके लोकेश्वराज्ञे निहिते किलाsज्ञे ॥९२॥
तस्मादस्मानसूयामुखमकदमद: संविहायाssश्रयंतु भक्त्येत्यूचे स चेश: स्वयमभजदिमान्भूसुरांस्तत्सुरांश्च ॥ तस्याप्येवं सतोsभूदनिशमसुखद: स्फोटकाsड्के स तेन क्लिष्टोsनिष्टेन शिष्टक्षितिसुरमवर: पृच्छति स्मास्य शान्तिम् ॥९३॥
जनापवादात्स च विप्रवर्यो भातोsघहृन्नामकतीर्थदेशे ॥
तस्मै रह: प्राह दशार्णराजस्त्रीपुत्रकष्टं त्वृषभप्रसादम् ॥९४॥
मृतस्यापि भद्रायुषो जीवनं तत्समाकर्ण्य स प्राह नाहं हि वेद्मि ॥ कुहेदृड् महासाधुरास्ते नमस्ते समस्तेष्टकृच्छंस मे दीनबन्धो ॥९५॥
स प्राह गन्धर्वपुरेsस्ति साधुर्म्लेच्छोsभिपूज्यापि च तं स साधु ॥ क्षेत्रं ययौ षड्बलयुक् तरस्वी ददर्श देवं स गुरुं मनस्वी ॥९६॥
दृष्ट्वा तं गुरुराह रे रजक किं हृष्टोsसि मां नागत: कस्मादित्यवधार्य हृष्टहृदयस्तं प्राह लब्धस्मृति: ॥ स्वामिन्मां रजकं स्वसेवकमकप्राये भवाब्धौ प्रभो कस्मात्पातयसि प्रियं कमनयं प्रागाचरं वेद्मि नो ॥९७॥
सती पतिवियोगेन प्राणेश्वर यथा तथा ॥
भगवन् त्वद्वियोगेन सदा दु:खातुरोsभवम् ॥९८॥
दिष्ट्या स्फोटकदुर्निमित्तम इदं जातं भवद्दर्शनं श्रीश: प्राह कुहास्ति दर्शय स तं सन्तं निजाङ्गे स्थितम् ॥ नापश्यत्स सुविस्मितोsथ बहुशस्तं प्रार्थ्य निन्येsथिंत: पूर्व पापविनाशतीर्थमगमत्प्राड् नागनाथार्चित: ॥९९॥
राजा स्वैर्निन्दितोsपि प्रभुमपि पदग: पालकस्थं द्विजेडयं नीत्वा वाद्यादिघोषै: पुरमतिमुदितोsन्त:पुरे भद्रपीठे ॥ स्वास्तीर्णे चोपवेश्य स्वविभवमखिलं दर्शयामास तस्मै दत्त्वाsजो भक्तिमाप्त: स्वमठमिति जगौ पृच्छते सिद्ध एतत् ॥१००॥
सदानन्दति विद्वत्त्वात्सर्वदाsति विभुत्वत: ॥
मृत्युंजयति योगित्वाद्य: स मे हृदि तिष्ठतु ॥१०१॥
वन्देsहं देवदेवं धृतिमतिगतिदं साङ्गयोगप्रगम्यं पारावाराभरागाद्यरिकरिहरिमाह्लादकं दत्तदक्षम् ॥ ज्ञेयज्ञ यज्वयज्ञं सुरवरपरदं पारदं रम्यरम्यं पातारं तारतारं खलबलदलनं श्रीवरं वक्रवक्रम् ॥१०२॥
वनजतु स तु वनजतु स तु यदि वा सुरवरतु स तु नरवरतु स तु वा ॥ निजचरणशरणतरनचरणकृद्य उ महितमहितयुगिह्ग तमु नुम: ॥१०३॥
द त्तं यो भ ज ते नि त्यं मुक्ति मे ति न सं श य: ॥
वि त्तं यो भ ज ते sनि त्यं भु क्ति मे ति न सं श य: ॥१०४॥
सा का र ता ता र का सा ॥ का पि सा र र सा पि का ॥
र सा य मे मे य सार ॥ ता र मे य य मे र ता ॥१०५॥
अ व रं श्री व रं वं दे ॥ श्री व रं श्री क रं व दे ॥
दे व रं श्री ध रं सं तं ॥ नृ व रं श्री प रं सतं ॥१०६॥
दासपं गतिदं वन्देsत्रिजं चारुहितं वृतम् ॥
तं वृतं हि रुचाsजं त्रिदेवं दन्तिगपं सदा ॥१०७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-18T09:56:25.2270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

net sales

  • शुद्धनिवल बिक्री 
  • निव्वळ विक्री 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site