मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र| ॥ध्यानम् ॥ माणिक्यवीणामु... दशमहाविद्या स्तोत्र ॐ नम आद्यायै । शृणु वत्स ... भवानि स्तोतुं त्वां प्रभव... ओंकाररूपिणी देवि विशुद्धस... ॐ श्रीगुरवे नमः । ॐ नमः प... ॥श्रीः॥ कल्याणवृष्टिभिरिव... श्री गणेशाय नमः । महाकाल ... श्रीमत्सुन्दरपूर्विहाररसि... श्रीगणेशाय नमः । श्रीपार्... श्रीगणेशाय नमः । श्रीभैरव... आनन्दभैरवी उवाच अथ वक्ष्य... श्रीगणेशाय नमः । मातर्नील... कञ्जमनोहर पादचलन्मणि नूपु... श्रीसेव्य-पादकमले श्रित-च... ॐ नमस्ते चण्डिके चण्डि चण... घोररूपे महारावे सर्वशत्रु... चलत्कनककुण्डलोल्लसितचारुग... प्रातः स्मरामि भुवना-सुवि... ॐ श्री ललिता महात्रिपुरसु... ह्रींकाराङ्कणदीपिकां श्रि... ॐ ह्रीं श्रीं क्लीं सर्वप... श्रीमत् कमलापुर कनकधराधरव... त्यागराजविरचितः या त्रैलो... कल्याणायुतपूर्णचन्द्रवदना... ॐ हृन्मध्यनिलये देवि ललित... ककाररूपा कल्याणी कल्याणगु... ॐ ऐं ह्रीं श्रीं ॐ ककाररू... प्रातः स्मरामि ललितावदनार... ॥श्री ललितास्तवरत्न पाराय... श्रीललिताम्बिकायै नमः । द... ॥ध्यानम् ॥ माणिक्यवीणामु... ओङ्कारपंजरशुकीमुपनिषदुद्य... श्रीगौडपादाचार्यकृतं ॥ अथ... या माता सदसद्विलक्षणपरासं... सौन्दर्यलहरी श्यामला दण्डकम् - ॥ध्यानम् ॥ माणिक्यवीणामु... सती पार्वतीची दहा रूपे - काली, तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी. Tags : dashamahavidyagodgoddessprayerstotraदशमहाविद्यादेवतादेवी श्यामला दण्डकम् कालिदास विरचितम् Translation - भाषांतर ॥ध्यानम् ॥माणिक्यवीणामुपलालयन्तींमदालसां मञ्जुलवाग्विलासाम् ।माहेन्द्रनीलद्युतिकोमलाङ्गींमातङ्गकन्यां मनसा स्मरामि ॥१॥चतुर्भुजे चन्द्रकलावतंसेकुचोन्नते कुङ्कुमरागशोणे ।पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-हस्ते नमस्ते जगदेकमातः ॥२॥ ॥विनियोगः ॥माता मरकतश्यामा मातङ्गी मदशालिनी ।कुर्यात् कटाक्षं कल्याणी कदंबवनवासिनी ॥३॥ ॥स्तुति ॥जय मातङ्गतनये जय नीलोत्पलद्युते ।जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥४॥ ॥दण्डकम् ॥जय जननि सुधासमुद्रान्तरुद्यन्मणीद्वीपसंरूढ् -बिल्वाटवीमध्यकल्पद्रुमाकल्पकादंबकान्तारवासप्रियेकृत्तिवासप्रिये सर्वलोकप्रियेसादरारब्धसंगीतसंभावनासंभ्रमालोल-नीपस्रगाबद्धचूलीसनाथत्रिके सानुमत्पुत्रिकेशेखरीभूतशीतांशुरेखामयूखावलीबद्ध-सुस्निग्धनीलालकश्रेणिशृङ्गारिते लोकसंभावितेकामलीलाधनुस्सन्निभभ्रूलतापुष्पसन्दोहसन्देहकृल्लोचनेवाक्सुधासेचने चारुगोरोचनापङ्ककेलीललामाभिरामे सुरामे रमेप्रोल्लसद्ध्वालिकामौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासिलावण्यगण्डस्थलन्यस्तकस्तूरिकापत्ररेखासमुद्भूतसौरभ्य-संभ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मन्द्रतन्त्रीस्वरेसुस्वरे भास्वरेवल्लकीवादनप्रक्रियालोलतालीदलाबद्ध-ताटङ्कभूषाविशेषान्विते सिद्धसम्मानितेदिव्यहालामदोद्वेलहेलालसच्चक्षुरान्दोलनश्रीसमाक्षिप्तकर्णैक-नीलोत्पले श्यामले पूरिताशेषलोकाभिवाञ्छाफले श्रीफलेस्वेदबिन्दूल्लसद्फाललावण्य निष्यन्दसन्दोहसन्देहकृन्नासिकामौक्तिकेसर्वविश्वात्मिके सर्वसिद्ध्यात्मिके कालिके मुग्द्धमन्दस्मितोदारवक्त्र-स्फुरत् पूगताम्बूलकर्पूरखण्डोत्करे ज्ञानमुद्राकरे सर्वसंपत्करेपद्मभास्वत्करे श्रीकरेकुन्दपुष्पद्युतिस्निग्धदन्तावलीनिर्मलालोलकल्लोलसम्मेलनस्मेरशोणाधरे चारुवीणाधरे पक्वबिंबाधरेसुललित नवयौवनारंभचन्द्रोदयोद्वेललावण्यदुग्धार्णवाविर्भवत्कम्बुबिम्बोकभृत्कन्थरे सत्कलामन्दिरे मन्थरेदिव्यरत्नप्रभाबन्धुरच्छन्नहारादिभूषासमुद्योतमानानवद्याङ्ग-शोभे शुभेरत्नकेयूररश्मिच्छटापल्लवप्रोल्लसद्दोल्लताराजिते योगिभिःपूजिते विश्वदिङ्मण्डलव्याप्तमाणिक्यतेजस्स्फुरत्कङ्कणालंकृतेविभ्रमालंकृते साधुभिः पूजिते वासरारंभवेलासमुज्जृम्भमाणारविन्दप्रतिद्वन्द्विपाणिद्वये सन्ततोद्यद्दये अद्वयेदिव्यरत्नोर्मिकादीधितिस्तोमसन्ध्यायमानाङ्गुलीपल्लवोद्यन्नखेन्दुप्रभामण्डले सन्नुताखण्डले चित्प्रभामण्डले प्रोल्लसत्कुण्डलेतारकाराजिनीकाशहारावलिस्मेर चारुस्तनाभोगभारानमन्मध्य-वल्लीवलिच्छेद वीचीसमुद्यत्समुल्लाससन्दर्शिताकारसौन्दर्यरत्नाकरेवल्लकीभृत्करे किङ्करश्रीकरेहेमकुंभोपमोत्तुङ्ग वक्षोजभारावनम्रे त्रिलोकावनम्रेलसद्वृत्तगंभीर नाभीसरस्तीरशैवालशङ्काकरश्यामरोमावलीभूषणेमञ्जुसंभाषणेचारुशिञ्चत्कटीसूत्रनिर्भत्सितानङ्गलीलधनुश्शिञ्चिनीडंबरेदिव्यरत्नाम्बरेपद्मरागोल्लस न्मेखलामौक्तिकश्रोणिशोभाजितस्वर्णभूभृत्तलेचन्द्रिकाशीतले विकसितनवकिंशुकाताम्रदिव्यांशुकच्छन्नचारूरुशोभापराभूतसिन्दूरशोणायमानेन्द्रमातङ्गहस्मार्ग्गले वैभवानर्ग्गले श्यामले कोमलस्निग्द्धनीलोत्पलोत्पादितानङ्गतूणीरशङ्काकरोदारजंघालते चारुलीलागते नम्रदिक्पालसीमन्तिनीकुन्तलस्निग्द्धनीलप्रभापुञ्चसञ्जातदुर्वाङ्कुराशङ्कसारंगसंयोगरिंखन्नखेन्दूज्ज्वले प्रोज्ज्वलेनिर्मले प्रह्व देवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाशदैत्येश यक्षेश वाय्वग्निकोटीरमाणिक्य संहृष्टबालातपोद्दाम--लाक्षारसारुण्यतारुण्य लक्ष्मीगृहिताङ्घ्रिपद्म्मे सुपद्मे उमेसुरुचिरनवरत्नपीठस्थिते सुस्थितेरत्नपद्मासने रत्नसिम्हासने शङ्खपद्मद्वयोपाश्रिते विश्रुतेतत्र विघ्नेशदुर्गावटुक्षेत्रपालैर्युते मत्तमातङ्गकन्यासमूहान्विते भैरवैरष्टभिर्वेष्टितेमञ्चुलामेनकाद्यङ्गनामानिते देवि वामादिभिः शक्तिभिस्सेवितेधात्रि लक्ष्म्यादिशक्त्यष्टकैः संयुते मातृकामण्डलैर्मण्डितेयक्षगन्धर्वसिद्धाङ्गना मण्डलैरर्चितेभैरवी संवृते पञ्चबाणात्मिके पञ्चबाणेन रत्या चसंभाविते प्रीतिभाजा वसन्तेन चानन्दिते भक्तिभाजं परं श्रेयसेकल्पसे योगिनां मानसे द्योतसे छन्दसामोजसा भ्राजसे गीतविद्याविनोदाति तृष्णेन कृष्णेन संपूज्यसे भक्तिमच्चेतसा वेधसास्तूयसे विश्वहृद्येन वाद्येन विद्याधरैर्गीयसेश्रवणहरदक्षिणक्वाणया वीणया किन्नरैर्गीयसेयक्षगन्धर्वसिद्धाङ्गना मण्डलैरर्च्यसेसर्वसौभाग्यवाञ्छावतीभिर् वधूभिस्सुराणां समाराध्यसेसर्वविद्याविशेषत्मकं चाटुगाथा समुच्चारणाकण्ठमूलोल्लसद्-वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसेपाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं var मालागुणपुस्तकञ्चङ्कुशं पाशमाबिभ्रती तेन सञ्चिन्त्यसे तस्यवक्त्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत् येन वाध्वंसनादाकृतिर्भाव्यसे तस्य वश्या भवन्तिस्तियः पूरुषाः येन वाशातकंबद्युतिर्भाव्यसे सोपि लक्ष्मीसहस्रैः परिक्रीडतेकिन्न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितंतावकं ध्यायतः तस्य लीला सरोवारिधीः तस्य केलीवनंनन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किङ्करितस्य चाज्ञाकरी श्री स्वयंसर्वतीर्थात्मिके सर्व मन्त्रात्मिकेसर्व यन्त्रात्मिके सर्व तन्त्रात्मिकेसर्व चक्रात्मिके सर्व शक्त्यात्मिकेसर्व पीठात्मिके सर्व वेदात्मिकेसर्व विद्यात्मिके सर्व योगात्मिकेसर्व वर्णात्मिके सर्वगीतात्मिकेसर्व नादात्मिके सर्व शब्दात्मिकेसर्व विश्वात्मिके सर्व वर्गात्मिकेसर्व सर्वात्मिके सर्वगे सर्व रूपेजगन्मातृके पाहि मां पाहि मां पाहि मांदेवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमोदेवि तुभ्यं नमः॥इति श्यामला दण्डकम् सम्पूर्णम् ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP