संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|दशावतारचरित्रम्| मत्स्यावतारः प्रथमः दशावतारचरित्रम् मत्स्यावतारः प्रथमः कूर्मावतारो द्वितीयः वराहावतारस्तृतीयः नृसिंहावतारश्चतुर्थः वामनावतारः पञ्चमः परशुरामावतारः षष्ठः रामावतारः सप्तमः कृष्णावतारोऽष्टमः बुद्धावतारो नवमः कर्क्यवतारो दशमः कविपरिचयः दशावतारचरित्रम् - मत्स्यावतारः प्रथमः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्. Tags : epicpoemकाव्यदशावतारचरित्रम्महाकाव्यसंस्कृत मत्स्यावतारः प्रथमः Translation - भाषांतर अशेषविश्ववैचित्र्यरचनारचये नमः ।मायागहनगूढाय नानारूपाय विष्णवे ॥१॥देवः पायादपायात्त्रिभुवनभवनस्तम्भभूतः स युष्मान्आयुष्मान्यस्य भक्त्या प्रभवति पुरुषः स्वर्गमार्गेऽपवर्गः ।मत्स्यः कूर्मो वराहः पुरुषहरिवपुर्वामनो जामदग्न्यःकाकुत्स्थः कंसहन्ता स च सुगतमुनिः कर्किनामा च विष्णुः ॥२॥आदिमत्स्यः स जयताद्यः श्वासोच्छ्वासितैर्जलैः ।गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥३॥तं नमस्कुर्महे कूर्मं यः कपाटमसङ्कटम् ।अतीतसर्वब्रह्माण्डमवशेषमिवावहत॥४॥वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् ।अधोधृतार्धच्छत्रेव तलस्थार्कातपासहा ॥५॥जयाय नृहरिर्वोऽस्तु दैत्योरःशोणितार्णवे ।हारमौक्तिकगर्भास्ताश्चेरुर्यन्नखशक्तयः ॥६॥त्रिविक्रमोऽस्तु भूत्यै वः प्राग्लघ्वी मध्यमा ततः ।यस्य पश्चादनन्ताभूत्सत्सङ्गतिरिवाकृतिः ॥७॥अभग्नं जामदग्न्यो वः प्रयच्छतु जयोदयम् ।यत्कुठारकठोराग्नौ भूपालैः शलभायितम् ॥८॥नौमि रामं रिपोश्चक्रे यः काञ्चननिभैः शरैः ।होमानलशिखारूढमिव वक्त्रवनं पुनः ॥९॥शौरिर्जयति कंसस्य जीवितप्रथमातिथिः ।यश्चक्रे चक्रदानेन बाणबाहुप्रतिग्रहम् ॥१०॥यस्य सभ्रूभ्रमाकम्पा माररामाः ससैनकाः ।चक्रुर्न रागं न द्वेषं स शान्त्यै सुगतोऽस्तु वः ॥११॥स्वच्छन्दप्रोच्छलन्म्लेच्छतिमिरोद्भेदसच्छविः ।कर्किविष्णुः प्रकाशाय प्रभातार्क इवास्तु ॥१२॥अवतारकथायुक्त्या भक्त्या भगवतो हरेः ।श्रीव्यासदासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥१३॥स्वजनस्थितिखिन्नस्य पुण्यारण्यविहारिणः ।हरिभक्तिरसासिक्ताः श्रूयन्तां मम सूक्तयः ॥१४॥सन्तोषो यदि कीं धनैः सुखशतैह्किं यद्यनायत्ततावैराग्यं यदि किं व्रतैः किमखिलैस्त्यागैर्विवेको यदि ।सत्सङ्गो यदि किं दिगन्तगमनप्रस्थानतीर्थश्रमैः श्रीकान्ते यदि भक्तिरप्रतिहता तत्किं समाधिक्रमैः ॥१५॥लसति हसति हर्षात्तीव्रदुःखे परेषांस्खलति गलति मोहादात्मनः क्लेशलेशे ।नदति वदति निन्द्यं मानिनां किं न नीचः परुषवचनमल्पं श्रावितो हन्तुमेति ॥१६॥पुण्यान्यहीनहरिणानि तपोवनानिसत्सङ्गतानि शमधर्मविवेचनानि ।एतानि तानि भवबन्धविमोचनानिचर्चोचितानि चरितानि च चक्रपाणिः ॥१७॥मान्यः किल मनुर्नाम जगज्ज्येष्ठः प्रजापतिः ।चचार पूर्वमुर्व्यां यः सर्वतीर्थपथातिथिः ॥१८॥स बदर्याश्रमं प्राप्य नरनारायणाश्रयम् ।हरिसन्दर्शनधिया चचार सुचिरं तपः ॥१९॥तं कदाचिदतिस्वल्पतनुस्तनुतरेऽम्भसि ।उवाच तलसंलीनस्त्रासान्मत्स्यशिशुः शनैः ॥२०॥भीतोऽहं स्थूलमत्स्येभ्यो रक्ष मां करुणानिधे ।भक्षयन्ति क्षुधा नित्यं दुर्बलं बलवत्तराः ॥२१॥आश्वासनं विषमशोकविमोहितस्यभीतस्य भीतिशमनं कृशपक्षपातः ।धृत्यै विपन्निपतितस्य करावलम्बःसम्पूर्णपुण्यनिचयस्य समुच्चयोऽयम् ॥२२॥मुनिः श्रुत्वैतदाश्चर्यकारि मत्स्यशिशोर्वचः ।दयार्द्रस्तं समादाय जलकुम्भान्तरेऽक्षिपत॥२३॥अवर्तमानं कालेन तत्र वृद्धिमुपागतम् ।समीपवाप्यां चिक्षेप गङ्गायामथ सागरे ॥२४॥कालेन सकलाम्भोधिव्यापी विपुलविग्रहः ।कौतुकालोकनायातं मनुं मत्स्यः समभ्यधात॥२५॥अधुना विषमः कालः कलुषः समुपस्थितः ।विपरीतनिमित्तानि प्रवृत्तानि प्रजापते ॥२६॥परदारपरप्राणपरवित्तापहारिणः ।विचरन्ति नराः कामक्रोधलोभपरायणाः ॥२७॥धनं नास्त्यस्ति वा स्तोकं तदधर्म्यं न तिष्ठति ।मुष्णाति दक्षिणं पाणिं वामो वामं च दक्षिणः ॥२८॥दास्यं द्विजः श्रयति शूद्रतपस्विशिष्यःशूद्रान्वयः कृषिवणिक्क्रियया कृतार्थः ।वैश्यः स्वजात्यरुचिविप्रविवाहकारीहोता गुरु वदति मन्त्रपदानि शूद्रः ॥२९॥शौचं नास्ति कुतः परोपकृतयः सत्यस्य वार्तैव कारौद्रः क्षुद्रतया परं परधनद्रोही दरिद्रो जनः ।लेशेनापि सुखं खपुष्पसदृशं स्वैरापचाराः स्त्रियःसम्पूर्णं युगसंक्षेपयस्य पुरतः संलक्ष्यते लक्षणम् ॥३०॥कल्पान्तघनसङ्घातनिर्घातसलिलाहतम् ।जगदेकार्णवीभूतमचिरेण भविष्यति ॥३१॥सर्वबीजभूतां तस्मिन्काले सप्तर्षिभिः सह ।मत्सृष्टां नावमारुह्य स्थातव्यं स्थितये ॥३२॥मनःप्रकम्पनं श्रुत्वा मत्स्यस्य वचनं मनुः ।तत्तथेति प्रतिश्रुत्य जगाम निजमाश्रमम् ॥३३॥अथोद्ययौ दिशां देहपरित्यागाग्निमण्डली ।कालजिह्वासमूहाभा द्वादशार्कोदयद्युतिः ॥३४॥अनेकोच्चण्डमार्तण्डप्लुष्टे भुवनमण्डले ।चराचरजगत्सर्वः सहसा भस्मसादभूत॥३५॥अथादृश्यत कार्तान्तमहिषस्येव सन्ततिः ।निर्दग्धजगदङ्गारमलिना मेघसन्ततिः ॥३६॥ततः पपात नीरन्ध्रधारासारभरः क्षितौ ।विश्वसङ्क्षयशोकाश्रुप्रवाहः ककुभामिव ॥३७॥संवर्तकानलप्लुष्टे सप्तपातालमण्डले ।कल्पान्तपवनापातभग्ने ब्रह्माण्डमण्डपे ॥३८॥पुष्करावर्तकाम्भोभृत्सृष्टवृष्टिसमुत्प्लवैः ।जगदेकार्णवीभूतं क्षणेन समपद्यत ॥३९॥ (युग्मम्)विपुले विप्लवे तस्मिन्मत्स्यस्य वचनं स्मरन।भुजविक्षिप्तसलिलस्तं द्रष्टुमगमन्मनुः ॥४०॥स ददर्श महामत्स्यं चण्डांशुशशिलोचनम् ।कृतैक्यमिव संहारे दिनरात्रिप्रकाशयोः ॥४१॥बिभ्राणं मेरुसङ्काशं शृङ्गं शिरसि काञ्चनम् ।अम्भोभिरावृतस्थानं निर्यान्तमिव बाडवम् ॥४२॥पुच्छाच्छोटोच्छलितसलिलालोलकल्लोलजालैःश्वासाभ्यासप्रसरदमलोत्तुङ्गरङ्गत्तरङ्गैः ।खं कुर्वाणं श्रितमिव घनोल्लासकैलासलक्षैर्दृष्ट्वा मत्स्यं हरिरिति मनुस्तत्प्रणामानतोऽभूत॥४३॥तदुच्चशृङ्गसंलग्नां नावं धृतिमिवायताम् ।आरुरोह गिरा तस्य सह सप्तर्षिभिर्मनुः ॥४४॥तस्मिन्काले निरालम्बे मार्कण्डेयो निराश्रयः ।देवर्षिः सलिलग्रस्तं दृष्ट्वा जगदचिन्तयत॥४५॥अहो बत महानेष कालः सङ्कलिताखिलः ।जगद्ग्रासरसाभ्यासादनिशं न निवर्तते ॥४६॥क्व स सनगरग्रामग्रामः समग्रगिरीश्वरःप्रथितभुवनाभोगः सेन्दुग्रहार्कगतिर्गतः ।अहह कुटिलस्वप्नोत्पन्नैरिवाश्रितविभ्रमैर्भ्रमयति भवे भावैः कालः कृतैरथ संहृतैः ॥४७॥मान्यास्ते मुनयस्तपोवनबुवस्तास्तीर्थसार्थार्थिताःशौर्योत्साहमहोदयाः क्व बत ते भूभूषणं भूमिपाः ।अन्ते सज्जनमन्युनीचविनयस्त्रीचित्तधूर्तभ्रमस्वप्नाकारमधर्मलब्धधनवत्कष्टं न किंचित्स्थितम् ॥४८॥इति सचिन्तयन्दोर्भ्यां विक्षिप्तसलिलस्तरन।तामासाद्य मुनिर्नावमाललम्बेऽम्बरोन्मुखीम् ॥४९॥आकृष्यमाणः स तया मत्स्यशृङ्गाग्रकृष्टया ।मग्नोन्मग्नः प्रपेदेऽन्तं संसारस्येव नाम्भसः ॥५०॥त्वङ्गत्तुङ्गतरङ्गभङ्गविहितव्योमाङ्गनालिङ्गनेवाताघातविभक्तयोजनशतावर्ते च निम्नेऽन्यतः ।अक्षोभस्थितिनिश्चले स्फटिकभूतुल्ये प्रसन्ने क्वचिन्नासालग्नजलः श्वसन्मुनिवरस्तोये श्रमार्तोऽभवत॥५१॥अनर्कचन्द्रनक्षत्रे दिनरात्रिविवर्जिते ।अप्रमाणे गते काले मध्यं प्रापाम्भसो मुनिः ॥५२॥तत्र सप्तर्षिभिर्जुष्टां मनुना च प्रजासजा ।नावं मत्स्यं च नापश्यन्मुह्यमानमना मुनिः ॥५३॥अथ विद्रुमवैदूर्यहेमशाखासहस्रिण ।उद्गतस्याम्भसो मध्यान्न्यग्रोधस्य महातरोः ॥५४॥अङ्के पर्यङ्कबन्धेन स्थितं कमललोचनम् ।ददर्श श्यामलं बालं दीप्ताभरणभूषितम् ॥५५॥ (युग्मम्)तत्समीपमवाप्तोऽथ स मुनिर्जलविह्वलः ।निपीतः शिशुना तेन पयश्चुलुकलीलया ॥५६॥तस्योदरे सगिरिगह्वरसागराणिद्वीपापगानगरतीर्थतपोवनानि ।पश्यन्नशेषभुवनान्यनिशं महर्षिर्नैवान्तमन्तरचरः क्वचिदाससाद ॥५७॥प्रयाते विपुले काले निष्क्रान्तस्तन्मुखान्मुनिः ।अपश्यन्नाभिजाम्भोजे तस्य जातं प्रजासृजम् ॥५८॥ब्रह्मणो मानसाज्जातैः प्रजापतिभिरद्भुतः ।मनुमुख्यैः कृतः प्राग्वत्सर्गः पुनरदृश्यत ॥५९॥अथ बहुविधवर्णाकारचेष्टानुभावंसमविषमविभागं कर्मरेखाविभागैः ।नवविधिविहितं तद्विश्वनिर्माणचित्रंभुवनभवनभित्तिव्यक्तसंसक्तमासीत॥६०॥इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचितेदशावतारचरिते मत्स्यावतारः प्रथमः ॥१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP