संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|चतुर्थः पादः| सूत्र १७ चतुर्थः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७-८ सूत्र ९-११ सूत्र १२-१५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ चतुर्थः पाद: - सूत्र १७ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १७ Translation - भाषांतर जगद्वयापारवर्जं प्रकरणादसंनिहितत्वाच्च ॥१७॥जगद्वयापारवर्जं प्रकरणादसंनिहितत्वाच्च ॥ते सगुणब्रम्होपासनात्सहैव मनसेश्वरसायुज्यं व्रजन्ति किं तेषां निरवग्रहमैश्वर्यं भवत्याहोस्वित्सावग्रहमिति संशय: ।किं तावत्प्राप्तम् ।निरङकुशमेवैषामैश्वर्य भवितुमर्हति आप्नोति स्वाराज्यं सर्वेऽस्मै देवा बलिमावहन्ति तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादिश्रुतिभ्य इति ।एवं प्राप्ते पठति ।जगद्वयापारवर्जमिति ।जगदुत्पत्यादिव्यापारं वर्जयित्वाऽन्यदणिमाद्यात्मकमैश्वर्यं मुक्तनां भवितुमर्हति जगद्वयापारस्तु नित्यसिद्धस्यैवेश्वरस्य ।कुत: ।तस्य तत्र प्रकृतत्वादसंनिहितत्वाच्चेतरेषाम् ।पर एव हीश्वरो जगव्द्यापारेऽधिकृत: ।तमेव प्रकृत्योत्पत्त्याद्युपदेशान्नित्यशब्दनिबन्धनत्वाच्च ।तदन्वेषणविजिज्ञासनपूर्वकं त्वितरेषामणिमाद्यैश्वर्यं श्रूयते ।तेनांनिहितास्ते जगद्वयापारे ।समनस्कत्वादेव चैतेषामनैकमत्ये कस्यचित्स्थित्यभिप्राय: कस्यचित्संहाराभिप्राय इत्येवं विरोधोऽपि कदाचित्स्यात् ।अथ कस्यचित्संकल्पमन्वस्य संकल्प इत्यविरोध: समर्थेत तत: परमेश्वराकूततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते ॥१७॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP