संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः| मातृपञ्चकम् शंकराचार्यविरचितम् साहित्यः उपदेशसाहस्री अद्वैत पञ्चरत्नम् अद्वैतरसमञ्जरी अद्वैतानुभूति अनात्मश्रीविगर्हणम् अपरोक्षानुभूति अष्टादशशक्तिपीठ स्तोत्रम् आत्मबोधः आत्मषटक् कौपीन पंचकम् जीवन्मुक्तानन्दलहरी अथ दशश्लोकी निर्गुणमानसपूजा निर्वाणमञ्जरी पञ्चिकरणं प्रश्नोत्तररत्नमालिका प्रौढानुभूतिः ब्रह्मज्ञानावलीमाला ब्रह्मानुचिन्तनम् मठाम्नायमहानुशासनम् पुष्पमाला स्तवः मातृपञ्चकम् मायापञ्चकम् यतिपञ्चकम् योगतारावली वाक्यवृत्तिः साधन पञ्चकं मातृपञ्चकम् भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य मातृपञ्चकम् Translation - भाषांतर अथ श्री मातृपञ्चकम् ।मुक्तामणि त्वं नयनं ममेति राजेति जीवेति चिर सुत त्वम् । इत्युक्तवत्यास्तव वाचि मातः ददाम्यहं तण्डुलमेव शुष्कम् ॥१॥अंबेति तातेति शिवेति तस्मिन् प्रसूतिकाले यदवोच उच्चैः । कृष्णेति गोविन्द हरे मुकुन्द इति जनन्यै अहो रचितोऽयमञ्जलिः ॥२॥ आस्तं तावदियं प्रसूतिसमये दुर्वारशूलव्यथा नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी । एकस्यापि न गर्भभारभरणक्लेशस्य यस्याक्षमः दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥३॥गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः । गुरुकुलमथ सर्वं प्रारुदत्ते समक्षं सपदि चरणयोस्ते मातरस्तु प्रणामः ॥४॥न दत्तं मातस्ते मरणसमये तोयमपिवा स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना । न जप्त्वा मातस्ते मरणसमये तारकमनु-रकाले संप्राप्ते मयि कुरु दयां मातुरतुलाम् ॥५॥अथ श्री मातृपञ्चकम् ।मुक्तामणि त्वं नयनं मम इति राज इति जीव इति चिर सुत त्वम् । इत्युक्तवत्याः तव वाचि मातः ददामि अहं तण्डुलम् एव शुष्कम् ॥१॥अंबा इति तात इति।शिव इति तस्मिन् प्रसूतिकाले यदवोच उच्चैः । कृष्णेति गोविन्द हरे मुकुंद इति जनन्यै अहो रचितोऽयं अञ्जलिः ॥२॥आस्तं तावद् इयं प्रसूतिसमये दुर्वारशूलव्यथा नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी । एकस्यापि न गर्भभार भरण क्लेशस्य यस्य अक्षमः दातुं निष्कृतिं उन्नतोऽपि तनयः तस्यै जनन्यै नमः ॥३॥गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः । गुरुकुलमथ सर्वं प्रारुदत् ते समक्षं सपदि चरणयोस्ते मातरस्तु प्रणामः ॥४॥न दत्तं मातस्ते मरणसमये तोयमपिवा स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना । न जप्त्वा मातस्ते मरणसमये तारकमनुः अकाले संप्राप्ते मयि कुरु दयां मातुरतुलाम् ॥५॥इति श्रीमत् शङ्कराचार्य विरचितं मातृपञ्चकम् । N/A References :Encoded and translated by Darshan Bhatt Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP