संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|चाटुप्रवाहवीचयः| सुभाषित १४०१ - १४२० चाटुप्रवाहवीचयः चाटुप्रवाहवीचयः सुभाषित १३७१ - १३८० सुभाषित १३८१ - १४०० सुभाषित १४०१ - १४२० सुभाषित १४२१ - १४४० सुभाषित १४४१ - १४६० सुभाषित १४६१ - १४८० सुभाषित १४८१ - १५०० सुभाषित १५०१ - १५२० सुभाषित १५२१ - १५४० सुभाषित १५४१ - १५६० सुभाषित १५६१ - १५८० सुभाषित १५८१ - १६०० सुभाषित १६०१ - १६२० सुभाषित १६२१ - १६४० चाटुप्रवाहवीचयः - सुभाषित १४०१ - १४२० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १४०१ - १४२० Translation - भाषांतर ७. दृष्टिःजनयति जननाथ दृष्टिरेषातव नवनीलसरोरुहाभिरामा ।प्रणयिषु सुसमाश्रितेषु लक्ष्मीम्अरिषु हि भङ्गमनङ्गमङ्गनासु ॥१४०१॥विद्यायाः ।प्रत्यञ्चत्खलरोहणाद्रिषु हठादामूलमुन्मूलयन्कल्पशाखिषु सुधासान्द्राः सुहृन्मण्डले ।प्रौढारातिचमूवनेषु दहनज्वालावलीभास्वराःशृङ्गारैकरसायनानि सुभग त्वद्दृष्टिपाताः पुनः ॥१४०२॥माधवस्य ।यतो यतो नृपवर पद्मपाटलंविलोचनं चलति तव प्रसीदतः ।ततस्ततो नलिनवनाधिवासिनीतदीप्सया किल कमलानुधावति ॥१४०३॥कस्यचित। (सु.र. १४५०)ते कौपीनधनास्त एव हि परं धात्रीफलं भुञ्जतेतेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा क्षितिः ।तैरेतत्समलङ्कृतं निजकुलं किं वा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥१४०४॥जयादित्यस्य । (सु.र. १४१०, शा.प. १२२४)तेषां द्वारि द्विरदपतयस्तद्वशा विश्वधात्रीतद्गेहिन्यस्तरलिततुलाकोटिसौधा नटन्ति ।हेमच्छत्रच्छुरितहरितो भूतयस्तान्भजन्तेयेषु प्रीत्या भवति भवतो दृष्टिपातप्रसादः ॥१४०५॥कस्यचित।८. भुजःवाल्मीकेः कतमोऽसि कस्त्वमथवा व्यासस्य येनैष भोःश्लाघ्यः स्यात्तव भोजभूपतिभुजस्तम्भस्तुतावुद्यमः ।पङ्गुः पर्वतमारुरुक्षसि विधुस्पर्शं करेणेहसेदोर्भ्यां सागरमुत्तितीर्षसि यदि ब्रूमः किमत्रोत्तरम् ॥१४०६॥छित्तपस्य ।अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः ।आश्चर्येण पुनः पुनः स्तुतिमिमां प्रस्तौमि यावद्भुवस्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥१४०७॥तस्यैव । (Kप्११८, Kउवल्, १८३, सूक्तिमुक्तावलि ९७.१०)मिथ्या देव भुजेन तेऽल्पविभवः कल्पद्रुमः स्पर्धतेनह्येनं भुवनत्रयाभयमहासत्री कृपाणोऽर्चति ।चिन्त्यस्तत्र भवान्सकल्पविटपी यस्यैतदेकार्णवेकल्पान्ते विनिवेश्य विश्वमखिलं छायासु शेते हरिः ॥१४०८॥तस्यैव । (स.क.आ. ३.१०१)शैलेन्द्रो दशकन्धरेण तुलितस्तं चार्जुनो हेहयः काराधाम्नि बबन्ध तस्य च भुजारण्यं मुनिश्छिन्नवान।इत्थं ग्रन्थिनिबद्धविक्रमकथासन्देहशल्याकुलत्रैलोक्यप्रतिपत्तिचुम्बकशिलास्तम्भस्तदीयो भुजः ॥१४०९॥भिक्षोः ।प्रेतान्त्रोष्णीषवध्भिर्विकटकरिशिरःकर्पराक्रान्तहस्तैःपार्श्वस्थाभिः प्रियाभिर्मदविकलपदं यत्तदप्युच्यमानैः ।हेलानिर्वारितारे यममुसलपृथुः श्लाघ्यते दक्षिणस्तेवेतालैः प्रस्तुतासु प्रतिसमरमसृक्पानगोष्ठीषु बाहुः ॥१४१०॥९. करःउद्दण्डकोकनदकोमलकोशकान्तिःकान्ताकचग्रहणकण्टकितप्रकोष्ठः ।मित्रद्विजातिरिपुवर्गविलासिनीनांसंमानदानभयभोगकरः करस्ते ॥१४११॥विद्यायाः । (सूक्तिमुक्तावलि ९७.५०)निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्थिकूटावटस्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः ।उन्नीतश्चतुरङ्गसैन्यसमरत्वङ्गत्तुरङ्गक्षुरक्षुण्णासु क्षितिषु क्षिपन्निव यशः क्षौणीजबीजव्रजम् ॥१४१२॥श्रीहर्षस्य । (ण्च्१२.६६)अस्माभिः स्मयलोलमौलिफलकैर्मुक्ताविसाराधिपं वेदोद्धारपरः करस्तव परं दानाम्बुपूतः स्तुतः ।किन्तु क्ष्मातिलक क्षमस्व कविभिः किं नाम नालोक्यते दृष्टः स्पष्टतरं तवापि निभृतः पाणौ स वैसारिणः ॥१४१३॥आचार्यगोपीकस्य ।तेषामल्पतरः स कल्पविटपी तेषां न चिन्तामणिश्चिन्तामप्युपयाति कामसुरभिस्तेषां न कामास्पदम् ।दीनोद्धारधुरीणपुण्यचरितो येषां प्रसन्नो मनाक्पाणिस्ते धरणीन्द्र सुन्दरयशःसंरक्षिणो दक्षिणः ॥१४१४॥जयदेवस्य ।देव त्वत्करपल्लवो विजयतामश्रान्तविश्राणनक्रीडास्कन्दितकल्पवृक्षविभवः कीर्तिप्रसूनोज्ज्वलः ।यस्योत्सर्गजलच्छलेन गलिताः स्यन्दानदानोदकस्रोतोभिर्विदुषां ललाटलिखिता दैन्याक्षरश्रेणयः ॥१४१५॥तस्यैव ।१०. चरणम्लक्ष्मीवशीकरणचूर्णसहोदराणित्वत्पादपङ्कजरजांसि चिरं जयन्ति ।यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥१४१६॥अभिनन्दस्य । (स.क.आ. ५.४६७, सु.र. १३९१)लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीबालुकाः ।जीयासुः कलिकालकर्णनृपते दारिद्र्यदारूदरव्याघूर्णद्धूणवृन्दलङ्घनमुषस्त्वत्पादयोः पांशवः ॥१४१७॥वल्लणस्य । (सु.र. १४१६)देवस्याङ्घ्रिनखप्रभासु निजया मौलीन्द्रनीलत्विषानिर्माय त्रिदशापगायमुनयोः संभेदमत्यद्भुतम् ।वन्द्य त्वत्पदवन्दनान्यघमिलद्दुष्कर्मनिर्मज्जनप्रायश्चित्तमिवाचरन्नरपतिः को नाम नो पुप्लुवे ॥१४१८॥प्रशस्तस्य ।लक्ष्मीविभ्रमसद्मसुभगं के नाम नोर्बीभुजोदेव त्वच्चरणं व्रजन्ति शरणे श्रीरक्षणकाङ्क्षिणः ।छायायामनुगम्य सम्यगभयास्त्वद्वीर्यसूर्यातपव्याप्तामप्यवनीमटन्ति रिपवस्त्यक्तातपत्राः ॥१४१९॥जयदेवस्य ।आ पूर्वस्माद्विडौजःकरिवमथुपयःसिक्तसानोर्गिरीन्द्राद्आ च प्रत्यक्पयोधेर्वरुणवरवधूनाभिनिष्पीतवारः ।आ मेरोरा च सेतोरवनितलमिलन्मौलिविस्रंसमानस्रग्दामानो यदीयं चरणमशरणाः पर्युपासन्नरेन्द्राः ॥१४२०॥वसुकल्पस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP