चतुर्थः पाद: - सूत्र १२-१५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


द्वादशाहवदुभयविधं बादरायणोऽत:॥१२॥

उच्यते ।
द्वादशाहवदुभयविधं बादरायणोऽत: ॥
बादरायण: पुनराचार्योऽत एवोभयलिङ्गश्रुतिदर्शनादुभयविधत्वं साधु मन्यते यदा सशरीरतां संकल्पयति तदा सशरीरो भवति यदा त्वशरीरतां तदाऽशरीर इति ।
सत्यसंकल्पत्वात् ।
संकल्पवैचित्र्याच्च ।
दादशाहवत् ।
यथाद्वादशाह:सत्रमहीनश्च भवत्युभयलिङ्गशृतिदर्शनादेवमिदमपीति ॥१२॥

तन्वभावे सन्ध्यवदुपपत्ते: ॥१३॥

तन्वभावे सन्ध्यवदुपपत्ते: ॥
यदा तु सेन्द्रियस्य शरीरस्याभावस्तदा यथा सन्ध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वप्युपलब्धिमान्ना एव  पित्रादिकामा भवन्त्येवं मोक्षेऽपि स्युरेवं तदुपपद्यते ॥१३॥

भावे जाग्रद्वत् ॥१४॥

भावे जाग्रद्वत् ॥
भावे पुनस्तनोर्यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्त्येवं मुक्तस्याप्युपपद्यन्ते ॥१४॥

प्रदीपवदावेशस्तथा हि दर्शयति ॥१५॥

प्रदीपवदावेशस्तथा हि दर्शयति ॥
भावं जैमिनिर्विकल्पामननादित्यत्र सशरीरत्वं मुक्तत्योक्तं तत्र विधाभावादिष्वनेकाशरीरसर्गे कि निरात्मकानि शरीराणि दारुयन्त्रवत्सज्यन्ते किं वा नात्मकान्यत्मदादिशरीरवदिति भवति वीक्षा ।
तत्र चात्ममनसोर्भोदान्पपत्तेरेकेन शरीरेण योगादितराणि शरीराणि निरात्मकानीति ।
एवं प्राप्ते प्रतिपद्यते प्रदीपवदविश इति ।
यथा प्रदीप एकोऽनेकप्रदीपभावमापद्यते विक्रारशक्तियोगादेवमेकोऽपि सन्त्रिद्वानैश्चर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशति ।
कुतु: ।
तथा हि दर्शयति शास्त्रमेकस्यानेकभावं स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधेत्यादि ।
नैतद्दारुयन्त्रोपमाभुउपगमेऽवकल्पते नापि जीबान्तरावेशे ।
न च निरात्मकानां शरीराणां प्रवृत्ति: संभवति ।
यत्वात्ममनसोर्भेदानुपपत्तेरनेकशरीरयोगासंभव इति ।
नैष दोष: ।
एकमनोनुवर्तीनि समनस्कान्येवापराणि शरीराणि सत्यसंकल्पत्वात्स्रक्ष्यति ।
सृष्टेषु च तेषूपाधिभेदादात्मनोऽपि भेदेनाधिष्ठातृत्वं योक्ष्यते ।
एषैव च योगशास्त्रेषु योगिनामनेकशरीरओगप्रक्रिया ॥१५॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP