संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|चाटुप्रवाहवीचयः| सुभाषित १५०१ - १५२० चाटुप्रवाहवीचयः चाटुप्रवाहवीचयः सुभाषित १३७१ - १३८० सुभाषित १३८१ - १४०० सुभाषित १४०१ - १४२० सुभाषित १४२१ - १४४० सुभाषित १४४१ - १४६० सुभाषित १४६१ - १४८० सुभाषित १४८१ - १५०० सुभाषित १५०१ - १५२० सुभाषित १५२१ - १५४० सुभाषित १५४१ - १५६० सुभाषित १५६१ - १५८० सुभाषित १५८१ - १६०० सुभाषित १६०१ - १६२० सुभाषित १६२१ - १६४० चाटुप्रवाहवीचयः - सुभाषित १५०१ - १५२० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १५०१ - १५२० Translation - भाषांतर २७. सेनाभूर्भूपालचमूपदेउ गगनं सेनारजोराजिउंश्रान्तद्वेइकलेवरेउ मरुतो नौकातलेवब्धयः ।तेजस्तेजसि लीनमस्तु भवतः किंत्वन्यदाचक्ष्महेसृष्टिः स्रष्टुरिहास्तमेष्यति महाभूतैर्विना पञ्चभिः ॥१५०१॥श्रीकण्ठस्य ।नित्यं निस्तृणपल्लवे पथि निरालम्बे व्रजन्वाजिभिः खिन्नखिन्नतुरङ्गकरुणाकृष्टो विवस्वानयन।यायादप्यवतीर्य निर्जरपथादेषा समन्तान्न चेद्अद्य त्वद्गजतागलन्मदजलैर्जम्बालिनी मेदिनी ॥१५०२॥करञ्जयोगेश्वरस्य ।त्वत्सैन्यग्लपितस्य पन्नगपतेरच्छिन्नधाराक्रमंविस्फारायतशालिनि प्रतिफणं फेनाम्भसि भ्रश्यति ।देव क्ष्मावलयप्रभो फणिकुलैः प्रत्यग्रमेकोत्तरस्थूलस्तम्भसहस्रधारितमिव क्ष्माचक्रमालोक्यते ॥१५०३॥वसुकल्पस्य । (सु.र. १४२५)शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः सिन्धून्धूलिभरेण कर्दमयितुं तैरेव रोद्धुं नभः ।नासीरे च मुहुर्मुहुश्चलचलेत्यालापकोलाहलान्कर्तुं नाथ वरुथिनीयमवनीं जेतुं पुनस्त्वद्भुजौ ॥१५०४॥तस्यैव । (सु.र. १४२६)अहो स्थैर्यं तेषां प्रकृतिनियमेभ्यः सुकृतिनां प्रतिज्ञातत्यागो नहि भवति कृच्छ्रेऽपि महति ।तथा हि त्वत्सेनाभरनमितधात्रीभरदलत्कटाहोऽपि स्वाङ्गं किमु कमठनाथश्चलयति ॥१५०५॥२८. खड्गःदेव त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुसस्तस्मिन्कालभुजङ्गमो निवसति स्फूर्जत्कृपाणच्छलात।एष स्वाङ्गमनर्गलं रिपुतरुस्कन्धेषु संघट्टयन्दीर्घं व्योमविसारिनिर्मलयशो निर्मोकमुन्मुञ्चति ॥१५०६॥छित्तपस्य । (सूक्तिमुक्तावलि ९७.३३)तुल्या बाणकृपाणयोरनुगतिः क्षीणाननओ न क्वचित्कोषं मे हरति प्रयच्छति सदा लक्षं रणे पत्रिणे ।इत्थं देव कुनायकत्वमसकृद्बुद्ध्वैव युद्धेष्वसिःकृत्वा सन्धिमुपोढवेपथुरतिक्रोधाद्विवेश द्विषः ॥१५०७॥लङ्गदत्तस्य । (सूक्तिमुक्तावलि ९७.५१)द्वाभ्यामेव जितं द्वयोः परममून्यङ्गानि भूमिभरश्लाघ्यश्रीणि गृणन्ति सम्प्रति भवत्स्वङ्गस्य कूर्मस्य च ।यत्कम्पे क्षितिपालशत्रुवसुधाचक्रं समुत्कम्पते निर्व्याजं निपतन्ति च क्षितिभृतां विष्वक्शिरःश्रेणयः ॥१५०८॥चूडामणेः ।यशः पुत्रं देव त्वदसिलतिकासूत समरेसमीरस्तद्धूलीपटलपटवासं विकिरति ।शिवा यायन्त्युच्चैरटति च कबन्धावलिरभूद्अरातीनां मोक्षः सपदि भवबन्धव्यतिकरात॥१५०९॥विद्यायाः ।णो वेर्से ॥१५१०॥२९. आश्चर्यखड्गःदेवः स्वस्तुतिरस्तु नाम हृदि नः सर्वे च सन्त्वागमास्तीर्थं न क्वचिदीदृगत्र भवति त्वत्खड्गधारा यथा ।यामेकः स्वशरीरशुद्धिरसिको मूर्ध्ना प्रतीच्छन्नरिर्द्वैविध्यादनु पञ्चतां तदनु च त्रैदश्यमाप क्षणात॥१५११॥रथाङ्गस्य । (सूक्तिमुक्तावलि ९७.६८, सु.र. १३९६)शाखाः पञ्च तवोद्गता भुजतरोस्ताभिस्तथैकं धृतंसम्भूयैव किलासिपत्रमभवत्तत्रापि चित्रान्तरम् ।विश्वव्यापियशःप्रसूनमखिलव्यापच्छिदे श्रीफलंछायां किं कथयामि यत्र निखिलं विश्राम्यति क्ष्मातलम् ॥१५१२॥लङ्गदत्तस्य ।अपनय महामोहं राजन्ननेन तवासिना कथय कुहकाश्चर्यं क्वेदं कथं क्व च शिक्षितम् ।यदरिरुधिरं पायं पायं कुसुम्भरसारुणं झटिति वमति क्षीराम्भोधिप्रवाहसितं यशः ॥१५१३॥दक्षस्य । (सु.र. १०१५)उद्यात्येव सुहृत्कुलं प्रतिबलं यात्येव नीचैस्तराम्आयान्त्येव यशःश्रियः प्रतिदिशं यान्त्येव सत्कीर्तयः ।येनैकेन मुखाग्रपाटिततनूभूतार्द्रकोटिश्रियासर्वाश्चर्यमयः स एव जयति त्वत्खड्गधारापथः ॥१५१४॥शुङ्गोकस्य ।श्रीखण्डमूर्तिः सरलाङ्गयष्टिर्माकन्दमामूलमहो वहन्ती ।श्रीमन्भवत्खड्गतमालवल्लीचित्रं रणे श्रीफलमातनोति ॥१५१५॥जयदेवस्य ।३०. कुपितखड्गःपर्यङ्को राजलक्ष्म्या हरितमणिमयः पौर्षाब्धेस्तरङ्गोभग्नप्रत्यर्थिवंशोल्बणविजयकरिस्त्यानदानाम्बुपट्टः ।संग्रामत्रासताम्यन्नरपतिसुयशोराजहंसाम्बुवाहःखड्गः क्ष्मासौ विदल्लः समिति विजयते मालवाखण्डलस्य ॥१५१६॥कस्यचित।वीरश्रीवेणिबन्धो भुजभुजगफणा शत्रुषु भ्रूपताका देवस्य प्रेतभर्तुः स्फुरदुरुपृतनाद्विपिनी वीचिदण्डः ।क्रोधाग्नेर्धूमवर्तिः सुरयुवतिदृशां शृङ्खलादाम दीर्घंलक्ष्मीलीलाकटाक्षः पर्तिसमरमभूद्यस्य जैत्रः कृपाणः ॥१५१७॥राजशेखरस्य । (बा.रा. ३.४८)दृप्यत्प्रत्यर्थिपृथ्वीपतिविततयशःकौमुदीकृष्णपक्षोलक्ष्मीसंचारदूतः सुरनरनगरारम्भनिर्विघ्नयष्टिः ।संग्रामाम्भोधिमाद्यद्भुजगफणा तल्पकल्पान्तकृष्टखड्गस्ते देवजीयादयमुदितमहीमण्डलाखण्डलस्य ॥१५१८॥शान्त्याकरस्य ।अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदरालनीलरसनः केषां भिये न द्विषाम् ।संग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥१५१९॥कविपण्डितश्रीहर्षस्य । (ण्च्१२.९६, सूक्तिमुक्तावलि ९७.४९)लीलोत्तंसतमालवल्लिरवनेरेतत्प्रतापानलस्फूर्जद्धूमशिखा क्रुधाकुलतनोः कालस्य जिह्वाञ्चलः ।वैरिस्त्रैणविलोचनाञ्जनलिपिस्तेनस्तमोमन्दिरंनिद्राणस्य कलेः स तस्य नृपतेः खड्गो न वाग्गोचरः ॥१५२०॥युवराजदिवाकरस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP