संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः| अद्वैत पञ्चरत्नम् शंकराचार्यविरचितम् साहित्यः उपदेशसाहस्री अद्वैत पञ्चरत्नम् अद्वैतरसमञ्जरी अद्वैतानुभूति अनात्मश्रीविगर्हणम् अपरोक्षानुभूति अष्टादशशक्तिपीठ स्तोत्रम् आत्मबोधः आत्मषटक् कौपीन पंचकम् जीवन्मुक्तानन्दलहरी अथ दशश्लोकी निर्गुणमानसपूजा निर्वाणमञ्जरी पञ्चिकरणं प्रश्नोत्तररत्नमालिका प्रौढानुभूतिः ब्रह्मज्ञानावलीमाला ब्रह्मानुचिन्तनम् मठाम्नायमहानुशासनम् पुष्पमाला स्तवः मातृपञ्चकम् मायापञ्चकम् यतिपञ्चकम् योगतारावली वाक्यवृत्तिः साधन पञ्चकं अद्वैत पञ्चरत्नम् भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य अद्वैत पञ्चरत्नम् Translation - भाषांतर ॥श्रीः ॥नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहङ्कारः प्राणवर्गो न बुद्धिः । दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥१॥रज्ज्वज्ञानाद्भाति रज्जौ यथाहि स्वात्माज्ञानादात्मनो जीवभावः । आप्तोक्त्याऽहिभ्रान्तिनाशो स रज्जु-र्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥२॥आभातीदं विश्वमात्मन्यसत्यम् सत्यज्ञानानन्दरूपे विमोहात् । निद्रामोहात्स्वप्नवत्तन्न सत्यम् शुद्धः पूर्णो नित्य एकः शिवोऽहम् ॥३॥नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताः सर्वधर्माः । कर्तृत्वादिश्चिन्मयस्यास्ति नाहं-कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥४॥मत्तो नान्यत्किञ्चिदत्रास्ति विश्वं सत्यं बाह्यं वस्तु मायोपक्लृप्तम् । आदर्शान्तर्भासमानस्य तुल्यं मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥५॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस् श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ अद्वैत पञ्चरत्नं सम्पूर्णम् ॥ N/A References : Encoded by LakShmi MuthuswamyProofread by LakShmi Muthuswamy and S। Hattangadi Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP