संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - तृतीयप्रपाठकः| अष्टमी दशतिः छन्द आर्चिकः - तृतीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः तृतीयप्रपाठकः - अष्टमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद अष्टमी दशतिः Translation - भाषांतर सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता ।वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥२६३॥यच्छक्रासि परावति यदर्वावति वृत्रहन् ।अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति ॥२६४॥अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसं ।इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥२६५॥इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये ।छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥२६६॥श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥२६७॥न सीमदेव आप तदिषं दीर्घायो मर्त्यः ।एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते ॥२६८॥आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥२६९॥तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमं ।सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ॥२७०॥क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥२७१॥वयमेनमिदा ह्योपीपेमेह वज्रिणं ।तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥२७२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP