संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|चतुर्थः पादः| सूत्र १६ चतुर्थः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७-८ सूत्र ९-११ सूत्र १२-१५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ चतुर्थः पाद: - सूत्र १६ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १६ Translation - भाषांतर स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥१६॥कथं पुनर्मुक्तस्यानेकशरीरावेशादिलक्षणमैश्चर्यमभ्युपगम्यते यावता तत्केन कं विजानीयात् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् सलिल एको द्रष्टाऽद्वैतो भवतीति चैत्रंजातीयका श्रुतिर्विशेषविज्ञानं वारयतीत्यत उत्तरं पठति ॥स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥स्वप्यय: सुषुप्तं स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षत इति श्रुते: ।संपत्ति: कैवल्यं ब्रम्हौव सन्त्रम्हाप्येतीति श्रुते: ।तयोरन्यतरामवस्थामपेक्ष्यैतद्विशेषसंज्ञाभाववचनं क्वचित्सुषुप्तावस्थामपेक्ष्योच्यते कृचित्कैवल्यावस्थाम् ।कथमवगम्यते यतस्तत्रैव तदधिकारवशादाविष्कृतं एतेभ्यो भूतेभ्य: समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्तीति यत्र स्वस्य सर्वमात्मैवाभूद्यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यतीत्यादिश्रुतिभ्य: ।सगुणविद्याविपाकस्थानं त्वेतत्स्वर्गादिवदवस्थान्तरं यत्रैतदैश्वर्यमुपवर्ण्यते तस्माददोष: ॥१६॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP