हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
अथ अर्गलम्

कालीतंत्र - अथ अर्गलम्

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


अथ अर्गलम्

ॐ नमस्ते कालिके देवि आद्यबीजत्रय प्रिये ।
वशमानय मे नित्यं सर्वेषां प्राणिनां सदा ॥
कूर्च्चयुग्मं ललाटे च स्थातु मे शववाहिना ।
सर्वसौभाग्यसिद्धिं च देहि दक्षिण कालिके ॥
भुवनेश्वरि बीजयुग्मं भ्रू युगे मुण्डमालिनी ।
कन्दर्परूपं मे देहि महाकालस्य गेहिनि ॥
दक्षिणे कालिके नित्ये पितृकाननवासिनि ।
नेत्रयुग्मं च मे देहि ज्योतिरालेपनं महत् ॥
श्रवणे च पुनर्लज्जाबीजयुग्मं मनोहरम् ।
महाश्रुतिधरत्वं च मे देहि मुक्त कुन्तले ॥
ह्नीं ह्नीं बीजद्वयं देवि पातु नासापुटे मम ।
देहि नानाविधि मह्यं सुगन्धिं त्वं दिगम्बरे ॥
पुनस्त्रिबीजप्रथमं दन्तोष्ठ रसनादिकम् ।
गद्यपद्यमयींवाजीं काव्यशास्त्राद्यलंकृताम् ॥
अष्टादश पुराणानां स्मृतीनां घोरचण्डिके ।
कविता सिद्धिलहरीं मम जिह्वां निवेशय ॥
वह्निजाया महादेवि घण्टिकायां स्थिराभव ।
देहि मे परमेशान बुद्धिसिद्धि रसात्मकम् ॥
तुर्याक्षरी चित्स्वरूपा कालिका मंत्रसिद्धिदा ।
सा च तिष्ठतु ह्रत्पद्मे हृदयानन्दरूपिणी ॥
षडक्षरी महाकाली चण्डकाली शुचिस्मिता ।
रक्तासिनी घोरदंष्ट्रा भुजयुग्मे सदाऽवतु ॥
सप्ताक्षरी महाकाली महाकाल शवोद्धता ।
स्तनयुग्मे सूर्यकर्णो नरमुण्ड सुकुन्तला ॥
तिष्ठ स्वजठरे देवि अष्टाक्षरी शुभप्रदा ।
पुत्रपौत्र कलत्रादि सुहृन्मित्राणि देहि मे ॥
दशाक्षरी महाकाली महाकालप्रिया सदा ।
नाभौ तिष्ठ्तु कल्याणी श्मशानालयवासिनी ॥
चतुर्दशार्णवा या च जलकाली सुलोचना ।
लिङ्गमध्ये च तिष्ठस्व रेतस्विनी ममाङ्गके ॥
गुह्यमध्ये गुह्यकाली मम तिष्ठ कुलाङ्गने ।
सर्वाङ्गे भद्रकाली च तिष्ठ मे परमात्मिके ॥
कालि पादयुगे तिष्ठ मम सर्वमुखे शिवे ।
कपालिनी चया शक्तिः खड्‌गमुण्डधरा शिवा ॥
पाद द्वयांगुलिष्वङ्गे तिष्ठ स्वपापनाशिनि ।
कुल्लादेवी मुक्तकेशी रोमकूपेषु वैष्णवी ॥
तिष्ठतु उत्तमाङ्गे च क्रुरुकुल्ला महेश्वरी ।
विरोधिनी विरोधे च मम तिष्ठतु शंकरी ॥
विप्रचित्तै महेशानि मुण्डधारिणि तिष्ठ माम् ।
मार्गे दुर्मार्गे गमने उग्रा तिष्ठतु सर्वदा ॥
प्रभादिक्षु विदिक्षु माम दीप्तां दीप्तं करोतु माम् ।
नीलाशक्तिश्च पातालेघना चाकाशमण्डले ॥
पातु शक्तिर्वलाका मे भुवं मे भुवनेश्वरी ।
मात्रा मम कुले पातु मुद्रा तिष्ठतु मन्दिरे ॥
मिता मे योगिनी या च तथा मित्रकुलप्रदा ।
सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ॥
ब्राह्नी ब्रह्मकुले तिष्ठ मम सर्वार्थदायिनी ।
नारायणी विष्णुमाया मोक्षद्वारे च तिष्ठ मे ॥
माहेश्वरी वृषारूढा काशिकापुर वासिनी ।
शिवतां देहि चामुण्डे पुत्रपौत्रादि चानघे ॥
कौमारी च कुमाराणां रक्षार्थ तिष्ठ मे सदा ।
अपराजिता विश्वरूपा जये तिष्ठ स्वभाविनी ॥
वाराही वेदरूपा च सामवेद परायणा ।
नारसिंही नृसिंहस्य वक्षःस्थल निवासिनी ॥
सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ।
सर्वेषां स्थावरादीनां जङ्गमानां सुरेश्वरी ॥
स्वेदजोद्भिजण्डजानां नराणां च भयादिकम् ।
विनाश्याप्यऽभिमतं च देहि दक्षिण कालिके ॥
य इदं चार्गलं देवि यः पठेत्कालिकार्चने ।
सर्वसिद्धिम वाप्नोति खेचरो जायते तु सः ॥

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP