मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र| ॐ नमस्ते चण्डिके चण्डि चण... दशमहाविद्या स्तोत्र ॐ नम आद्यायै । शृणु वत्स ... भवानि स्तोतुं त्वां प्रभव... ओंकाररूपिणी देवि विशुद्धस... ॐ श्रीगुरवे नमः । ॐ नमः प... ॥श्रीः॥ कल्याणवृष्टिभिरिव... श्री गणेशाय नमः । महाकाल ... श्रीमत्सुन्दरपूर्विहाररसि... श्रीगणेशाय नमः । श्रीपार्... श्रीगणेशाय नमः । श्रीभैरव... आनन्दभैरवी उवाच अथ वक्ष्य... श्रीगणेशाय नमः । मातर्नील... कञ्जमनोहर पादचलन्मणि नूपु... श्रीसेव्य-पादकमले श्रित-च... ॐ नमस्ते चण्डिके चण्डि चण... घोररूपे महारावे सर्वशत्रु... चलत्कनककुण्डलोल्लसितचारुग... प्रातः स्मरामि भुवना-सुवि... ॐ श्री ललिता महात्रिपुरसु... ह्रींकाराङ्कणदीपिकां श्रि... ॐ ह्रीं श्रीं क्लीं सर्वप... श्रीमत् कमलापुर कनकधराधरव... त्यागराजविरचितः या त्रैलो... कल्याणायुतपूर्णचन्द्रवदना... ॐ हृन्मध्यनिलये देवि ललित... ककाररूपा कल्याणी कल्याणगु... ॐ ऐं ह्रीं श्रीं ॐ ककाररू... प्रातः स्मरामि ललितावदनार... ॥श्री ललितास्तवरत्न पाराय... श्रीललिताम्बिकायै नमः । द... ॥ध्यानम् ॥ माणिक्यवीणामु... ओङ्कारपंजरशुकीमुपनिषदुद्य... श्रीगौडपादाचार्यकृतं ॥ अथ... या माता सदसद्विलक्षणपरासं... सौन्दर्यलहरी दशमहाविद्यास्तोत्रम् - ॐ नमस्ते चण्डिके चण्डि चण... सती पार्वतीची दहा रूपे - काली, तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी. Tags : dashamahavidyagodgoddessprayerstotraदशमहाविद्यादेवतादेवी दशमहाविद्यास्तोत्रम् Translation - भाषांतर ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि ।नमस्ते कालिके कालमहाभयविनाशिनि ॥१॥शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे ।प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥२॥जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् ।करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥३॥हरार्चितां हराराध्यां नमामि हरवल्लभाम् ।गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥४॥हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् ।सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ॥५॥मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ।प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ॥६॥उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् ।नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥७॥श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् ।प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥८॥विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् ।आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ॥९॥श्रीं दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् ।प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥१०॥त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् ।शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥११॥सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् ।नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥१२॥सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् ।सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ॥१३॥विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् ।महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥१४॥प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् ।रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ॥१५॥भैरवीं भुवनां देवीं लोलजिव्हां सुरेश्वरीम् ।चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥१६॥त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् ।अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ॥१७॥कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम् ।षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥१८॥सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् ।प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ॥१९॥इत्येवञ्च वरारोहे स्तोत्रं सिद्धिकरं परम् ।पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ॥२०॥इति दशमहाविद्यास्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP