TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ५

पूर्वार्धम् - अध्यायः ५

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ५
॥लोमहर्षण उवाच॥
यद्धि सृष्टेस्तु संख्यातं मया कालान्तरन्द्विजाः।
एतत् कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥१॥

रात्रिस्त्वेतावती ज्ञेया परमेशस्य कृत्स्नशः।
अहस्तस्य तु या सृष्टिः प्रलयो रात्रिरुच्यते ॥२॥

अहश्च विद्यते तस्य न रात्रिरिति धारणा।
उपचारः प्रक्रियते लोकानां हितकाम्यया ॥३॥

प्रजाः प्रजानाम्पतय ऋषयो मुनिभिः सह।
ऋषीन् सनत्कुमाराख्यान् ब्रह्मसायुज्यगैः सह ॥४॥

इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च।
तन्मात्रा इन्द्रियगणो बुद्धिश्च मनसा सह ॥५॥

अहस्तिष्ठन्ति ते सर्वे परमेशस्य धीमतः।
अहरन्ते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः ॥६॥

स्वात्मन्यवस्थिते सत्वे विकारे प्रतिसंहते।
साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ ॥७॥

तमः सत्त्वगुणावेतौ समत्वेन व्यवस्तितौ।
अत्रोद्रिक्तौ प्रसूतौ च तौ तथा च परस्परम्।
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥८॥

तिलेषु वा यथा तैवं घृतं पयसि वा स्थितम्।
तथा तमसि सत्त्वे च रजोऽव्यक्ताश्रितं स्थितम् ॥९॥

उपास्य रजनीं कृत्स्नां परां माहेश्वरीं तदा।
अहर्मुखे प्रवृत्ते च पुरः प्रकृतिसम्भवः ॥१०॥

क्षोभयामास योगेन परेण परमेश्वरः।
प्रधानं पुरुषञ्चैव प्रविश्याण्डं महेश्वरः ॥११॥
प्रधानात् क्षोभ्यमाणात्तु रजो वै समवर्त्तत।
रजः प्रवर्त्तकं तत्र बीजेष्वपि यथा जलम् ॥१२॥

गुणवैषम्यमासाद्य प्रसूयन्ते ह्यधिष्ठिताः।
गुणेभ्यः क्षोभ्य माणेभ्यस्त्रयो देवा विजज्ञिरे।
आश्रिताः परमा गुह्याः सर्वात्मानः शरीरिणः ॥१३॥

रजो ब्रह्मा तमो ह्यग्निः सत्त्वं विष्णुरजायत।
रजःप्रकाशको ब्रह्मा स्रष्ट्टृत्वेन व्यवस्थितः ॥१४॥

तमःप्रकाशकोऽग्निस्तु कालत्वेन व्यवस्थितः।
सत्त्वप्रकाशको विष्णुरौदासीन्ये व्यवस्थितः ॥१५॥

एत एव त्रयो देवा एत एव त्रयोऽग्नयः।
परस्पराश्रिता ह्येते परस्परमनुव्रताः ॥१६॥

परस्परेण वर्त्तन्ते धारयन्ति परस्परम्।
अन्योन्यमिथुनाह्येते ह्यन्योन्यमुपजीविनः।
क्षणं वियोगो न ह्येषान्न त्यजन्ति परस्परम् ॥१७॥

ईश्वरो हि परो देवो विष्णुस्तु महतः परः ।
ब्रह्मा तु रजसोद्रिक्तः सर्गायेह प्रवर्त्तते।
परश्च पुरुषो ज्ञेयः प्रकृतिश्च परा स्मृता ॥१८॥

अधिष्ठितोऽसौ हि महेश्वरेण प्रवर्त्तते चोद्यमानः समन्तात्।
अनुप्रवर्त्तन्ति महान्त एव चिरस्थिताः स्वे विष्ये प्रियत्वात् ॥१९॥

प्रधानं गुणवैषम्यात्सर्गकाले प्रवर्त्तते।
ईश्वराधिष्ठितात् पूर्वन्तस्मात्सदसदात्मकात्।
ब्रह्मा बुद्धिश्च मिथुनं युगपत्सम्बभूवतुः ॥२०॥

तस्मात्तमोऽव्यक्तमयः क्षेत्रज्ञो ब्रह्मसंज्ञितः।
संसिद्धः कार्यकरणैर्ब्रह्माऽग्रे समवर्त्तत ॥२१॥

तेजसा प्रथमनो धीमानव्यक्तः संप्रकाशते।
स वै शरीरी प्रथमः कारणत्वे व्यवस्थितः ॥२२॥

अप्रतीघेन ज्ञानेन ऐश्वर्येण च सोऽन्वितः।
धर्मेण चाप्रतीघेन वैराग्येण समन्वितः ॥२३॥

तस्येश्वरस्याप्रतिघं ज्ञानं वैराग्यलक्षणम्।
धर्मैश्वर्यकृता बुद्धिर्ब्राह्मी जज्ञेऽभिमानिनः ॥२४॥

अव्यक्ताज्जायते चास्य मनसा च यदिच्छति।
वशीकृतत्वाद्वैगुण्यात् सुरेशत्वात्स्वभावतः ॥२५॥

चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकोऽभवत्।
सहस्रमूर्द्धा पुरुषस्तिस्रोऽवस्थाः स्वयम्भुवः ॥२६॥

सत्त्वं रजश्च ब्रह्मत्वे कालत्वे च रजस्तमः.
सात्विकं पुरुषत्वे च गुणवृत्तिः स्वयम्भुवः ॥२७॥

लोकान् सृजति ब्रह्मत्वे कालत्वे संक्षिपत्यपि।
पुरुषत्वे ह्युदासीन स्तिस्रोऽवस्थाः प्रजापते ॥२८॥

ब्रह्मा कमलगर्भाभः कालो जात्याञ्जनप्रभः।
पुरुषः पुण्डरीकाक्षो रूपं तत्परमात्मनः ॥२९॥

योगेश्वरः शरीराणि करोति विकरोति च।
नानाकृतिक्रियारूपनामवृत्तिः स्वलीलया ॥३०॥

त्रिधा यद्वर्त्तते लोके तस्मात्रिगुण उच्यते।
चतुर्द्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्तितः ॥३१॥

यदाप्नोति यदादत्ते यच्चास्ति विषयं प्रति।
तच्चास्य सततं भावस्तस्मादात्मा निरुच्यते ॥३२॥

ऋषिः सर्वगतत्वाच्च शरीराद्यत्स्वयं प्रभुः।
स्वामित्वमस्य तत्सर्वं विष्णुः सर्वप्रवेशनात् ॥३३॥

भगवान् भगसद्भावाद्रागो रागस्य शासनात्।
परश्च तु प्रकृतत्वादवनादोमितिः स्मृतः ॥३४॥

सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वं यतस्ततः।
नराणामयनं यस्मात्तेन नारायणः स्मृतः ॥३५॥

त्रिधा विभज्य स्वात्मानं त्रैलोक्यं सम्प्रवर्त्तते।
सृजते ग्रसते चैव वीक्षते च त्रिभिस्तु यत्।
अग्रे हिरण्यगर्भः स प्रादुर्भूतश्चतुर्मुखः ॥३६॥

आदित्वाच्चादितेवोऽसावजातत्वादजः स्मृतः।
पाति यस्मात्प्रजाः सर्वाःप्रजापतिरतः स्मृतः ॥३७॥

देवेषु च महान् देवो महादेवस्ततः स्मृतः।
सर्वेशत्वाच्च लोकानामवश्यत्वात्तथेश्वरः ॥३८॥

बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते।
क्षेत्रज्ञः क्षेत्रविज्ञानाद्विभुः सर्वगतो यतः ॥३९॥

यस्मात् पुर्यनुशेते च तस्मात् पुरुष उच्यते।
नोत्पादितत्वात् पूर्वत्वात् स्वयम्भूरिति स स्मृतः ॥४०॥

इज्यत्वादुच्यते यज्ञः कविर्विक्रान्तदर्शनात्।
क्रमणः क्रमणीयत्वाद्वर्णकस्याभिपालनात् ॥४१॥

आदित्यसंज्ञः कपिलस्त्वग्रजोऽग्निरिति स्मृतः।
हिरण्यमस्य गर्भोऽभूद्धिरण्यस्यापि गर्भजः।
तस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यते ॥४२॥

स्वयम्भुवो निवृत्तस्य कालो वर्षाग्रजस्तु यः।
न शक्यः परिसंख्यातुमपि वर्षशतैरपि ॥४३॥

कल्पसंख्यानिवृत्तेस्तु पराख्यो ब्रह्मणः स्मृतः।
तावच्छेषोऽस्य कालोऽन्यस्तस्यान्ते प्रतिसृज्यते ॥४४॥

कोटिकोटिसहस्राणि अन्तर्भूतानि यानि वै।
समतीतानि कल्पानान्तावच्छेषाः परास्तु ये ॥४५॥

यस्त्वयं वर्त्तते कल्पो वाराहन्तं निबोधत।
प्रथमः साम्प्रतस्तेषां कल्पोऽयं वर्त्तते द्विजाः ॥४६॥

तस्मिन् स्वायम्भुवाद्यास्तु मनवः स्युश्चतुर्द्दश।
अतीता वर्त्तमानाश्च भविष्या ये च वै पुनः ॥४७॥

तैरियं पृथिवी सर्वा सप्तद्वीपा समन्ततः।
पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः।
प्रजाभिस्तपसा चैव तेषां श्रृणुत विस्तरम् ॥४८॥

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै।
भविष्याणि भविष्यैश्च कल्पः कल्पेन चैव ह ॥४९॥

अतीतानि च कल्पानि सोदकानि सहान्वयैः।
अनागतेषु तद्वच्च तर्क्कः कार्यो विजानता ॥५०॥

इति श्रीमहापुराणे वायुप्रोक्ते सृष्टिप्रकरणं नाम पञ्चमोऽघ्यायः ॥५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:58.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

triarylmethane dyes

  • पु./अ.व. ट्रायऍरिलमिथेन रंजक 
RANDOM WORD

Did you know?

मरणानंतर पंचांगात नक्षत्र कां पाहतात? त्याचा प्रेताशी काय संबंध?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.