संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|दशावतारचरित्रम्| कविपरिचयः दशावतारचरित्रम् मत्स्यावतारः प्रथमः कूर्मावतारो द्वितीयः वराहावतारस्तृतीयः नृसिंहावतारश्चतुर्थः वामनावतारः पञ्चमः परशुरामावतारः षष्ठः रामावतारः सप्तमः कृष्णावतारोऽष्टमः बुद्धावतारो नवमः कर्क्यवतारो दशमः कविपरिचयः दशावतारचरित्रम् - कविपरिचयः क्षेमेंद्र के पूर्वपुरूष राज्य के अमात्य पद पर प्रतिष्ठित थे। क्षेमेंद्र संस्कृत के प्रतिभासंपन्न काश्मीरी महाकवि थे। Tags : epicpoemकाव्यदशावतारचरित्रम्महाकाव्यसंस्कृत कविपरिचयः Translation - भाषांतर यो मत्स्यकूर्मादिविचित्ररूपैर्आश्चर्यकारी हृदयस्थरत्नः ।श्रीमाननन्तः स्फुटशङ्खचक्रःश्रियेऽस्तु विष्णुर्विभवोदधिर्वः ॥१॥कश्मीरेषु बभूव सिन्दुरधिकः सिन्धोश्च निम्नाशयःप्राप्तस्तस्य गुणप्रकर्षयशसा पुत्रः प्रकाशेन्द्रताम् ।विप्रेन्द्रप्रतिपादितान्नधनभूगोसङ्घकृष्णाजिनैःप्रख्यातातिशयस्य तस्य तनयः क्षेमेन्द्रनामाभवत॥२॥तेन श्रीत्रिपुरेशशैलशिखरे विश्रान्तिसन्तोषिणाविष्णोः स्वल्पविलोकिता कृतिसुधासंवर्धितोत्कण्ठया ।वाक्पुष्पैरमलैर्गुणप्रणिहितैरम्लानशोभैः स्थिरैर्भक्तिव्यक्तदशावतारसरसः पूजाप्रबन्धः कृतः ॥३॥स्तुतिसङ्कीर्तनाद्विष्णोर्विपुलं यन्मयार्जितम् ।तेनास्तु सर्वलोकानां कल्याणकुशलोदयः ॥४॥एकाधिकेऽब्दे विहितश्चत्वारिंशे सकार्त्तिके ।राज्ये कलशभूभर्तुः कश्मीरेष्वच्युतस्तवः ॥५॥समाप्तोऽयं ग्रन्थः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP