संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - तृतीयप्रपाठकः| पञ्चमी दशतिः छन्द आर्चिकः - तृतीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः तृतीयप्रपाठकः - पञ्चमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद पञ्चमी दशतिः Translation - भाषांतर अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥२३३॥त्वामिद्धि हवामहे सातौ वाजस्य कार्वः ।त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥२३४॥अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥२३५॥तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥२३६॥तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं ॥२३७॥तरणिरित्सिषासति वाजं पुरन्ध्या युजा ।आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवं ॥२३८॥पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः ॥२३९॥त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥२४०॥न हि वश्चरमं च न वसिष्ठः परिमंस्ते ।अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः ॥२४१॥मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥२४२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP