चाटुप्रवाहवीचयः - सुभाषित १४२१ - १४४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


११. प्रियाख्यानं

सौजन्याम्बुनिधे बुधप्रिय गुणप्राकारधर्मद्रुम
प्रारोहप्रतिपन्नवत्सल महात्यागिन्विवेकाश्रय ।
लक्ष्म्यावासमनस्विनी मनसिजव्यापारदीक्षागुरो
स्वामिन्मुञ्ज किमित्यमुं जनमुपस्प्रष्टुम् ॥१४२१॥

भोजदेवस्य । (स.क.आ. १.८६)

सौजन्याङ्कुरकन्दसुन्दरकथासर्वस्व सीमन्तिनी
चित्ताकर्षणमन्त्रमन्मथसुहृत्कल्लोलवाग्वल्लभ ।
सौभाग्यैकनिवेश पेशलगिरामाधार धैर्याम्बुधे
धर्माद्रिद्रुम राजशेखरकवे दृष्टोऽसि यामो वयम् ॥१४२२॥

अभिनन्दस्य । (सु.र. १७१४)

सङ्कल्पेऽङ्कुरितं द्विपत्रितमथ प्रस्थानवेलागमे
मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैरुद्गतम् ।
भ्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देवे त्वयि
प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेणाद्य मे ॥१४२३॥

छित्तपस्य । (सु.र. १४३५)

द्वीन्द्रं भाति जगत्त्रिधाम गगनं विश्वं चतुर्दैवतं
पञ्चाम्नायमिदं च वाङ्मयमयं षट्सायको मन्मथः ।
सप्तांशः परिवत्सरोष्टजलधिस्फारं धरामण्डलं
दिक्चक्रं नवनायकं क्षितिपतिश्रेष्ठ त्वयि भ्राजति ॥१४२४॥

तस्यैव ।

लक्ष्मीकेलिभुजङ्ग जङ्गमहरे संकल्पकल्पद्रुम
श्रेयःसाधकसङ्ग सङ्गरकलागाङ्गेय बङ्गप्रिय ।
गौडेन्द्रप्रतिराजराजकसभालङ्कारकर्णार्पित
प्रत्यर्थिक्षितिपाल पालक सतां दृष्टोऽसि तुष्टा वयम् ॥१४२५॥

जयदेवस्य ।

१२. अत्युक्तिः

मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं
चक्राङ्कं वह पादपद्ममवनिं दोष्णा समभ्युद्धर ।
लक्ष्मीं भ्रूनिकटे निवेशय भव ज्यायान्दिवौकस्पतेर्
विश्वान्तःकरणैकचौर तदपि ज्ञातो हरिः खल्वसि ॥१४२६॥

छित्तपस्य । (स.क.आ. १.९०, सूक्तिमुक्तावलि ९७.६)

दृंसज्योत्स्नाकुमुदविशदे सैकतेऽस्मिन्सरय्वा
वादद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः
स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥१४२७॥

तस्यैव ।

हस्ते कल्पतरुं मुखे हिमकरं बाह्वोरनन्ताह्वयं
रोषे तत्किल कालकूटगरलं तोषे हरिप्रेयसीम् ।
ओजस्यावृणु नाम वाडवमिमामुद्घाट्य मर्यादितां
घोषोऽयं तव नीरधे वनपते छद्मावतारे श्रमः ॥१४२८॥

मदिम्नस्य ।

उन्निद्रेण मयाद्य चिन्तितमभूद्यत्रावतारा हरेर्
आख्याता दश कीर्तितोऽसि न कथं तत्र त्वमेकादशः ।
त्वच्चारित्रमगोचरं कविगिरां जानन्नपि क्ष्मापते
न प्रस्तौमि भयेन भारतकवेः कस्तादृशं वक्ष्यति ॥१४२९॥

आचार्यगोपीकस्य ।

भूत्या रज्जय विश्वमुद्वह नखच्छद्मार्धचन्द्रं पदं
दृष्टिं धेहि हृदि स्फुटं भव वृषाधारो द्विजिह्वं त्यज ।
संक्रुद्धो दह विद्विषां पुरशतं दुर्गानुरागोज्झितः
क्षोणीनाथ तथाप्युदारचरितैर्ज्ञातो भवानीश्वरः ॥१४३०॥

वसन्तदेवस्य ।

१३. चित्रोक्तिः

सन्तः कण्टकिताः कथं यदि कृता निष्कण्टका मेदिनी
प्रख्याता यदि ते गुणाः कथमथ प्रस्तौति दोषं जनः ।
नीतावाद्यधुरन्धरो यदि भवान्कस्मादनीतिः प्रजा
वृत्तं देव न चित्रमेव हि न चेच्चित्रं विधत्ते कथम् ॥१४३१॥

समन्तभद्रस्य ।

क्षौणीन्द्र त्यजति क्षमां त्वयि रणे दोःशालिनोऽप्यक्षमाः
प्रतर्थिष्वथ कम्पमानतनुषु त्वं चापि कम्पाकुलः ।
त्वं गृह्णासि भुवः करं मृगदृशामेतेऽपि च स्वर्भुवां
तेभ्यस्तेभ्योऽधिकं नु किं गुणिभिरप्युद्गीयते यद्भवान॥१४३२॥

धोयीकस्य ।

एकस्त्रिधा हृदि सदा वससीति चित्रं
यो विद्विषां च विदुषां च मृगीदृशां च ।
तापं च संमदरसं च रतिं च तन्वन्
शौर्योष्मणा च विनयेन च लीलया च ॥१४३३॥

कस्यचित। (सु.र. १४३८, श्रीहनूमतः)

त्वं द्वित्राणि पदानि गच्छसि महीमुल्लङ्घ्य यान्ति द्विषस्
त्वं बाणान्दश पञ्च मुञ्चसि बहून्यस्त्राणि मुञ्चन्ति ते ।
ते देवीपतयस्तवासि निहतास्त्वं मानुषीणां पतिस्
ते निन्द्यास्तव वर्णनं कथमिति श्रीकर्णं निर्णीयताम् ॥१४३४॥

विद्यापतेः । (स्व२५१६)

कर्णः सर्वशिरोगतस्त्रिभुवने कर्णेन किं न श्रूतं
विश्राम्यन्ति मृगीदृशामपि दृशः कर्णे न चित्रं क्वचित।
आश्चर्यं पुनरेतदेव यदयं निश्छिद्रसन्मण्डलः
सप्ताम्भोनिधिमेखलां वसुमतीं धत्ते जगन्मण्डलः ॥१४३५॥

कस्यापि ।

१४. कार्यगर्वः

पृथुरसि गुणैः कीर्त्या रामो नलो भरतो भवान्
महति समरे शत्रुघ्नस्त्वं सदैव युधिष्ठिरः ।
इति सुचरितैर्बिभ्रद्रूपं चिरन्तनभूभृतां
कथमसि न मान्धाता देव त्रिलोकविधाय्यपि ॥१४३६॥

वीर्यमित्रस्य । (स्व२५०२, सु.र. १४१७)

त्वं चेन्नाथ कलानिधिः शशधरस्तत्तोयनाथा वयं
मर्यादानिधिरम्भसां पतिरथ त्वं चेद्वयं वारिदाः ।
सर्वाशापरिपूरको जलधरस्त्वं चेद्वयं भूरुहः
सन्मार्गस्थितिविश्रुतस्त्वमिति चेच्छाखी वयं चाध्वगाः ॥१४३७॥

कस्यचित। (सु.र. १३९२)

लभ्यन्ते यदि वाञ्छितानि यमुनाभागीरथीसङ्गमे
देव प्रेयजनस्तवैव भवतो भर्तव्यतां वाञ्छति ।
नन्वेतन्मरणान्न किं नु मरणं कायान्मनोविच्युति
दीर्घं जीव मनस्त्वदङ्घ्रिकमले कायोऽत्र नः केवलम् ॥१४३८॥

छित्तपस्य । (स.क.आ. २.३५६)

सेव्यश्चिन्तामणिर्वा सुरतरुरथवा रोहणो वा गिरीणां
भर्ता वा जातकोपे त्वयि निखिलमहादाननिर्वाजवीरे ।
एकश्चैतन्यशून्यस्त्यजति कठिनतां नापरश्छेदखेदं
धत्तेऽन्यः किंनराणामधिपतिरपरः कस्त्वयाभ्यर्थनीयः ॥१४३९॥

शरणस्य ।

प्रीतस्त्वं वेदवादैर्मम तु निरवधिर्नाथ निर्वेदवादः
साकूतस्त्वं कलासु प्रतिदिनविकला वृत्तिरेका ममैव ।
साध्यस्त्वं भावशुद्ध्या मम तु विजयते कोऽप्यभावस्तदित्थं
लीलारामो गुणानां मम विगुणनिधेः कौरुपायैरुपास्यः ॥१४४०॥

तस्यैव ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP