संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|दशावतारचरित्रम्| कूर्मावतारो द्वितीयः दशावतारचरित्रम् मत्स्यावतारः प्रथमः कूर्मावतारो द्वितीयः वराहावतारस्तृतीयः नृसिंहावतारश्चतुर्थः वामनावतारः पञ्चमः परशुरामावतारः षष्ठः रामावतारः सप्तमः कृष्णावतारोऽष्टमः बुद्धावतारो नवमः कर्क्यवतारो दशमः कविपरिचयः दशावतारचरित्रम् - कूर्मावतारो द्वितीयः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्. Tags : epicpoemकाव्यदशावतारचरित्रम्महाकाव्यसंस्कृत कूर्मावतारो द्वितीयः Translation - भाषांतर दक्षस्ततः सर्गविधानदक्षःप्रजापतिः कान्तिविभूषिताशः ।एकधिकाः सर्वगुणोन्नतेभ्यःशतार्धसङ्ख्याः प्रददौ स्वक्न्याः ॥१॥ज्येष्ठामुमाख्यां भगवान्पिनाकीत्रयोदशान्याः किल कश्यपश्च ।सप्ताधिकां विंशतिमत्रिपुत्रश्चन्द्रः प्रपेदे दशकं च धर्मः ॥२॥असूत देवानदितिः समस्तान्दैत्यान्दितिः कश्यपतः क्रमेण ।कद्रूश्च नागान्गरुडारुणौ चखगादिनाथौ विनताभिधाना ॥३॥दनुस्तथा दानवसङ्घमुग्रंशुनां जनित्री सरमा बभूव ।अन्यासु चाभूदथ कश्यपस्य हंसादिभेदेन विहङ्गवर्गः ॥४॥ततः सुराणां बलवत्तराणांदितेः सुतानां च भुजोर्जितानाम् ।दुग्धोदधौ मन्दरभूधरेणसुधाप्तये मन्थमनोरथोऽभूत॥५॥अथार्थितोऽभ्येत्य हिताय विष्णुःसुरासुरैः प्रीतिधृतैककार्यः ।मन्थक्षमं मन्दरमादरेणदलद्दरीकन्दरमुज्जहार ॥६॥तटे निविष्टेषु सुरासुरेषु तार्क्ष्यध्वजं क्षीरनिधिर्निरीक्ष्य ।प्रक्षेप्तुमभ्युद्यतमद्रिराजंकृताञ्जलिर्विग्रहवानुवाच ॥७॥चतुर्मुखः सृष्टिमिमं तनोषिविष्णुः स्थितिं पासि जगन्निवास ।अन्ते हरः संहरसि त्रिलोकीम्एकस्त्रिधा कारणभेदतस्त्वम् ॥८॥भवद्भुजोत्क्षेपरयेण मुक्तःस्वातन्त्र्यनिर्यन्त्रगतिः प्रमाथी ।न सप्त पातालतलावभेदी क्वाप्येष विश्राम्यति शैलराजः ॥९॥मन्थप्रयत्नो यदि सर्वथैवतच्चिन्त्यतामस्य धृतिर्महार्द्रेः ।वोढुं दृढोपक्रमकार्यभारंधृत्या विहीनः किल कः समर्थः ॥१०॥यथार्थमाकर्ण्य सुधार्णवोक्तंयुक्तं विनिश्चित्य तथेति विष्णुः ।मन्थोद्यमे मन्दरधारणायद्वितीयरूपेण बभूव कूर्मः ॥११॥घनप्रमोदप्रतिमेन तेनविस्तारिणान्तः परिपूर्यमाणः ।तरङ्गदोर्भिर्गगनाग्रगङ्गांक्षीरोदधिः क्षीव इवालिलिङ्ग ॥१२॥क्षिप्रस्य सावेगमथाच्युतेनसेहे भरं भूमिभृतः स कूर्मः ।नवेश्वरस्येव विशृङ्खलस्यस्वकार्यसिद्ध्यै मतिमान्विकारम् ॥१३॥गिरा गरीयान्गरुडध्वजस्यवक्रक्रियां वासुकिरादधानः ।आकर्षयोग्यं हृदयग्रहेण चक्रे गिरिं मुग्धमिवातिधूर्तः ॥१४॥अथाद्रिनाथे त्रिगुणानुबद्धंमन्थोत्थिता मन्थनकार्यसिद्ध्यै ।भुजङ्गराजं जगृहुर्महेच्छाःपुच्छेन देवा वदनेन दैत्याः ॥१५॥अथ मथनविधाने क्षोभनेऽब्धेः प्रवृत्तेभुवनभवनभङ्गभ्रान्तिहेतुर्बभूव ।कठिनकमठपीठप्रष्ठपृष्ठप्रतिष्ठप्रविलुठदचलेन्द्रोद्घातनिर्घातघोषः ॥१६॥ततः श्रियः स्फाटिकमण्डपाभंदन्तायतस्तम्भचतुष्टयाङ्कम् ।मन्थोत्थमैरावतमिन्दुशुभ्रंद्विपेन्द्रमिन्द्राय ददावुपेन्द्रः ॥१७॥स सत्त्वमुच्चैः श्रवसं च सप्तिंनिर्दोषमुत्साहगौणौपपन्नम् ।प्रभाभिरामं सकलक्रियार्हं सूरप्रतापोदयसुप्रकाशम् ॥१८॥श्रमश्वसद्वासुकिसृग्विनिर्यद्विषानलोल्काविकरालवक्त्रान।विलोक्यदैत्यान्पुरतः पयोधेर्अथोद्ययौ हास इवामृतांशुः ॥१९॥स्वयं समादाय हरिर्हिमांशुंहरस्य चूडाभरणीचकार ।गुणोचितस्थानसमर्पणेनपुष्णन्ति मानं महतां महान्तः ॥२०॥अथोदितं कौस्तुभमब्जनाभःस्वभावहृद्यं हृदये बबन्ध ।सम्पूरिताशं विशदप्रकाशःकृतज्ञधीः साधुरिवोपकारम् ॥२१॥समुन्मिषद्विद्रुमहेमशाखासहस्रनिर्यन्नवरत्नपत्रः ।जातः सुधाब्धेरथ पारिजातःस्वयं महेन्द्रोपवनं जगाम ॥२२॥अथोद्ययावुत्कालकूटः समीरसम्मोहितदेवदैत्यः ।दानोद्यतस्य स्वरसेन सिन्धोर्अत्यर्थमर्थार्थनयेव कोपः ॥२३॥विष्णोर्गिरा विश्वहितप्रवृत्तःशिवस्तदत्युग्रतरं निगार्य ।गौरीपरिष्वङ्गरसादिवाभूत्कपोलकालागुरुनीलकण्ठः ॥२४॥सुधाब्धिमध्यान्नवनीतमृद्वीम्अभ्युद्गतां कान्तितरङ्गिताङ्गीम् ।ततः श्रियं श्रीरमणः प्रपेदेस्वयंवरक्षिप्तकटाक्षमालाम् ॥२५॥अथौषधीनां घनसौरभेणश्रमापहारी त्रिदशासुराणाम् ।हर्षाय धन्वन्तरिराविरासीत्पीयूषपूर्णः कलशश्च पश्चात॥२६॥सुरापनीतद्विरदाश्वरत्नशशाङ्कलक्ष्म्यक्षमिणोऽतिजिह्माः ।दिवौकसां मूलवधे प्रवृत्तादैत्याः सुधां जह्नुरलक्ष्यवेगाः ॥२७॥पीयूषपूर्णं कलशं जवेनहृत्वा प्रयातेष्वसुरेषु विष्णुः ।मन्याचलेन्द्रं स्वपदे निधायक्षणं प्रदध्यौ विबुधार्थसिद्धिम् ॥२८॥सुनिर्मलाङ्गीं सुरवैरिवासांवामाकृतिं कामकृपाणवल्लीम् ।तनीयसीं विश्वतनुस्तनुं स्वांलावण्यलीलालहरीं चकार ॥२९॥तरलदलनलीलामित्रनेत्रत्रिभागैःश्रवणकुवलयस्य क्लैब्यमापादयन्ती ।अमृतहरणहेलादृप्तदैत्येश्वराणांहृदयहरणसज्जा सा समीपं जगाम ॥३०॥शृङ्गारिणीं भगवतस्तनुमच्युतस्यदृष्ट्वाद्भुतां त्रिभुवनाभिमतां बभूव ।भव्यप्रभावविभवाय मनोभवस्यतद्विभ्रमप्रभवभावभवोऽभिमानः ॥३१॥मनसिजविजयोद्यद्यद्वैजयन्तीविलासांतुहिनकिरणहासां तां विलोक्यैव दैत्याः ।झटिति गतविवेकाः शेकुराश्चर्यमोहाद्अमृतमनृतलब्धं नैव पातुं न हातुम् ॥३२॥सन्त्यज्य लब्धामृतपाणतृष्णांते प्रेमलब्धामृतपानलुब्धाः ।गाढाभिलाषोष्णविषानुबन्धाद्ऊचुर्मिथः प्रस्खलितप्रतापाः ॥३३॥पूर्णेन्दुर्वदने गतौ गजपतिर्लावण्यसारे सुधाश्रीर्गात्रे मधुराधेर्ऽरुणमणिः सम्भाव्यते सुभ्रुवः ।नीतं यत्त्रिदशैरहो सुमतिना भीतेन दुग्धाब्धिनातत्सर्वं परितोषणाय वनिताव्याजेन नः प्रेषितम् ॥३४॥तीव्रश्रमाप्तममृतं यदि बुद्धिमोहाद्एतत्कराम्बुरुहदत्तमिदं न पीतम् ।तत्किं वृथा दलितकन्दरमन्दराद्रिम्अन्द्यैरुपद्रवशतैः परिखेदितोऽब्धिः ॥इत्युक्त्वामृतपूर्णरत्नकलशं तस्यै ददुर्दानवाःसाप्यादाय तमम्बरेण सहसा धामामराणां ययौ ।अन्यायेन यदर्जितं कथमिह स्वास्थ्येन तद्भुज्यतेयत्नात्तोऽपि पलायते विहगवन्मूढस्य हस्तान्निधिः ॥३६॥प्रत्याहृतं तत्कमलाघवेन पातुं प्रवृत्तेष्वमृतं सुरेषु ।विवेश राहुः सुररूपगूढस्तन्मध्यमास्वादविशेषलुब्धः ॥३७॥जिह्वाग्रलग्नं रससारमाद्यं आस्वादयन्विस्मयलोलवक्त्रः ।राहुर्मुहुः कातरतामवाप्तः संसूचितः सोमदिवाकराभ्याम् ॥३८॥अर्धग्रोत्काररावप्रविलुठदमृते कण्ठपीठेऽथ राहोर्वक्त्रस्य क्रूरकोपात्क्रमरहिततया चक्रिचक्रेण कृत्ते ।निर्यान्ती व्यक्तरक्तस्रतिभरशबला शेषपीयूषधाराहाराग्रालीनपीनारुणमणिकिरणश्रेणिशङ्कां चकार ॥३९॥इति स भगवान्विष्णुः कूर्माकृतिर्धृतभूधरःसुरहितविधौ बद्धश्रद्धः सुधां विदधेऽम्बुधेः ।अविचलतया संसक्तानां परोपकृतिव्रतेभवति महतां स्फीतोत्साहे मनागपि न श्रमः ॥४०॥इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचितेदशावतारचरिते कूर्मावतारो द्वितीयः ॥२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP