पञ्चिकरणं

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


 ॐ
श्रीमच्छंकराचार्यविरचितम् पञ्चीकरणम् ॐ पञ्चीकृतंपञ्चमहाभूतानि तत्कार्यं च सर्वं विराडित्युच्यते । एतत्स्थुलशरिरमात्मनः । ईन्द्रियैरर्थोपलब्धिर्जागरितम्  तदुभयाभिमान्यात्मा विश्वः । एतत् त्रयमकारः ॥१॥
अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्रणि तत्कार्यं च पञ्च प्राणाः दशेन्द्रियाणि मनोबुद्धिश्चेति सप्तदशकं लिंजम् भौतिकं हिरण्यगर्भ इत्युच्यते । एतत्सूक्ष्मशरिरमात्मनः ॥२॥
करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः सविषयः स्वप्न इत्युच्यते । यदुभयाभिमान्यात्मा तैजसः । एतत् त्रयमुकारः ॥३॥
शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । एतत् कारणशरीरमात्मनः । तच्च न सन्नासन्नापि सदसन्न भिन्नं नाभिन्नं नापि भिन्नाभिन्नं कुतश्चित् न निरवयवं न सावयवं नोभयं किंतु केवलब्रह्मात्मैकत्वज्ञानापनोद्यम् ॥४॥
सर्वप्रकारज्ञानोपसंहारे बुद्धेः कारणात्मनाऽवस्थानं सुषुप्तिः । तदुभयामिमान्यात्मा प्राज्ञः । एतत् त्रयम् मकारः ॥५॥
अकार उकारे उकारो मकारे मकार ओंकारे ओंकारोऽहम्येव । अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः नाज्ञानं नापि तत्कार्यं किंतु नित्यशुद्धबुद्धमुक्तसत्यस्भावं परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मै वाहमस्मीत्यभेदेनावस्थानं समाधिः ॥६॥
तत्त्वमसि ब्रह्महमस्मि प्रज्ञानमानन्दं ब्रह्म अयमात्मा ब्रह्म इत्यादिश्रुतिभ्यः ॥७॥
 इति पञ्चीकरणं भवति ॥
 इति श्रीशङ्कराचार्यविरचितं पञ्चीकरणम् ॥

 पञ्चीकरणवार्त्तिकम्
श्रीसुरेश्वराचार्यकृत
ओंकारः सर्ववेदानां सारस्तत्त्वप्रकाशकः । तेन चित्तसमाधानं मुमुक्षूणां प्रकाश्यते ॥१॥
आसीदेकं परं ब्रह्म नित्यमुक्तमवीक्रियम् । तत्स्वमायासमावेशाद् बीजमव्याकृतात्मकम् ॥२॥
तस्मादाकाशमुत्पन्नं शब्दतन्मात्ररूपकम् । स्पर्शात्मकस्ततो वायुस्तेजोरूपात्मकं ततः ॥३॥
आपो रसात्मिकास्तस्मात्ताभ्यो गन्धात्मिका महि । शब्दैकगुणमाकाशं शब्दस्पर्शगुणो मरूत् ॥४॥
शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज उच्यते । शब्दस्पर्शरूपरसगुणैरापश्चतुर्गुणाः ॥५॥
शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा मही । तेभ्यः समभवत्सूत्रं भूतं सर्वात्मकं महत् ॥६॥
ततः स्थूलानि भूतानि पञ्च तेभ्यो विराडभूत् । पञ्चीकृतानि भूतानि स्थूलानीत्युच्यते बुधैः ॥७॥
पृथिव्यादीनि भूतानि प्रत्येकं विभजेद् द्विधा । एकैकं भागमादाय चतुर्धा विभजेत्पुनः ॥८॥
एकैकं भागमेकस्मिन् भूते संवेशयेत्क्रमात् । ततश्चाकाशभूतस्य भागाः पञ्च भवन्ति हि ॥९॥
वाय्वादिभागाश्च्त्वारो वाय्वादिष्वेवमादिशेत् । पञ्चीकरणमेतत्स्यादित्यहुस्तत्त्ववेदिनः ॥१०॥
पञ्चकृतानि भूतानि तत्कार्यं च विराड् भवेत् । स्थूलं शरीरमेतत्स्यादशरीरस्य चात्मनः ॥११॥
अधिदैवतमध्यात्ममधिभूतमिति त्रिधा । एकं ब्रह्म विभागेन भ्रमाद्माति न तत्त्वत्तः ॥१२॥
इन्द्रियैरर्थविज्ञानं देवतानुग्रहान्तिवतैः । शब्दादिविषयं ज्ञानं तज्जागरितमुच्यते ॥१३॥
श्रोत्रमध्यात्ममित्युक्तं श्रोतव्यं शब्दलक्षणम् । अधिभूतं तदित्युक्तं दिशस्तत्राधिदैवतम् ॥१४॥
त्वगध्यात्ममिति प्रोक्तं स्प्रष्टव्यं स्पर्शलक्षणम् अधिभूतं तदित्युक्तं वायुस्तत्रधिदैवतम् ॥१५॥
चक्षुरध्यात्ममित्युक्तं द्रष्टव्यं रूपलक्षणम् । अधिभूतं तदित्युक्तमादित्योऽत्राधिदैवतम् ॥१६॥
जिह्वाऽध्यात्मं तयाऽस्वाद्यमाधिभूतं रसात्मकम् । वरूणो देवता तत्र जिह्वायामधिदैवतम् ॥१७॥
ध्राणमध्यात्ममित्युक्तं ध्रातव्यं गन्धलक्षणम् । अधिभूतं तदित्युक्तं पृथिव्यत्राधिदैवतम् ॥१८॥
वागध्यात्ममिति प्रोक्तं वक्त्वयं शब्दलक्षणम् । अधिभूतं तदित्युक्तमग्निस्तत्राधिदैवतम् ॥१९॥
हस्तावध्यात्ममित्युक्तमादातव्यं च यद्मवेत् । अधिभूतं तदित्य्युक्तमिन्द्रस्तत्राधिदैचतम् ॥२०॥
पादावध्यात्ममित्युक्तं गन्तव्यं तत्र यद्मवेत् । अधिभूतं तदित्युक्तं विष्णुस्तत्राधिदैवतम् ॥२१॥
पायुरिन्द्रियमध्यात्मं विसर्गस्तत्र यो भवेत् ।अधिभूतं तदित्युक्तम्ं मृत्युस्तत्राधिदैवतम् ॥२२॥
उपस्थेन्द्रियमध्यात्मं स्त्र्याद्यानन्दस्य कारणम् अदिभूतं तदित्युक्तमधिदैवं प्रजापतिः ॥२३॥
मनोऽध्यात्ममिति प्रोक्तं मन्तव्यं तत्र यद्मवेत् । अधिभूतं तदित्युक्तं चन्द्रस्तत्राधिदैवतम् ॥२४॥
बुद्धिरध्यात्ममित्युक्तं बोद्धव्यं तत्र यद्मवेत् । अधिभूतं तदित्युक्तमधिदैवं बृहस्पतिः ॥२५॥
अहंकारस्तथाऽध्यात्ममहंकर्तव्यमेव च । अधिभूतं तदित्युक्तं रूद्रस्तत्राधिदैवतम् ॥२६॥
चितमध्यात्ममित्युक्तं चेतव्यं तत्र यद्मवेत् । अधिभूतं तदित्युक्तं क्षेत्रज्ञोऽत्राअधिदैवतम् ॥२७॥
तमोऽध्यात्ममत्मिति प्रोक्तं विकारस्तत्र यो भवेत् । अधिभूतं तदित्युक्तमीश्वरोऽत्राधिदैवतम् ॥२८॥
बाह्यान्तःकरणैरेवं देवतानुग्रहान्वितैः । स्वं स्वं च विष्यज्ञानं तज्जागरितमुच्यते ॥२९
येयं जागरितावस्था शरीरं करणाश्रयम् । यस्तयोरभिमानी स्यद्विश्व इत्यभिधीयते ॥३०॥
विश्वं वैराजरूपेण पश्येद्मेदनिवृत्तये । ज्ञानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ॥३१॥
श्रोत्रत्वङ्नयनघ्राणजिह्वा धीन्द्रियपञ्चकम् । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियपञ्चकम् ॥३२॥
मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् । संकल्पारव्यं मनोरूपं बुद्धिर्निश्चयरूपिणी ॥३३॥
अभिमानाअत्मकस्तद्वदहंकारः प्रकीर्तितः । अनुसंधानरूपम्ं च चित्तमित्यभिधीयते ॥३४॥
प्राणोऽपानस्तथा व्यान उदानारव्यस्तथैव च । समानश्चेति पञ्चैताः किर्तिताः प्रणवृत्तयः ॥३५॥
खवाव्यग्न्यम्बुक्षितयो भूतसूक्ष्माणि पञ्च च । अविद्याकामकर्माणि लिङ्गं पुयेष्टकं विदुः ॥३६॥
एतत्सूक्ष्मशरीरं स्यान्मायिकं प्रात्यगात्मनः । करणोपरमे जाग्रत्संकारोत्थं प्रबोधवत् ॥३७॥
ग्राह्यग्राहकरूपेण स्फुरणं स्वप्न उच्यते । अभिमानी तयोर्यस्तु तैजसः परिकीर्तितः ॥३८॥
हिरण्यगर्भरूपेण तैजसं चिन्तयेद् बुधः । चैतन्याभासखचितं शरीरद्वयकारणम् ॥३९॥
आत्माज्ञानं तदव्यक्तमव्याकृतमितीर्यते । न सन्नासन्न सदसद्मिन्नाभिन्नं न चात्मनः ॥४०॥
न सभागं न निर्भागं न चाप्युभयरूपकम् । ब्रह्मात्मैकत्वविज्ञानहेयं मिथ्यात्वकारणात् ॥४१॥
ज्ञानानामुपसंहारो बुद्वेः करणतास्थितिः । वटबीजे वटस्येव सुषुप्तिरभिधीयते ॥४२॥
अभिमानी तयोर्यस्तु प्राज्ञ इत्यभिधीयते । जगत्कारणरूपेण प्राज्ञात्मानं विचिन्तयेत् ॥४३॥
विश्वतैजससौषुप्त विराट् सूत्राक्षरात्मभिः । विभिन्नमिव संमोहादेकं तत्त्वं चिदात्मकम् ॥४४॥
विश्वादिकत्रयं यस्माद्वैराजादित्रयात्मकम् । एकत्वेनैव संपश्येदन्याभावप्रसिद्धये ॥४५॥
ॐकारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् । वाच्यवाचकताभेदाद्मे देनानुपलाब्धितः ॥४६॥
अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः । प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ॥४७॥
समाधिकालात्प्रगेवं विचिन्त्यातिप्रयत्नतः । स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ॥४८॥
अकारं पुरूषं विश्वमुकारे प्रविलापयेत् । उकारं तैजसं सूक्ष्मं मकारे प्रविलापयेत् ॥४९॥
मकारं करणं प्राज्ञं चिदात्मनि विलापयेत् । चिदात्माऽहं नित्यशुद्धबुद्धमुक्तसदद्वयः ॥५०॥
परमानन्दसंदोहवासुदेवोऽहमोमिति । ज्ञात्वा विवेचकं चित्तं तत्साक्षिणि विलापयेत् ॥५१॥
चिदात्मनि विलीनं चेत्तच्चित्तं नैव चालयेत् । पूर्णबोधात्मनाऽसीत पूर्णाचलसमुद्रवत् ॥५२॥
एवं समाहितो योगी श्रद्धभक्तिसमन्वितः । जितेन्द्रियो जितक्रोधः पश्येदात्मानमद्वयम् ॥५३॥
आदिमध्यावसानेषु दुःखं सर्वमिदं यतः । तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवेत्सदा ॥५४॥
यः पश्येत्सर्वगं शान्तमानन्दात्मानमद्वयम् । न तेन किंचिदाप्तत्यं ज्ञातव्यं वावशिष्यते ॥५५॥
कृतकृत्यो भवेद्विद्वाञ्जीवन्मुक्तो भवेत्सदा । आत्मन्येवारूढभावो जगदेतन्न वीक्षते ॥५६॥
कदाचिदव्यवहारे तु द्वैतं यद्यपि पश्यति । बोधात्मव्यतिरेकेण न पश्यति चिदन्वयात् ॥५७॥
किन्तु पश्यति मिथयैव दिङ् मोहेन्दुविभागवत् । प्रतिभासः शरीरस्य तदाऽप्रारब्धसंक्षयात् ॥५८॥
तस्य तावदेव चिरमित्यादि श्रुतिरब्रवीत् । प्रारब्धस्यानुवृत्तिस्तु मुक्तस्याभासमात्रतः ॥५९॥
सर्वदा मुक्त एव स्याज्ज्ञाततत्त्वः पुमानसौ । प्रारब्धभोगशेषस्यसंक्षये तदनन्तरम् ॥६०॥
अविद्यातिमिरातीतं सर्वाभासविवर्जितम् । चितन्यममलं शुद्धं मनोवाचामगोचरम् ॥६१॥
वाच्यवाचकनिर्मुक्तं हेयोपादेयवर्जितम् । प्रज्ञानघनमानन्दं वैष्णवं पदमश्नुते ॥६२॥
इदं प्रकरणं यत्नाज्ज्ञातव्यं भगवत्तमैः । अमानित्वादिनियमैर्गुरूभक्तिप्रसादतह् ॥६३॥
इमां विद्यां प्रयत्नेन योगी संध्यासु सर्वदा ।
समभ्यसेदिहामुत्रभोगानासक्तधीः सुधीः ॥६४॥
इति श्रीमत्सुरेश्वराचार्यविरचितं पञ्चीकरणवार्त्तिकं संपूर्णम् ॥

N/A

References :
Encoded and roofread by Dhru Chand
proofread by Sunder Hattangadi and David Lyttle

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP