संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः| पुष्पमाला स्तवः शंकराचार्यविरचितम् साहित्यः उपदेशसाहस्री अद्वैत पञ्चरत्नम् अद्वैतरसमञ्जरी अद्वैतानुभूति अनात्मश्रीविगर्हणम् अपरोक्षानुभूति अष्टादशशक्तिपीठ स्तोत्रम् आत्मबोधः आत्मषटक् कौपीन पंचकम् जीवन्मुक्तानन्दलहरी अथ दशश्लोकी निर्गुणमानसपूजा निर्वाणमञ्जरी पञ्चिकरणं प्रश्नोत्तररत्नमालिका प्रौढानुभूतिः ब्रह्मज्ञानावलीमाला ब्रह्मानुचिन्तनम् मठाम्नायमहानुशासनम् पुष्पमाला स्तवः मातृपञ्चकम् मायापञ्चकम् यतिपञ्चकम् योगतारावली वाक्यवृत्तिः साधन पञ्चकं पुष्पमाला स्तवः भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य मन्त्र मातृका पुष्पमाला स्तवः Translation - भाषांतर कल्लोलोल्लसितामृताब्धि लहरी मध्ये विराजन्मणिद्वीपे कल्पक वाटिका परिवृते कादम्ब वाट्युज्ज्वले ।रत्न स्तम्भ सहस्र निर्मित सभा मध्ये विमानोत्तमे चिन्ता रत्न विनिर्मितं जननि ते सिह्मासनं भावये ॥१ ॥एणाङ्कानल भानुमण्डल लसत् श्रीचक्र मध्येस्थितां बलार्क द्युति भासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।चापं बाणमपि प्रसन्नवदनां कौसुम्भ वस्त्रान्वितां तां त्वां चन्द्र कलावतम्स मकुटां चारुस्मितां भावये ॥२॥ईशनादिपदं शिवैक फलकं रत्नासनं ते शुभं पाद्यं कुङ्कुम चन्दनादि भरितैरर्घ्यं सरत्नाक्षतैः ।शुद्धैराचमनीयकं तव जलैर् भक्त्या मया कल्पितं कारुण्यामृत वारिधे तदखिलं सन्तुष्टये कल्पताम् ॥३॥लक्ष्ये योगिजनस्य रक्षित जगज्जाले विशालेक्षणे प्रालेयाम्बु पटीर कुङ्कुम लसत्कर्पूर मिश्रोदकैः ।गोक्षीरैरपि नालिकेर सलिलैः शुद्धोदकैर् मन्त्रितैः स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥४॥ह्रीङ्काराङ्कित मन्त्र लक्षित तनो हेमाचलात् सञ्चितैः रत्नैरुज्ज्वलमुत्तरीय सहितं कौसुम्भ वर्णांशुकम् ।मुक्ता सन्तति यज्ञ सूत्रममलं सौवर्ण तन्तूत्भवं दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥५हम्सैरप्यति लोभनीय गमने हारावलीमुज्ज्वलां हिन्दोलद्युति हीर पूरिततरे हेमाङ्गदे कङ्कणे ।मञ्जीरौ मणि कुण्डले मकुटमप्यर्धेन्दु चूडामणिं नासा मौक्तिकमङ्गुलीय कटकौ काञ्चीमपि स्वीकुरु ॥६॥सर्वाङ्गे घनसार कुङ्कुम घन श्री गन्ध पङ्काङ्कितं कस्तूरी तिलकञ्च फाल फलके गोरोचना पत्रकम् ।गण्डादर्शन मण्डले नयनयोर् दिव्याञ्जनं तेऽञ्चितं कण्ठाब्जे मृगनाभि पङ्कममलं त्वत्प्रीतये कल्पताम् ॥७॥कल्हारोत्पल मल्लिका मरुवकैः सौवर्ण पङ्केरुहैः जाती चम्पक मालती वकुलकैर् मन्दार कुन्दादिभिः ।केतक्या करवीरकैर् बहुविधैः कॢप्ताः स्रजोमालिकाः सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥८॥हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलैः यैर्भृङ्गावलि नील कुन्तल भरैर्बध्नासि तस्याशयम् ।तानीमानि तवाम्ब कोमलतराण्यामोद लीला गृहाण्यामोदाय दशाङ्ग गुग्गुलु घृतैर्धूपैरहं धूपये ॥९॥लक्ष्मीमुज्ज्वलयामि रत्न निवहोत्भास्वत्त्तरे मन्दिरे मालारूप विलम्बितैर्मणिमय स्तम्भेषु सम्भावितैः ।चित्रैर्हाटक पुत्रिका कर धृतैः गव्यैर्घृतैर्वर्धितैः दिव्यैर् दीपगणैर् धिया गिरि सुते सन्तुष्टये कल्पताम् ॥१०॥ह्रीङ्कारेश्वरि तप्त हाटक कृतैः स्थाली सहस्रैर्भृतं दिव्यान्नं घृत सूप शाक भरितं चित्रान्न भेदं तथा ।दुग्धान्नं मधु शर्करा दधि युतं माणिक्य पात्रे स्थितं माषापूप सहस्रं अम्ब सफलं नैवेद्यं आवेदये ॥११॥सच्छायैर्वर केतकी दल रुचा ताम्बूल वल्ली दलैः पूगैर्भूरि गुणैः सुगन्धि मधुरैः कर्पूर खण्डोज्ज्वलैः ।मुक्ता चूर्ण विराजितैर्बहुविधैर् वक्त्राम्बुजामोदनैः पूर्णा रत्न कलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥१२॥कन्याभिः कमनीय कान्तिभिरलङ्कारामलारार्तिका पात्रे मौक्तिक चित्र पङ्क्ति विलसद् कर्पूर दीपावलिः ।तत्तत्ताल मृदङ्ग गीत सहितं नृत्यत् पदाम्भोरुहं मन्त्राराधन पूर्वकं सुविहितं नीराजनं गृह्यताम् ॥१३॥लक्ष्मीर्मौक्तिक लक्ष कल्पित सितच्छत्रं तु धत्ते रसात् इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।वीणामेण विलोचनाः सुमनसां नृत्यन्ति तद्रागवत् भावैराङ्गिक सात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥१४॥ह्रीङ्कार त्रय सम्पुटेन मनुनोपास्ये त्रयी मौलिभिः वाक्यैर्लक्ष्यतनो तव स्तुति विधौ को वा क्षमेताम्बिके ।सल्लापाः स्तुतयः प्रदक्षिण शतं सञ्चार एवास्तु ते संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥१५॥श्री मन्त्राक्षर मालया गिरि सुतां यः पूजयेच्चेतसा सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।चित्ताम्भोरुह मण्डपे गिरि सुता नृत्तं विधत्ते रसात् वाणी वक्त्र सरोरुहे जलधिजा गेहे जगन्मङ्गला ॥१६॥इति गिरि वर पुत्री पाद राजीव भूषा भुवनममलयन्ती सूक्ति सौरभ्य सारैः ।शिवपद मकरन्द स्यन्दिनीयं निबद्धा मदयतु कवि भृङ्गान् मातृका पुष्पमाला ॥१७॥ इति श्रीमच्छङ्कर भगवत्पाद विरचितः।मातृका पुष्पमाला स्तवः सम्पूर्णः ॥ N/A References : Encoded and roofread by V। Goalakrishnan Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP