संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|चतुर्थः पादः| सूत्र १ चतुर्थः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७-८ सूत्र ९-११ सूत्र १२-१५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ चतुर्थः पादः - सूत्र १ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १ Translation - भाषांतर संपाद्याविर्भाव: स्वेनशब्दात् ॥१॥संपाद्याविर्भाव: स्वेनशब्दात् ॥एवमेषैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति श्रूयते ।तत्र संशय: किं देवलोकाद्युपभोगस्थानेष्विवागन्तुकेन केनचिद्विशेषेणाभिनिष्पद्यत आहोस्विदात्ममात्रेणेति ।किं तावत्प्राप्तम् ।स्थानान्तरेष्विवागन्तुकेन केनचिद्रूपेणाभिनिष्पत्ति: स्यात् ।मोक्षस्यापि फलत्वप्रसिद्धे: ।अभिनिष्पद्यत इति चोत्पत्तिपर्यायत्वात् ।स्वरूपमात्रेण चेदभिनिष्पत्ति: पूर्वास्वप्यवस्थासु स्वरूपानपायाद्विभाव्येत ।तस्माद्विशेषेण केनचिदभिनिष्पद्यत इति ।एवं प्राप्ते ब्रूम: ।केवलेनैवात्मनाविर्भवति न धर्मान्तरेणेति ।कुत: ।स्नेन रूपेणाभिनिष्पद्यत इति स्वशब्दात् । अन्यथा हि स्वशब्देन विशेषणमनवक्लृप्तं स्यात् ।नन्वात्मीयाभिप्राय: स्वशब्दो भविष्यति । न ।तस्यावचनीयत्वात् ।येनैव हि केनचिद्रूपेणाभिनिष्पद्यते तस्यैवात्मीयत्वोपपत्ते: स्वेनेति विशेषणमनर्थकं स्यात् ।आत्मवचनतायां त्वर्थवत्केवलेनैवात्मरूपेणाभिनिष्पद्यते नागन्तुकेनापररूपेणातीति ॥१॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP