संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - तृतीयप्रपाठकः| नवमी दशतिः छन्द आर्चिकः - तृतीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः तृतीयप्रपाठकः - नवमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद नवमी दशतिः Translation - भाषांतर यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥२७३॥यत इन्द्र भयामहे ततो नो अभयं कृधि ।मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥२७४॥वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानां ।द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा ॥२७५॥बण्महां असि सूर्य बडादित्य महां असि ।महस्ते सतो महिमा पनिष्टम मह्ना देव महां असि ॥२७६॥अश्वी रथी सुरूप इद्गोमां यदिन्द्र ते सखा ।श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप ॥२७७॥यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥२७८॥यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः ।सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥२७९॥कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति ।श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ॥२८०॥इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः ।हित्वा शिरो जिह्वया रारपच्चरत्त्रिंशत्पदा न्यक्रमीत् ॥२८१॥इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।आ शं तम शं तमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥२८२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP