संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः| जीवन्मुक्तानन्दलहरी शंकराचार्यविरचितम् साहित्यः उपदेशसाहस्री अद्वैत पञ्चरत्नम् अद्वैतरसमञ्जरी अद्वैतानुभूति अनात्मश्रीविगर्हणम् अपरोक्षानुभूति अष्टादशशक्तिपीठ स्तोत्रम् आत्मबोधः आत्मषटक् कौपीन पंचकम् जीवन्मुक्तानन्दलहरी अथ दशश्लोकी निर्गुणमानसपूजा निर्वाणमञ्जरी पञ्चिकरणं प्रश्नोत्तररत्नमालिका प्रौढानुभूतिः ब्रह्मज्ञानावलीमाला ब्रह्मानुचिन्तनम् मठाम्नायमहानुशासनम् पुष्पमाला स्तवः मातृपञ्चकम् मायापञ्चकम् यतिपञ्चकम् योगतारावली वाक्यवृत्तिः साधन पञ्चकं जीवन्मुक्तानन्दलहरी भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य जीवन्मुक्तानन्दलहरी Translation - भाषांतर पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान् सुवेषान्स्वर्णालङ्करणकलितांश्चित्रसदृशान् ।स्वयं साक्षाद्दृष्टेत्यपि च कलयंस्तैः सह रमन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१॥वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखान् घनच्छायाच्छन्नान्बहुलकलकूजद्द्विजगणान् ।भजन्घस्रोरात्रादवनितलकल्पैकशयनो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥२॥कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनां कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।कुटीरे दान्तानां मुनिजनवराणामपि वसन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥३॥क्वचिद्बालैः सार्धं करतलजतालैः सहसितैः क्वचित्तारुण्यालङ्कृतनरवधूभिः सह रमन् ।क्वचिद्वृद्धैश्चिन्ताकुलित हृदयैश्चापि विलपन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥४॥कदाचिद्विद्वद्भिर्विविदिषुभिरत्यन्तनिरतैः कदाचित्काव्यालंकृतिरसरसालैः कविवरैः ।कदाचित्सत्तर्कैर्रनुमितिपरस्तार्किकवरैर् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥५॥कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः सुगंधैः सत्पुष्पैः क्वचिदपि दलैरेव विमलः ।प्रकुर्वन्देवस्य प्रमुदितमनाः संनतिपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥६॥शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा गणाध्यक्षस्यापि प्रकटितवरस्यापि च कदा ।पठन्वै नामालिं नयनरचितानन्दसरितो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥७॥कदा गङ्गाम्भोभिः क्वचिदपि च कूपोत्थसलिलैः क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।भजन्स्नानं भूत्या क्वचिदपि च कर्पूरनिभया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥८॥कदाचिज्जागर्त्यां विषयकरणैः संव्यवहरन् कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् ।कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥९॥कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।मनस्वी निःसङ्गः सुजनहृदयानन्दजनको मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१०॥कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तिसुगत- स्तमोवृत्तिः क्वापि त्रितयरहितः क्वापि च पुनः ।कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥११॥कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः कदाचित्स्वानंदं हसितरभसस्त्यक्तवचनः।कदाचिल्लोकानां व्यवहृतिसमालोकनपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१२॥कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलं क्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।तदद्वैतं रूपं निजपरविहीनं प्रकटयन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१३॥क्वचिच्छैवैः सार्थं क्वचिदपि च शाक्तैः सह वसन् कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।कदा गाणापत्यैर्गतसकलभेदोऽद्वयतया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१४॥निराकारं क्वापि क्वचिदपि च साकारममलं निजं शैव रूपं विविधगुणभेदेन बहुधा ।कदाश्चर्यं पश्यन्किमिदमिति हृष्यन्नपि कदामुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१५॥कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं महावाक्यार्थानामवगतिसमभ्यासवशतः ।गतद्वैताभासः शिव शिव शिवेत्येव विलपन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१६॥इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा- सुधापाङ्गावाप्यां सहजसुखवाप्यामनुदिनम् ।मुहुर्मज्जन्मज्जन्भजति सुकृतैश्चेन्नरवरः तदा त्यागी योगी कविरिति वदन्तीह कवयः ॥१७॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ जीवन्मुक्तानन्दलहरी सम्पूर्णा ॥ N/A References : Encoded and roofread by Sunder Hattangadi sunderh at hotmail।com Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP