संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - तृतीयप्रपाठकः| दशमी दशतिः छन्द आर्चिकः - तृतीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः तृतीयप्रपाठकः - दशमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद दशमी दशतिः Translation - भाषांतर इत ऊती वो अजरं प्रहेतारमप्रहितं ।आशुं जेतारं हेतारं रथीतममतूर्तं तुग्रियावृधं ॥२८३॥मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥२८४॥सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे ।पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥२८५॥यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयं ।सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥२८६॥शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतं ।मा वां रातिरुप दसत्कदा च नास्मद्रातिः कदा च न ॥२८७॥यदा कदा च मीढुषे स्तोता जरेत मर्त्यः ।आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानां ॥२८८॥पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे ।यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ॥२८९॥उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥२९०॥महे च न त्वाद्रिवः परा शुल्काय दीयसे ।न सहस्राय नायुताये वज्रिवो न शताय शतामघ ॥२९१॥वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥२९२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP