संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|चतुर्थः पादः| सूत्र १९-२१ चतुर्थः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७-८ सूत्र ९-११ सूत्र १२-१५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ चतुर्थः पाद: - सूत्र १९-२१ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १९-२१ Translation - भाषांतर विकारावर्ति च तथा हि स्थितिमाह ॥१९॥विकारावर्ति च तथा हि स्थितिमाह ॥विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपं न केवलं विकारमात्रगोचरं सवितृमण्डलाद्यधिष्ठानम् ।तथा हयस्य द्विरूपां स्थितिमाहान्नाय: तावानस्य महिमा ततो ज्यायांश्च पूरूष: ।पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीत्येवमादि: ।न च तन्निर्विकारं रूफमितरालम्बना: प्राप्नुवन्तीति शक्यं वक्तुमतत्क्रतुत्वात्तेषाम् ।अतश्च यथैव द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवावतिष्ठन्त एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति द्रष्टव्यम् ॥१९॥दर्शयतश्वैवं प्रत्यक्षानुमाने ॥२०॥दर्शयतश्वैवं प्रत्यक्षानुमाने ॥दर्शयतश्च विकारावर्तित्वं परस्य ज्योतिष: श्रुतिस्मृती ।न तत्र सूर्यो भाति न चन्द्रतारकं नमा विद्युतो भान्ति कुतोऽयमग्निरिति ।न तद्भासयते सूर्यो न शशाङ्को न पावक इति च ।तदेवं विकारावर्तित्वं परस्य ज्योतिष: प्रसिद्धमित्यभिप्राय: ॥२०॥भोगमात्रसाम्यलिङ्गाच्च ॥२१॥भोगमात्रसाम्यलिङ्गाच्च ॥इतश्व न निरङ्कुशं विकारालम्बनानामैश्वर्यं यस्माद्बोगमात्रमेवैषामनादिसिद्धेनेश्वनेश्वरेण समानमिति श्रूयते तमाहापो वै खलु मीयन्ते लोकोऽसाविति स यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति तेनो एतस्यै देवतायै सायुज्यं सलोकतांजयतीत्यादिभेदव्यपदेशलिङ्गेभ्य: ॥२१॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP