संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - तृतीयप्रपाठकः| सप्तमी दशतिः छन्द आर्चिकः - तृतीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः तृतीयप्रपाठकः - सप्तमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद सप्तमी दशतिः Translation - भाषांतर शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः ।भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥२५३॥या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः ।स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२५४॥प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो ।वरूथ्ये३ वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत ॥२५५॥अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यं ॥२५६॥प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥२५७॥बृहदिन्द्राय गायत मरुतो वृत्रहन्तमं ।येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥२५८॥इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥२५९॥मा न इन्द्र परा वृणग्भवा नः सधमाद्ये ।त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥२६०॥वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥२६१॥यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु ।यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि प्ॐस्या ॥२६२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP