मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र| ॥श्रीः॥ कल्याणवृष्टिभिरिव... दशमहाविद्या स्तोत्र ॐ नम आद्यायै । शृणु वत्स ... भवानि स्तोतुं त्वां प्रभव... ओंकाररूपिणी देवि विशुद्धस... ॐ श्रीगुरवे नमः । ॐ नमः प... ॥श्रीः॥ कल्याणवृष्टिभिरिव... श्री गणेशाय नमः । महाकाल ... श्रीमत्सुन्दरपूर्विहाररसि... श्रीगणेशाय नमः । श्रीपार्... श्रीगणेशाय नमः । श्रीभैरव... आनन्दभैरवी उवाच अथ वक्ष्य... श्रीगणेशाय नमः । मातर्नील... कञ्जमनोहर पादचलन्मणि नूपु... श्रीसेव्य-पादकमले श्रित-च... ॐ नमस्ते चण्डिके चण्डि चण... घोररूपे महारावे सर्वशत्रु... चलत्कनककुण्डलोल्लसितचारुग... प्रातः स्मरामि भुवना-सुवि... ॐ श्री ललिता महात्रिपुरसु... ह्रींकाराङ्कणदीपिकां श्रि... ॐ ह्रीं श्रीं क्लीं सर्वप... श्रीमत् कमलापुर कनकधराधरव... त्यागराजविरचितः या त्रैलो... कल्याणायुतपूर्णचन्द्रवदना... ॐ हृन्मध्यनिलये देवि ललित... ककाररूपा कल्याणी कल्याणगु... ॐ ऐं ह्रीं श्रीं ॐ ककाररू... प्रातः स्मरामि ललितावदनार... ॥श्री ललितास्तवरत्न पाराय... श्रीललिताम्बिकायै नमः । द... ॥ध्यानम् ॥ माणिक्यवीणामु... ओङ्कारपंजरशुकीमुपनिषदुद्य... श्रीगौडपादाचार्यकृतं ॥ अथ... या माता सदसद्विलक्षणपरासं... सौन्दर्यलहरी कल्याणवृष्टिस्तवः - ॥श्रीः॥ कल्याणवृष्टिभिरिव... सती पार्वतीची दहा रूपे - काली, तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी. Tags : dashamahavidyagodgoddessprayerstotraदशमहाविद्यादेवतादेवी कल्याणवृष्टिस्तवः Translation - भाषांतर ॥श्रीः॥कल्याणवृष्टिभिरिवामृतपूरिताभि- र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।सेवाभिरम्ब तव पादसरोजमूलेनाकारि किं मनसि भाग्यवतां जनानाम् ॥१॥एतावदेव जननि स्पृहणीयमास्तेत्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।सांनिध्यमुद्यदरुणायुतसोदरस्यत्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥२॥ईशत्वनामकलुषाः कति वा न सन्तिब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।एकः स एव जननि स्थिरसिद्धिरास्तेयः पादयोस्तव सकृत्प्रणतिं करोति ॥३॥लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनंकारुण्यकन्दलितकान्तिभरं कटाक्षम् ।कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजःसंमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥४॥ह्रींकारमेव तव नाम गृणन्ति वेदामातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।त्वत्संस्मृतौ यमभटाभिभवं विहायदिव्यन्ति नन्दनवने सह लोकपालैः ॥५॥हन्तुः पुरामधिगलं परिपीयमानःक्रूरः कथं न भविता गरलस्य वेगः ।नाश्वासनाय यदि मातरिदं तवार्धंदेहस्य शश्वदमृताप्लुतशीतलस्य ॥६॥सर्वज्ञतां सदसि वाक्पटुतां प्रसूतेदेवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।किं च स्फुरन्मकुटमुज्ज्वलमातपत्रंद्वे चामरे च महतीं वसुधां ददाति ॥७॥कल्पद्रुमैरभिमतप्रतिपादनेषुकारुण्यवारिधिभिरम्ब भवात्कटाक्षैः ।आलोकय त्रिपुरसुन्दरि मामनाथंत्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥८॥हन्तेतरेष्वपि मनांसि निधाय चान्येभक्तिं वहन्ति किल पामरदैवतेषु ।त्वामेव देवि मनसा समनुस्मरामित्वामेव नौमि शरणं जननि त्वमेव ॥९॥लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना- मालोकय त्रिपुरसुन्दरि मां कदाचित् ।नूनं मया तु सदृशः करुणैकपात्रंजातो जनिष्यति जनो न च जायते वा ॥१०॥ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यांकिं नाम दुर्लभमिह त्रिपुराधिवासे ।मालाकिरीटमदवारणमाननीयातान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥११॥संपत्कराणि सकलेन्द्रियनन्दनानिसाम्राज्यदाननिरतानि सरोरुहाक्षि ।त्वद्वन्दनानि दुरिताहरणोद्यतानिमामेव मातरनिशं कलयन्तु नान्यम् ॥१२॥कल्पोपसंहृतिषु कल्पितताण्डवस्यदेवस्य खण्डपरशोः परभैरवस्य ।पाशाङ्कुशैक्षवशरासनपुष्पबाणासा साक्षिणी विजयते तव मूर्तिरेका ॥१३॥लग्नं सदा भवतु मातरिदं तवार्धंतेजः परं बहुलकुङ्कुमपङ्कशोणम् ।भास्वत्किरीटममृतांशुकलावतंसंमध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥१४॥ह्रींकारमेव तव नाम तदेव रूपंत्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति ।त्वत्तेजसा परिणतं वियदादिभूतंसौख्यं तनोति सरसीरुहसंभवादेः ॥१५॥ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितंस्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।तस्य क्षोणिभुजो भवन्ति वश्गा लक्ष्मीश्चिरस्थायिनीवाणी निर्मलसूक्तिभारभारिता जागर्ति दीर्घं वयः ॥१६॥इति श्रीमत्परमहंसपरिव्रजकाचार्यस्यश्रिगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छंकरभगवतः कृतौकल्याणवृष्टिस्तवः संपूर्णः॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP