TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ३३

पूर्वार्धम् - अध्यायः ३३

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ३३
॥सूत उवाच॥
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह।
तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः ॥१॥

देवाश्च विविधा ये च तस्मिन् मन्वन्तरेऽधिपाः।
ऋषयो मानवाश्चैव सर्वे तुल्याभिमानिनः ॥२॥

महर्षिसर्गः प्रोक्तो वै वंशं स्वायम्भुवस्य तु।
विस्तरेणानुपूर्व्या च कीर्त्त्यमानं निबोधत ॥३॥

मनोः स्वायम्भुवस्यासन् दश पौत्रास्तु तत्समाः.
यैरियं पृथिवी सर्वा सप्तद्वीपसमन्विता ॥४॥

ससमुद्राकरवती प्रतिवर्षन्निवेशिता।
स्वायम्भुवेऽन्तरे पूर्वमाद्ये त्रेतायुगे तदा ॥५॥

प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य तु।
प्रजासर्गतपोयोगैस्तैरियं विनिवेशिता ॥६॥

प्रियव्रतात् प्रजावन्तः वीरात् कन्या व्यजायत।
कन्या सा तु महाभागा कर्द्दमस्य प्रजापतेः ॥७॥

कन्ये द्वे शतपुत्रांश्च सम्राट् कुक्षिश्च ते उभे।
तर्योर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥८॥

अग्नीध्रश्चवपुष्मांश्च मेधा मेधातिथिर्विभुः।
ज्योतिष्मान् द्युतिमान् हव्यः सवनः सर्व एव च ॥९॥

प्रियव्रतोऽभिषिच्यैतान् सप्त सप्तसु पार्थिवान्।
द्वीपेषु तेषु धर्मेण द्वीपांस्तांश्च निबोधत ॥१०॥

जम्बूद्वीपेश्वरं चक्रे अग्नीध्रन्तु महाबलम्।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥११॥

शाल्मलौ तु वपुष्मन्तं राजानमभिषिक्तवान्।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः ॥१२॥

द्युतिमन्तञ्च राजानं क्रौज्चद्वीपे समादिशत्।
शाकद्वीपेश्वरञ्चापि हव्यञ्चक्रे प्रियव्रतः ॥१३॥

पुष्कराधिपतिञ्चापि सवनं कृतवान् प्रभुः।
पुष्करे सवनस्यापि महावीतः सुतोऽभवत्।
धातकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरो ॥१४॥

महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः।
नाम्ना तु धातकेश्चापि धातकीखण्ड उच्यते ॥१५॥

हव्यो व्यजनयत् पुत्रान् शाकद्वीपेश्वरान् प्रभुः।
जलदञ्च कुमारञ्च सुकुमारं मणीचकम्।
वसुमोदं सुमोदाकं सप्तमञ्च महाद्रुमम् ॥१६॥

जलदं जलदस्याथ वर्षं प्रथममुच्यते।
कुमारस्य च कौमारं द्वितीयं परिकीर्तितम् ॥१७॥

सुकुमारं तृतीयन्तु सुकुमारस्य कीर्तितम्।
मणीचकस्य चतुर्थं मणीचकमिहोच्यते ॥१८॥

वसुमोदस्य वै वर्षं पञ्चमं वसुमोदकम्।
मोदाकस्य तु मोदाकं वर्षं षष्ठं प्रकीर्तितम् ॥१९॥

महाद्रुमस्य नाम्ना तु सप्तमन्तु महाद्रुमम्।
एषान्तु मानभिस्तानि सप्तवर्षाणि तत्र वै ॥२०॥

क्रौञ्चद्वीपेश्वरस्यापि पुत्रा द्युतिमतस्तु वै।
कुशलो मनुगश्चोष्णः पीवरश्चान्धकारकः।
मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै ॥२१॥

तेषां स्वनामभिर्द्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः।
उष्णस्योष्णः स्मृतो देशः पीवरस्यापि पीवरः ॥२२॥

अन्धकारकदेशस्तु अन्धकारश्च कीर्त्त्यते।
मुनेस्तु मुनिदेशो वै दुन्दुभेर्दुन्दुभिः स्मृतः।
एते जनपदाः सप्त क्रौञ्चद्वीपे तु भास्वराः ॥२३॥

ज्योतिष्मतः कुशद्वीपे सप्तैते सुमहौजसः।
उद्भिदो वेणुमांश्चैव स्वैरथो लवणो धृतिः।
षष्ठः प्रभाकरश्चैव सप्तमः कपिलः स्मृतः ॥२४॥

उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्।
तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम् ॥२५॥

पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम्।
सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितम् ॥२६॥

तेषां द्वीपाः कुशद्वीपे तत्सनामान एव तु।
आश्रमाचारयुक्ताभिः प्रजाभिः समलंकृताः ॥२७॥

शाल्मलस्येश्वराः सप्त पुत्रास्ते तु वपुष्मतः।
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा।
वैद्युतो मानसश्चैव सुप्रभः सप्तमस्तथा ॥२८॥

श्वेतस्य श्वेतदेशस्तु रोहितस्य च रोहितः।
जीमूतस्य च जीमूतो हरितस्य च हारितः ॥२९॥

वैद्युतो वैद्युतस्यापि मानसस्यापि मानसः।
सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः ॥३०॥

सप्तद्वीपे तु वक्ष्यामि जम्बूद्वीपादनन्तरम्।
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरा नृपाः ॥३१॥

ज्येष्ठः शान्तभयस्तेषां सप्तवर्षाणि तानि वै।
तस्माच्छान्तभयाच्चैव शिशिरस्तु सुखोदयः।
आनन्दश्च ध्रुवश्चैव क्षेमकश्च शिवस्तथा ॥३२॥

तानि तेषां सनामानि सप्तवर्षाणि भागशः।
निवेशितानि तैस्तानि पूर्वे स्वायम्भुवेऽन्तरे ॥३३॥

मेधातिथेस्तु पुत्रैस्तैः सप्तद्वीपनिवासिभिः।
वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाः कृताः ॥३४॥

प्लक्षद्वीपादिकेष्वेव शाकद्वीपान्तरेषु वै।
ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभागशः ॥३५॥

सुखमायुश्च रूपञ्च बलं धर्मश्च नित्यशः।
पञ्चस्वेतेषु द्वीपेषु सर्वं साधारणं स्मृतम् ॥३६॥

सप्तद्वीपपरिक्रान्तं जम्बूद्वीपं निबोधत।
आग्नीध्रं ज्येष्ठदायादं कन्यापुत्रं महाबलम्।
प्रियव्रतोऽभ्यषिञ्चत्तं जम्बूद्वीपेश्वरं नृपम् ॥३७॥

तस्य पुत्रा बभूवुर्हि प्रजापतिसमौजसः।
ज्येष्ठो नाभि रिति ख्यातस्तस्य किम्पुरुषोऽनुजः ॥३८॥

हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः।
रम्यः स्यात्पञ्चमः पुत्रो हरिन्मान् षष्ठ उच्यते ॥३९॥

कुरुस्तु सप्तमस्तेषां भद्राश्वो ह्यष्टमः स्मृतः।
नवमः केतुमालस्तु तेषां देशान्निबोधत ॥४०॥

नाभेस्तु दक्षिणं वर्षं हिमाद्वन्तु पिता ददौ ।
हेम कूटं तु यद्वर्षं ददौ किम्पुरुषाय तत् ॥४१॥

नैषधं यत् स्मृतं वर्षं हरिवर्षाय तद्ददौ।
मध्यमं यत्सुमेरोस्तु स ददौ तदिलावृते ॥४२॥

नीलन्तु यत् स्मृतं वर्षं रम्यायैतत् पिता ददौ ।
श्वेतं यदुत्तरं तस्मात् पित्रा दत्तं हरिन्मते ॥४३॥

यदुत्तरं श्रृङ्गवतो वर्ष तत् कुरवे ददौ ।
वर्षं माल्यवत श्चापि भद्राश्वाय न्यवेदयत् ॥४४॥

गन्धमादनवर्षन्तु केतुमाले न्यवेदयत्।
इत्येतानि महान्तीह नववर्षाणि भागशः ॥४५॥

आग्नीध्रस्तेषु सर्वेषु पुत्रांस्तानभ्यषिञ्चत।
यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ॥४६॥

इत्येतैः सप्भिः कृत्स्नाः सप्तद्वीपा निवेशिताः ।
प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य तु ॥४७॥

यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ शुभानि तु।
तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ॥४८॥

विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ।
न तेष्वस्ति युगावस्था क्षेत्रेष्वेव तु सर्वशः ॥४९॥

नाभेर्हि सर्गं वक्ष्यामि हिमाह्वे तन्निबोधत।
नाभिस्त्वजनयत् पुत्रं मेऱुदेव्यां महाद्युतिः।
ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ॥५०॥

ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः।
सोऽभिषिच्याथ भरतः पुत्रं प्राव्राज्यमास्थितः ॥५१॥

हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत्।
तस्मात्तद्भारतं वर्षं तस्य नाम्ना विदुर्बुधाः ॥५२॥

भरतस्यात्मजो विद्वान् सुमतिर्नाम धार्मिकः।
बभूव तस्मिंस्तद्राज्यं भरतः संन्ययोजयत्।
पुत्र संक्रामितश्रीको वनं राजा विवेश सः ॥५३॥

तेजसस्तु सुतश्चापि प्रजापतिरमित्रजित्।
तैजसस्यात्मजो विद्वानिन्द्रद्युम्न इति श्रुतः ॥५४॥

परमेष्ठी सुतश्चाथ निधने तस्य शोभनः ।
प्रतीहारकुले तस्य नाम्ना जज्ञे तदन्वयात्।
प्रतिहर्त्तेति विख्यातो जज्ञे तस्यापि धीमतः ॥५५॥

उन्नेता प्रतिहर्त्तुस्तु भुवस्तस्य सुतः स्मृतः ।
उद्गीथस्तस्य पुत्रोऽभूत्प्रताविश्चापि तत्सुतः ॥५६॥

प्रतावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो मतः ।
पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥५७॥

गयस्य तु नरः पुत्रो नरस्यापि सुतो विराट्।
विराट्‌सुतो महावीर्यो दीमांस्तस्य सुतोऽभवत् ॥५८॥

धीमतश्च महान् पुत्रो महतश्चापि भौवनः।
भौवनस्य सुतस्त्वष्टा अरिजस्तस्य चात्मजः ॥५९॥

अरिजस्य रजः पुत्रः शतजिद्रजसो मतः।
तस्य पुत्रशतं त्वासीद्राजानः सर्व एव ते ॥६०॥

विश्वज्योतिः प्रधानायैस्तैरिमा वर्द्धिताः प्रजाः।
तैरिदं भारतं वर्षं सप्तखण्डं कृतं पुरा ॥६१॥

तेषां वंशप्रकूतैस्तु भुक्तेयं भारती धरा।
कृतत्रेतादियुक्तानि युगाख्यान्येकसप्ततिः ॥६२॥

येऽतीतास्तैर्युगैः सार्द्धं राजानस्ते तदन्वयाः।
स्वायम्भुवेऽन्तरे पूर्वं शतशोऽथ सहस्रशः ॥६३॥

एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत्।
ऋषिभिर्दैवतैश्चापि पितृगन्धर्वराक्षसैः ॥६४॥

यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः ।
तैषां सृष्टिरियं लोके युगैः सह विवर्त्तते ॥६५॥

इति श्रीमहापुराणे वायुप्रोक्ते स्वायम्भुव वंशानुकीर्त्तनं नाम त्रयस्त्रिशोऽध्यायः ॥३३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:59.9900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

trident

  • न. त्रिशूल 
  • पु./न. त्रिशूल 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site