मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र| कल्याणायुतपूर्णचन्द्रवदना... दशमहाविद्या स्तोत्र ॐ नम आद्यायै । शृणु वत्स ... भवानि स्तोतुं त्वां प्रभव... ओंकाररूपिणी देवि विशुद्धस... ॐ श्रीगुरवे नमः । ॐ नमः प... ॥श्रीः॥ कल्याणवृष्टिभिरिव... श्री गणेशाय नमः । महाकाल ... श्रीमत्सुन्दरपूर्विहाररसि... श्रीगणेशाय नमः । श्रीपार्... श्रीगणेशाय नमः । श्रीभैरव... आनन्दभैरवी उवाच अथ वक्ष्य... श्रीगणेशाय नमः । मातर्नील... कञ्जमनोहर पादचलन्मणि नूपु... श्रीसेव्य-पादकमले श्रित-च... ॐ नमस्ते चण्डिके चण्डि चण... घोररूपे महारावे सर्वशत्रु... चलत्कनककुण्डलोल्लसितचारुग... प्रातः स्मरामि भुवना-सुवि... ॐ श्री ललिता महात्रिपुरसु... ह्रींकाराङ्कणदीपिकां श्रि... ॐ ह्रीं श्रीं क्लीं सर्वप... श्रीमत् कमलापुर कनकधराधरव... त्यागराजविरचितः या त्रैलो... कल्याणायुतपूर्णचन्द्रवदना... ॐ हृन्मध्यनिलये देवि ललित... ककाररूपा कल्याणी कल्याणगु... ॐ ऐं ह्रीं श्रीं ॐ ककाररू... प्रातः स्मरामि ललितावदनार... ॥श्री ललितास्तवरत्न पाराय... श्रीललिताम्बिकायै नमः । द... ॥ध्यानम् ॥ माणिक्यवीणामु... ओङ्कारपंजरशुकीमुपनिषदुद्य... श्रीगौडपादाचार्यकृतं ॥ अथ... या माता सदसद्विलक्षणपरासं... सौन्दर्यलहरी श्रीराजराजेश्वरी मन्त्रमातृकास्तवः - कल्याणायुतपूर्णचन्द्रवदना... सती पार्वतीची दहा रूपे - काली, तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी. Tags : dashamahavidyagodgoddessprayerstotraदशमहाविद्यादेवतादेवी श्रीराजराजेश्वरी मन्त्रमातृकास्तवः Translation - भाषांतर कल्याणायुतपूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीम्पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१॥एकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणीम्चैतन्यात्मकचक्रराजनिलयां चन्द्रान्तसञ्चारिणीम् ।भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥२॥ईहाधिक्परयोगिवृन्दविदितां स्वानन्दभूतां पराम्पश्यन्तीं तनुमध्यमां विलसिनीं श्रीवैखरीरूपिणीम् ।आत्मानात्मविचारिणीं विवरगां विद्यां त्रिबीजात्मिकाम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥३॥लक्ष्यालक्ष्यनिरीक्षणां निरुपमां रुद्राक्षमालाधराम्त्र्यक्षार्धाकृतिदक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् ।भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥४॥ह्रींबीजागतनादबिन्दुभरितां ओङ्कारनादात्मिकाम्ब्रह्मानन्दघनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् ।ज्ञानेच्छाक्रितिनीं महीं गतवतीं गन्धर्वसंसेविताम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥५॥हर्षोन्मत्तसुवर्णपात्रभरितां पीनोन्नताघूर्णिताम्हुङ्कारप्रियशब्दजालनिरतां सारस्वतोल्लासिनीम् ।सारासारविचारचारुचतुरां वर्णाश्रमाकारिणीम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥६॥सर्वेशाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनीम्संयोगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम् ।सर्वान्तर्गतशालिनीं शिवतनूसन्दीपिनीं दीपिनीम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥७॥कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीम्कारुण्याम्बुधिसर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् ।पञ्चब्रह्मसनातनासनगतां गेयां सुयोगान्विताम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥८॥हस्त्युत्कुम्भनिभस्तनद्वितयतः पीनोन्नतादानताम्हाराद्याभरणां सुरेन्द्रविनुतां शृङ्गारपीठालयाम् ।योन्याकारकयोनिमुद्रितकरां नित्यां नवार्णात्मिकाम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥९॥लक्ष्मीलक्षणपूर्णभक्तवरदां लीलाविनोदस्थिताम्लाक्षारञ्जितपादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् ।लोकालोकितलोककामजननीं लोकाश्रयाङ्कस्थिताम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१०॥ह्रीङ्काराश्रितशङ्करप्रियतनुं श्रीयोगपीठेश्वरीम्माङ्गल्यायुतपङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् ।तारुण्येन विशेषिताङ्गसुमहालावण्यसंशोभिताम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥११॥सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगाम्सत्यां सर्वमयीं सहस्रदलगां सत्वार्णवोपस्थिताम् ।सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभाम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१२॥कादिक्षान्तसुवर्णबिन्दुसुतनुं सर्वाङ्गसंशोभिताम्नानावर्णविचित्रचित्रचरितां चातुर्यचिन्तामणिम् ।चित्तानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१३॥लक्ष्मीशानविधीन्द्रचन्द्रमकुटाद्यष्टाङ्गपीठश्रिताम्सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् ।गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गाङ्गेशप्रियाम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१४॥ह्रींकूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीम्वामाराध्यपदाम्बुजां सुकुलजां बीजावतीं मुद्रिणीम् ।कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीत्रिमूर्त्यम्बिकाम्श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१५॥या विद्या शिवकेशवादिजननी या वै जगन्मोहिनीया ब्रह्मादिपिपीलिकान्तजगदानन्दैकसन्दायिनी ।या पञ्चप्रणवद्विरेफनलिनी या चित्कलामालिनीसा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥१६॥॥भगवती सर्वात्मिका श्रीराजराजेश्वरी पादारविन्दार्पणमस्तु ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP