चतुर्थः पाद: - सूत्र ९-११

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अत एव चानन्याधिपति: ॥९॥

अत एव चानन्याधिपति: ॥
अत एव चावन्ध्यसंकल्पत्वादनन्याधिपतिर्विद्वान्भवति नास्यान्योऽधिपतिर्भवतीत्यर्थ: ।
न हि प्राकृतोऽपि संकल्पयन्नन्यस्वामिकस्वमात्मन: सत्यां गतौ संकल्पयति ।
श्रुतिश्चैतद्दर्शयदि अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतीति ॥९॥

अभावं बादरिराह हयेवम् ॥१०॥

अभावं बादरिराह हयेवम् ॥
संकल्पादेवास्य पितर: समुत्तिष्ठन्तीत्यादिश्रुतेर्मनस्तावत्संकल्पसाधनं सिद्धम् ।
शरीरेन्द्रियाणि पुन: प्राप्तैश्वर्यस्य विदुष: सन्ति न वा सन्तीति समीक्ष्यते ।
तत्रा बादरिस्तावदाचार्य: शरीरस्येन्द्रियाणां चाभावं मही यमानस्य विदुषो मन्यते । कस्मात् ।
एवं हयाहान्नायो मनसैतान्कामान्पश्यत्रमते य एते ब्रम्हालोक इति ।
यदि मसा शरीरेन्द्रियैश्च विहरेन्मनसेति विशेषणं न स्त्यात् ।
तस्मादभाव: ।
शरीरोन्द्रियाणां मोक्षे ॥१०॥

भावं जैमिनिर्विकल्पामननात् ॥११॥

भावं जीमिनिर्विकल्पामननात् ॥
जैमिनिस्त्वाचार्यो मनोवच्छरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते ।
यत: स एकधा भवति त्रिधा भवतीत्यादिनाऽनेकधाभावविकल्पमामनन्ति ।
न हयनेकविधता विना शरीरभेदेनाञ्जसी स्यात् ।
यद्यपि निर्गुणायां भूमविद्यायामयमनेकधाभावविकल्प: पठयते तथापि विद्यामानमेवेदं सगुणावस्थायामैश्चर्यं भूमविद्यास्तुतये संकीर्त्यत इत्यत: सगुनविद्याफलभावेनोपतिष्ठत इति ॥११॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP