संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|चाटुप्रवाहवीचयः| सुभाषित १३७१ - १३८० चाटुप्रवाहवीचयः चाटुप्रवाहवीचयः सुभाषित १३७१ - १३८० सुभाषित १३८१ - १४०० सुभाषित १४०१ - १४२० सुभाषित १४२१ - १४४० सुभाषित १४४१ - १४६० सुभाषित १४६१ - १४८० सुभाषित १४८१ - १५०० सुभाषित १५०१ - १५२० सुभाषित १५२१ - १५४० सुभाषित १५४१ - १५६० सुभाषित १५६१ - १५८० सुभाषित १५८१ - १६०० सुभाषित १६०१ - १६२० सुभाषित १६२१ - १६४० चाटुप्रवाहवीचयः - सुभाषित १३७१ - १३८० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १३७१ - १३८० Translation - भाषांतर १. सामान्यचाटुःस्वामिन्नम्बुजनाथ धूर्जटिशिरश्चूडामणे चन्द्रमः पादौ वां प्रणतोऽस्मि साधु वदतं क्षत्रप्रसूती युवाम् ।राजा यद्युपसेविताङ्घ्रिरखिलक्ष्मापालचूडाशतैर्आसीदस्ति भविष्यति क्षितितले श्रीभोजदेवोपमः ॥१३७१॥छित्तिपस्य । कालिन्दि ब्रूहि कुभोद्भवजलधिरहं नाम गृह्णासि कस्माच्छत्रोर्मे नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्न्याः ।मालिन्यं तर्हि कस्मादनुहरसि मिलत्कज्जलैर्मालवीनांबाष्पाम्भोभिः किमासां समजनि कुपितः कुन्तलक्षोणिपालः ॥१३७२॥तस्यैव ।दृप्तोद्दामकरीन्द्रवृन्दशितिमच्छायेषु नारार्थिषुपाथोदेषु तटाभिधातदिक्सादारभ्य नस्ताम्यति ।नूनं मालवराजदिग्जयविधौ तैः पीतमम्भोनिधेर्माद्यद्गन्धगजस्रवन्मदनदीगन्धानुबिद्धं पयः ॥१३७३॥तस्यैव ।आवाचां व्यक्ततायाः कविपदविषयेष्वाचचष्टे समन्योमुक्तास्माभिर्न कोऽपि स्मरपदमवनौ संस्तुतः सत्यमेतत।मिथयितद्भोः कथं रे ननु शतमकृथाः कुन्तलेन्द्रस्य तत्तत्काव्यस्तोत्राणि धिक्त्वां जडमय न मनोरेव मूर्तिप्रभेदः ॥१३७४॥उमापतिधरस्य ।क्रूरे कद्रु किमात्थ दासि विनते मुक्तास्मि दत्त्वामृतंतेनानायि सुधा मुधा तृणलिहो नागास्त्वया वञ्चिताः ।त्वत्पापैर्मुसिताः सुताः शृणु तृणं दत्त्वाद्य यावन्मुखेबङ्गक्ष्मापतिसङ्गरेऽपि यदमी जीवन्ति भूमीभुजः ॥१३७५॥आचार्यगोपीकस्य ।२. संमुखचाटुःपूर्वः कृतात्मनामसि भग्नानां समिति पश्चिमो द्विषताम् ।त्वं दक्षिणः प्रणमतां तथापि सर्वोत्तरस्त्वमसि ॥१३७६॥योगेश्वरस्य ।यस्य द्वीपं धरित्री स च जलधिरभूद्यस्य गण्डूषतोयंतस्याश्चर्यैकमूर्तेरपि नभसि वपुर्यत्र दुर्लक्ष्यमासीत।तत्पीतं त्वद्यशोभिस्त्रिभुवनमभजंस्तानि विश्रामहेतोस्तच्चान्तः कैटभारेः स च तव हृदये वन्दनीयस्त्वमेव ॥१३७७॥तथागतदासस्य । (सु.र. १३८९)न लोपो वर्णानां न खलु परतः प्रत्ययविधिर्विकारो नास्त्येव क्वचिदपि न भग्नाः प्रकृतयः ।गुणो वा वृद्धिर्वा सततमुपकाराय जगतांमुनेर्दाक्षीपुत्रादपि तव समर्थः पदविधिः ॥१३७८॥शब्दार्णवस्य । (सु.र. १३८७)त्वं षाड्गुण्यजुषां शिरोमणिरसि त्रैगुण्यमूर्तेरसाव्इन्दुस्तत्र च षोडश त्वयि चतुःषष्ठिर्वलन्ते कलाः ।तस्यैकं ननु मण्डलं तव नव क्ष्मामण्डलीसिद्धयस्तेजश्चन्द्रमसो नृचन्द्र भवतश्चैवं दवीयोऽन्तरम् ॥१३७९॥लङ्गदत्तस्य ।पीयूषं विषमप्यसूत जलधिः कान्तेः कलङ्कस्य चस्थानं शीतरुचिः स्वभावकठिनो दाता च कल्पद्रुमः ।अक्षीणप्रणयामृतस्य कलुषैरपृष्टमूर्तेरसंक्षिप्तत्यागरसोदयस्य भवतः साम्यं समभ्येतु कः ॥१३८०॥शरणदेवस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP