TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ५६

पूर्वार्धम् - अध्यायः ५६

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ५६
॥शांशपायन उवाच॥
अगात्कथममावास्यां मासि मासि दिवं नृपः।
ऐलः पुरूरवाः सूत कथं वाऽतर्पयत् पितॄन् ॥१॥

॥सूत उवाच॥
तस्य चाहं प्रवक्ष्यामि प्रभावं शांशपायन।
ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः ॥२॥

अपांसारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः।
ह्रासवृद्धी पितृमतः पक्षस्य च विनिर्णयः ॥३॥

सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा।
कव्याग्नेश्चात्तसोमानां पितॄणाञ्चैव दर्शनम् ॥४॥

यथा पुरूरवाश्चैल तर्पयामास वै पितॄन्।
एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ॥५॥

यदा तु चन्द्रसूर्यौ तौ नक्षत्रेण समागतौ।
अमावास्यान्निवसत एकरात्रैकमण्डले ॥६॥

स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ।
अमावस्याममावास्यां मातामहपितामहौ।
अभिवाद्य तदा तत्र कालापेक्षः प्रतीक्ष्यते ॥७॥

प्रसीदमानात् सोमाच्च पित्रर्थं तत्परिस्रवात्।
ऐलः पुरूरवा विद्वान् मासि मासि प्रयत्नतः।
उवास्ते पितृमन्तं तं ससोमं स दिवास्थितः ॥८॥

द्विलवं कुहुमात्रं तु ते उभे तु विचार्य सः।
सिनीवालीप्रमाणेन सिनीवालीमुपासकः ॥९॥

कुहूमात्रां कलाञ्चैव ज्ञात्वोपास्ते कुहुं पुनः।
स तदा भानुमत्येक कालावेक्षी प्रपश्यति ॥१०॥

सुधामृतं कुतः सोमात् प्रस्रवेन्मासतृप्तये।
दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ॥११॥

कृष्णपक्षे तदा पीत्वा दुह्यमानं तथांशुभिः।
सद्यः पक्षरता तेन सौम्येन मधुना च सः ॥१२॥

निर्वापणार्थं दत्तेन पित्रेण विधिना नृपः।
सुधामृतेन राजेन्द्रस्तर्पयामास वै पितॄन्।
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥१३॥

ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः।
जज्ञिरे ह्यृतवस्तस्मादृतुभ्यश्चार्त्तवाश्च ये । ५६.१४॥

आर्त्तवा ह्यर्द्धमासाख्याः पितरो ह्यब्दसूनवः।
ऋतुः पितामहा मासा ऋतुश्चैवाभ्दसूनवः ॥१५॥

प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः।
सौम्यास्तु सौम्यजा ज्ञेयाः काव्या ज्ञेयाः कवेः सुताः ॥१६॥

उपहूताः स्मृताः देवाः सोमजाः सोमपास्तथा।
आज्यपास्तु स्मृताः काव्यास्तृप्यन्ति पितृजातयः ॥१७॥

काव्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा।
गृहस्था ये च यज्वाना ऋतुर्बर्हिषदो ध्रुवम् ॥१८॥

गृहस्थाश्चापि यज्वाना अग्निष्वात्तास्तथार्त्तवाः।
अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत ॥१९॥

एषां संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः।
सोम ईद्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः ॥२०॥

रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः।
लेशाश्वैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ॥२१॥

एते पिबन्त्यमावास्यां मासि मासि सुधां दिवि ।
तांस्तेन तर्पयामास यावदासीत् पुरूरवाः ॥२२॥

यस्मात् प्रस्रवते सोमान्मासि मासि निबोधत।
तस्मात् सुधामृतं द्वै पितॄणां सोमपायिनाम् ॥२३॥

एवं तदमृतं सौम्यं सुधा च मधु चैव ह ।
कृष्णपक्षे यथा चेन्दोः कलाः पञ्चदश क्रमात् ॥२४॥

पिबन्त्यम्बुमयीर्दे वास्त्रयस्त्रिंशत्तु छन्दजाः।
पीत्वा च मासं गच्छन्ति चतुर्द्दश्यां सुधामृतम् ॥२५॥

इत्येवं पीयमानस्तु दैवतैश्च निशाकरः।
समागच्छदमावास्यां भागे पञ्चदशे स्थितः ॥२६।
सुषुम्नाप्यायितञ्चैव अमावास्यां यथाक्रमम्।
पिबन्ति द्विकलं कालं पितरस्ते सुधामृतम् ॥२७॥

ततः पीतक्षये सोमे सूर्योऽसावेकरश्मिना।
आप्याययत्सुषुम्नेन पितॄणां सोमपायिनाम् ॥२८॥

निःशेषायां कलायान्तु सोममाप्याययत् पुनः।
सुषुम्नाप्यायमानस्य भागं भाग महःक्रमात्।
कलाः क्षीयन्ति ताः कृष्णाः शुक्लाश्चाप्याययन्ति च ॥२९॥

एवं सूर्यस्य वीर्येण चन्द्रस्याप्यायिता तनुः।
दृश्यते पौर्णमास्यां वै शुक्लः सम्पूर्णमण्डलः।
संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ॥३०॥

इत्येष पितृमान् सोमः स्मृत इद्वत्सरः क्रमात् ।
क्रान्तः पंचदशैः सार्द्धं सुधा मृतपरिस्रवैः ॥३१॥

अतः पर्वाणि वक्ष्यामि पर्वणां सन्धयस्तथा।
ग्रन्थिमन्ति यथा पर्वाणीक्षुवेण्वोर्भवन्त्युत ॥३२॥

तथार्द्धमासपर्वाणि शुक्लकृष्णानि वै विदुः।
पूर्णामावास्ययोर्भेदैर्ग्रन्थिर्या सन्धयश्च वै ।
अर्द्धमासास्तु पर्वाणि तृतीयाप्रभृतीनि तु ॥३३॥

अग्नयाधानक्रिया यस्मात् क्रियते पर्वसन्धिषु।
सायाह्ने प्रतिपच्चैव स कालः पौर्णमासिकः ॥३४॥

व्यतीपाते स्थिते सूर्ये लेसोर्द्धन्तु युगान्तरे।
युगान्तरोदिते चैव लेखोर्द्धं शशिनः क्रमात् ॥३५॥

पौर्णमासे व्यतीपाते यदीक्षेते परस्परम्।
यस्मिन्काले स सीमान्ते स व्यतीपात एव तु ॥३६॥

कालं सूर्यस्य निर्द्देशं दृष्ट्वा सङ्ख्या तु सर्पति।
स वै पथं क्रियाकालः कालात्सद्यो विधीयते ॥३७॥

पूर्णेन्दोः पूर्णपक्षे तु रात्रिसन्धिषु पूर्णिमा।
यस्मात्तामनुपश्यन्ति पितरो दैवतैः सह।
तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता ॥३८॥

अत्यर्थं भ्राजते यस्मात् पौर्णमास्यान्निशाकरः।
रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः ॥३९॥

अमा वसेतामृक्षे तु यदा चन्द्रदिवाकरौ।
एकां पञ्चदशीं रात्रिममावास्या ततः स्मृता ॥४०॥

ततोऽपरस्य तैर्व्यक्तः पौर्णमास्यां निशाकरः।
यदीक्षते व्यतीपाते दिवा पूर्णे परस्परम्।
चन्द्रार्कावपराह्ने तु पूर्णात्मानौ तु पूर्णिमा ॥४१॥

विच्छिन्नां ताममावास्यां पश्यतश्च समागतौ।
अन्योन्यं चन्द्रसूर्यौ तौ यदा तद्दर्श उच्यते ॥४२॥

द्वौ द्वौ लवावमावास्यां यः कालः पर्वसन्धिषु।
द्वाक्षरं कुहुमात्रं तु एवं कालस्तु स स्मृतः।
नष्टचन्द्रा प्यमावास्या मध्यसूर्येण सङ्गता ॥४३॥

दिवसार्द्धेन रात्र्यर्द्धं सूर्यं प्राप्य तु चन्द्रमाः.
सूर्येण सहसा मुक्तिं गत्वा प्रातस्तनोत्सवौ ।
द्वौ कालौ सङ्गमश्चैव मध्याह्ने निष्पतेद्रविः ॥४४॥

प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात्।
निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै ॥४५॥

स तदा ह्याहुतेः कालो दर्शस्य च वषट्क्रिया।
एतदृतुमुखं ज्ञेयममावास्यास्य पर्वणः ॥४६॥

दिवा पर्वण्यमावास्यां क्षीणेन्दौ बहुले तु वै।
तस्माद्दिवा ह्यमावास्यां गृह्यतेऽसौ दिवाकरः।
गृह्यते वै दिवा ह्यस्मादमावास्यां दिविक्षयैः ॥४७॥

कलानामपि वै तासां बहुमान्याजडात्मकैः।
तिथीनां नाम धेयानि विद्वद्भिः संज्ञितानि वै ॥४८॥

दर्शयेतामथान्योन्यं सूर्याचन्द्रमसावुभौ ।
निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् ॥४९॥

द्विलवेन ह्यहो रात्रं भास्करं स्पृशते शशी।
स तदा ह्याहुतेः कालो दर्शस्य च वषट्‌क्रिया ॥५०॥

कुहेति कोकिरेनोक्तो यः कालः परिचिह्नितः।
तत्कालसंज्ञिता यस्मादमावास्या कुहुः स्मृता ॥५१॥

सिनीवालीप्रमाणेन क्षीणशेषो निशाकरः।
अमावास्यां विशत्यर्कं सिनीवाली ततः स्मृता ॥५२॥

पर्वणः पर्वकालस्तु तुल्यो वै तु वषट्‌क्रिया।
चन्द्रसूर्यव्यतीपाते उभे ते पूर्णिमे स्मृते ॥५३॥

प्रतिपत्पञ्चदश्योश्च पर्वकालो द्विमात्रकः।
कालः कुहुसिनीवाल्योः समुद्रो द्विलवः स्मृतः ॥५४॥

अर्काग्निमण्डले सोमे पर्वकालः कलाश्रयः।
एवं स शुक्रपक्षो वै रजन्याः पर्वसन्धिषु ॥५५॥

सम्पूर्णमण्डलः श्रीमांश्चन्द्रमा उपरज्यते।
यस्मादाप्यायते सोमः पञ्चदश्यान्तु पूर्णिमा ॥५६॥

दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात्।
तस्मात् कला पञ्चदशी सोमे नास्ति तु षोडशी।
तस्मात्सोमस्य भवति पञ्चदश्यां महाक्षयः ॥५७॥

इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः।
आर्त्तवा ऋतवो यस्मात्ते देवा भावयन्ति च ॥५८॥

अतः पितॄन् प्रवक्ष्यामि मासश्राद्धभुजस्तु ये।
तेषां गतिञ्च सत्त्वञ्च गतिं श्राद्धस्य चैव हि ॥५९॥

न मृतानां गतिः शक्या विज्ञातुं पुनरागतिः।
तपसापि प्रसिद्धेन किं पुनर्मांसचक्षुषा ॥६०॥

श्राद्धदेवान् पिदॄनेतान् पितरो लौकिकाः स्मृताः।
देवाः सौम्याश्च यज्वानः सर्वे चैव ह्ययोनिजाः ॥६१॥

देवास्ते पितरः सर्वे देवास्तान् भावयन्त्युत।
मनुष्याः पितरश्चैव तेभ्योऽन्ये लौकिकाः स्मृताः ॥६२॥

पिता पितामहश्चैव तथैव प्रपितामहः।
यज्वानो ये तु सोमे न सोमवन्तस्तु ते स्मृताः ॥६३॥

ये यज्वानः स्मृतास्तेषां ते वै बर्हिषदः स्मृताः।
कर्मस्वेतेषु युक्तास्ते तृप्यन्त्यादेहसम्भवात् ॥६४॥

अग्निष्वात्ताः स्मृतास्तेषां होमिनो याज्ययाजिनः।
ये वाप्याश्रमधर्मेण प्रस्थानेषु व्यवस्थिताः ॥६५॥

अन्ते च नैव सीदन्ति श्रद्धायुक्तेन कर्मणा।
ब्रह्मचर्येण तपसा यज्ञेन प्रजया च वै ॥६६॥

श्रद्धया विद्यया चैव प्रदानेन च सप्तधा।
कर्मस्वेतेषु ये युक्ता भवन्त्या देवपातनात् ॥६७॥

देवैस्तैः पितृभिः सार्द्धं सूक्ष्मकैः सोमपायकैः।
स्वर्गता दिवि मोदन्ते पितृमन्तमुपासते ॥६८॥

प्रजावतां प्रशंसैव स्मृता सिद्धा क्रियावताम्।
तेषां निवापदत्तान्नं तत्कुलीनैश्च बान्धवैः ॥६९॥

मासं श्राद्धभुजस्तृप्ति लभन्ते सोमलौकिकाः।
एते मनुष्याः पितरो मासि श्राद्ध भुजस्तु ते ॥७०॥

तेभ्योऽपरे तु ये चान्ये सङ्कीर्णाः कर्मयोनिषु।
भ्रष्टाश्चाश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः ॥७१॥

भिन्नदेहा दुरात्मनः प्रेतभूता यमक्षये।
स्वकर्माण्येव शोचन्ति यातनास्थानमागताः ॥७२॥

दीर्घायुषोऽतिशुष्काश्च विवर्णाश्च विवाससः।
क्षुत्पिपासापरीताश्च विद्रवन्ति इतस्ततः ॥७३॥

सरित्सरस्तडागानि वापिश्चैव जलेप्सवः।
परान्नानि च लिप्सन्ते कम्पमानास्ततस्ततः ॥७४॥

स्थानेषु पाच्यमानाश्च यातायातेषु तेषु वै।
शाल्मलौ वैतरण्याञ्च कुम्भीपाकेषु तेषु च ॥७५॥

करम्भवालुकायाञ्च असिपत्रवने तथा।
शिलासम्पेषणे चैव पात्यमानाः स्वकर्मभिः ॥७६॥

तत्र स्थानानि तेषां वै दुःखानामप्यनाकवत्।
तेषां लोकान्तरस्थानां विविधैर्नामगोत्रतः ॥७७॥

भूम्यापसव्यदर्भेषु दत्त्वा पिण्डत्रयन्तु वै।
पति तांस्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठिताः ॥७८॥

अप्राप्ता यातनास्थानं सृष्टा ये भुवि पञ्चधा।
पश्चादिस्थावरान्तेषु भूतानां तेषु कर्मसु ॥७९॥

नानारूपासु जातीषु तिर्यग्योनिषु चातिषु।
यदाहारा भवन्त्येते तासु तास्विह योनिषु।
तस्मिस्तस्मिंस्तदाहारं श्राद्धदत्तोपतिष्ठति ॥८०॥

काले न्यायागतं पात्रं विधिना प्रतिपादितम्।
प्राप्नोत्यन्नं यथा दत्तं बन्धुर्यत्रावतिष्ठते ॥८१॥

यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम्।
तथा श्राद्धे तदिष्टानां मन्त्रः प्रापयते पितॄन् ॥८२॥

एवं ह्यविकलं श्राद्धं श्राद्धदत्तन्तु मन्त्रतः।
सनत्कुमारः प्रोवाच पश्यन् दिव्येन चक्षुषा।
गतागतिज्ञः प्रेतानां मन्त्रः प्रापयते पितॄन् ॥८३॥

बह्वीकास्वोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः।
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्राय शर्वरी ॥८४॥

इत्ये ते पितरो देवा देवाश्च पितरश्च वै।
ऋतार्त्तवा अनेके तु अन्योन्यपितरः स्मृताः ॥८५॥

एते तु पितरो देवा मानुषाः पितरश्च ये।
प्रीतेषु तेषु प्रीयन्ते श्रद्धायुक्तेन कर्मणा ॥८६॥

इत्येवं पितरः प्रोक्ताः पिदॄणां सोमपायिनाम्।
एतत् पितृमतत्वं हि पुराणे निश्चयो मतः ॥८७॥

इत्यर्कपितृ सोमानामैलस्य च समागमः।
सुधामृतस्य चावाप्तिः पितॄणाञ्चैव तर्पणम् ॥८८॥

पूर्णिमावास्ययोः कालः पितॄणां स्थानमेव च।
समासात्कीर्त्तितस्तुभ्यमेष सर्गः सनातनः ॥८९॥

वैश्वरूप्यन्तु सर्वस्य कथित़ञ्चैकदेशिकम्।
न शक्यं परिसङ्ख्यातुं श्रद्धेयं भूतिमिच्छता ॥९०॥

स्वायम्भुवस्य हीत्येष सर्गः क्रान्तो मयात्र वै।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥९१॥

इति श्रीमहापुराणे वायुप्रोक्ते पितृवर्णनं नाम षच्पञ्चाशोऽध्यायः ॥५६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:01.6170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हात पाटिलकी

  • हातानें ठोकणें, 
  • बोलण्यापेक्षा कृति. याचे उलट तोंड पाटिलकी. 
  • हस्त चापल्य, उचलेगिरी. 
RANDOM WORD

Did you know?

मराठीत जुन्या कवींच्या साधारण किती कविता उपलब्ध असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site