संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः| साधन पञ्चकं शंकराचार्यविरचितम् साहित्यः उपदेशसाहस्री अद्वैत पञ्चरत्नम् अद्वैतरसमञ्जरी अद्वैतानुभूति अनात्मश्रीविगर्हणम् अपरोक्षानुभूति अष्टादशशक्तिपीठ स्तोत्रम् आत्मबोधः आत्मषटक् कौपीन पंचकम् जीवन्मुक्तानन्दलहरी अथ दशश्लोकी निर्गुणमानसपूजा निर्वाणमञ्जरी पञ्चिकरणं प्रश्नोत्तररत्नमालिका प्रौढानुभूतिः ब्रह्मज्ञानावलीमाला ब्रह्मानुचिन्तनम् मठाम्नायमहानुशासनम् पुष्पमाला स्तवः मातृपञ्चकम् मायापञ्चकम् यतिपञ्चकम् योगतारावली वाक्यवृत्तिः साधन पञ्चकं साधन पञ्चकं भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य साधन पञ्चकं Translation - भाषांतर वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता-मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥१॥सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥२॥वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् ।ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां देहेऽहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥३॥क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां स्वाद्वन्नं न तु याच्यतां विधिवशात् प्राप्तेन सन्तुष्यताम् ।शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-मौदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम् ॥४ ॥एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् ।प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥५॥॥इति परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचित साधन पञ्चकं संपूर्णम् ॥ N/A References : Encoded and roofread by Sunder Hattangadi Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP