संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|चतुर्थः पादः| सूत्र २ चतुर्थः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७-८ सूत्र ९-११ सूत्र १२-१५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ चतुर्थः पाद: - सूत्र २ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २ Translation - भाषांतर मुक्त: प्रतिज्ञानात् ॥२॥क: पुनर्विशेष: पूर्वास्ववस्थास्विह च स्वरूपानपायसाभ्ये सतीत्यत आहे ॥मुक्त: प्रतिज्ञानात् ॥ योऽत्राभिनिष्पद्यत इत्युक्त: स सर्वबन्धविनिर्मुक्त: शुद्धेनैवात्मनाऽवतिष्ठते ।पूर्वत्रान्धो भवत्यपि रोदितीव विनाशमेवापीतो भवतिति च अवस्थात्रयकलुषितेनात्मनेत्ययं विशेष: ।कथं पुनरवगम्यते मुक्तोऽयमिदानीं भवतीति प्रतिज्ञानादित्याह ।तथा हि एतं त्वेव ते भूयोऽणुव्याख्यास्यामीत्यवस्थात्रयदोषविहनिमात्मानं व्याख्येयत्वेन प्रतिज्ञाय अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति चोपन्यस्य स्वेन रूपेणाभिनिष्पद्यते स उत्तम: पुरुष इति चोपसंहरति ।तथाऽऽख्यायिकोपक्रमेऽपि य आत्माऽपहतपाप्मेत्यादिमुक्तात्मविषयमेव प्रतिज्ञानम् ।फलत्वसिद्धिरपि मोक्षस्य बन्धननिवृत्तिमात्रापेक्षा नापूर्वोपजननापेक्षा ।यदप्यभिनिष्पद्यत इत्युत्पत्तिपर्यायत्वं तदपि पूर्वावस्थापेक्षं यथा रोगनिवृत्तावरोगोऽभिनिष्पद्यत इति तद्वत् तस्माददोष: ॥२॥ Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP