संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः| अथ दशश्लोकी शंकराचार्यविरचितम् साहित्यः उपदेशसाहस्री अद्वैत पञ्चरत्नम् अद्वैतरसमञ्जरी अद्वैतानुभूति अनात्मश्रीविगर्हणम् अपरोक्षानुभूति अष्टादशशक्तिपीठ स्तोत्रम् आत्मबोधः आत्मषटक् कौपीन पंचकम् जीवन्मुक्तानन्दलहरी अथ दशश्लोकी निर्गुणमानसपूजा निर्वाणमञ्जरी पञ्चिकरणं प्रश्नोत्तररत्नमालिका प्रौढानुभूतिः ब्रह्मज्ञानावलीमाला ब्रह्मानुचिन्तनम् मठाम्नायमहानुशासनम् पुष्पमाला स्तवः मातृपञ्चकम् मायापञ्चकम् यतिपञ्चकम् योगतारावली वाक्यवृत्तिः साधन पञ्चकं अथ दशश्लोकी भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य अथ दशश्लोकी Translation - भाषांतर न भूमिर्न तोयं न तेजो न वायुः न खं नेन्द्रियं वा न तेषां समूहः । अनेकान्तिकत्वात् सुषुप्त्येकसिद्दः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥१॥न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोपि । अनात्माश्रयाहंममाध्यासहानात् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥न माता पिता वा न देवा न लोका न वेदा न यज्ञा न तीर्थ ब्रुवन्ति । सुषप्तौ निरस्तातिशून्यात्मकत्वात् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥न साख्यं न शैवं न तत्पाञ्चरात्रं न जैनं न मीमांसकादेर्मतं वा । विशिष्टानुभूत्या विशुद्धात्मकत्वात् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥४॥न चोर्ध्व न चाधो न चान्तर्न बाह्यं न मध्यं न तिर्यँ न पूर्वाऽपरा दिक् । वियद्व्यापकत्वादखण्डैकरूपः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥५॥न शुक्लं न कृष्णं न रक्तं न पीतं न कुब्जं न पीनं न ह्रस्वं न दीर्घम् । अरूपं तथा ज्योतिराकारकत्वात् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥६॥न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्चः । स्वरूपावबोधो विकल्पासहिष्णुः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥७॥न जाग्रन् न मे स्वप्नको वा सुषुप्तिः न विश्वौ न वा तैजसः प्राज्ञको वा । अविद्यात्मकत्वात् त्रयाणं तुरीयः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥८॥अपि व्यापकत्वात् हितत्वप्रयोगात्स्वतः सिद्धभावादनन्याश्रयत्वात् । जगत् तुच्छमेतत् समस्तं तदन्यत् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥९॥न चैकं तदन्यद् द्वितीयं कुतः स्यात् न केवलत्वं न चाऽकेवलत्वम् । न शुन्यं न चाशून्यमद्वैतकत्वात् कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥१०॥॥इति श्रीमद् शंकराचार्यविरचितं दशश्लोकी समाप्तं ॥ N/A References : Encoding by M। Giridhar Translation from "Vaidya N। Sundaram" Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP