TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तत्त्वचिन्तामणी - विधिवादसिद्धान्तः

तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे.


विधिवादसिद्धान्तः
अत्रोच्यते ।

विषभक्षणादिव्यावृत्तं कृतिसाध्यत्वज्ञाने इष्टसाधनत्वं विषयतयावच्छेदकं लाघवात्, न तु स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वं गौरवात् ।

न च सिद्धासिद्धावस्थयोः साध्यत्व-साधनत्वयोर्विरोधः, निर्विशेषितयोस्तयोरविरोधात् ।

पाकोऽसिद्धः साध्यः सिद्धः साधनञ्चेत्युनुभवात् ।

तदा साध्यत्वं हि तदा साधनत्वस्य विरोधि नियमतस्तेनैव तस्य प्रतिक्षेपेण सहानवस्थाननियमात्, न तु साधनत्वस्यान्यदा साधनत्वस्य वा, तयोरप्रतिक्षेपात् ।

अन्यदा साधनत्वेऽपि साधनत्वमस्त्येव सामान्याभावे विशेषाभावप्रसङ्गात् । एवन्तदा असिद्धत्वस्य तदा सिद्धत्वं विरोधि नियमतस्तस्यैव प्रतिक्षेपात्, न तु सिद्धत्वमात्रं, अन्यदपि तत्र सिद्धत्वाभावप्रसङ्गात्, निर्विशेषितयोर्विरोधे च सिद्धत्वयोश्चान्यतरदेव पाकादौ स्यान्न तु समयभेदेऽप्युभयम् ।

न च तदा कृतिसाध्यत्वे सति तदेष्टसाधनत्वज्ञानं प्रवर्तकं, अत एव वाजपेयेन यजेतेत्यत्र यागस्य करणावस्थायां सिद्धत्वेन न वाजपेयस्य साध्यता एकदा तयोर्विरोधादिति कर्मनामधेयत्वं, न तु करणस्य सिद्धत्वेन साध्यत्वविरोधः योगस्वरूपे तयोः सत्त्वात् ।

अथ विरुद्धयोरवच्छेभेदमादय एकत्र प्रतीतिः स्यात् ।

न च कृतिसाध्यत्वेष्टसाधनत्वयोः समयभेदमादयैकत्र प्रतीतिरस्ति, तथा लिङ्गाभावादिति चेत्, न, साध्यत्व-साधनत्वयोरविरोधस्योक्तत्वात्, एवं सिद्धत्वासिद्धत्वयोर्भावाभावरूपत्वेऽपि न विरोधः एकधर्मिगत्वेन मानसिद्धत्वात् ।

तस्मात् संयोग-तदभावयोरिव येन प्रकारेण ययोर्विरोधः तेन तयोरेकधर्मिगतत्वं न प्रतीयते, न तु रूपान्तरेणापीति ।

अपि च यदि साध्यत्व-साधनत्वयोर्विरोधस्तदा तवापीष्टसाधनत्वेन कार्यसाधनत्वेन वा कार्यत्वं नानुमीयते हेतु-साध्ययोर्विरोधेन सामानाधिकरण्याभावेन व्याप्त्यसिद्धेः पक्षे साध्य-साधनयोरन्यतरसत्त्वे बाधासिध्योरन्यतरप्रसङ्गाच्च ।

न च वाच्यमिदानीं मत्कृतिसाध्यत्वं साध्यमग्रे मदिष्टसाधनत्वं हेतुः दैवाद्यनधीनत्वे सति यदग्रे मदिष्टासाधनं तदिदानीं मत्कृतिसाध्यमिति व्याप्तिः तथाच समयभेदमादाय साध्यत्व-साधनत्वयोरवगम इति, इदानीमग्रिमपदार्थयोर्नानात्वादनुगतरूपाभावेन व्याप्तेरग्रहात्, पाकन्यायेनान्यत्रापि तत्तत्समयान्तर्भावेन साध्यत्व-साधनत्वयोरप्रतीतिः, प्रतीतौ वा ममापीदानीं कृतिसाध्यत्वे सत्यग्रे इष्टसाधनमिति ज्ञानं प्रवर्तकमस्तु ।

न च पाके साध्येष्टकत्वेन कृतिसाध्यत्वमनुमेयं, असिद्धावस्थावतो हि पाकादिष्टानुत्पत्तेः पाकस्य सिद्धत्वमवगम्य तत्साध्यत्वमिष्टस्यावगन्तव्यमसिद्धत्वञ्चावगम्य कृतिसाध्यत्वमिति सिद्धत्वासिद्धत्वयोर्विरोधोऽत्रापि दुर्वारः ।

अपि च स्वविशेषणधीजन्यकार्यताज्ञानाभावात् सुखे कथं चिकीर्षा, न हि कृतिसाध्यताज्ञानमात्रात्, सा, सञ्जातबाधस्य विषभक्षणादौ चिकीर्षाप्रसङ्गात् ।

अथोपायचिकीर्षायां तत्कारणं इच्छाकरणसुखत्वज्ञाने कृतिसाध्यत्वं यदा विषयस्तदा सुखे चिकीर्षा नो चेदिच्छामात्रमिति द्वयमेव चिकीर्षाहेतुरिति चेत्, तर्हीच्छाहेतुज्ञाने यदा कृतिसाध्यत्वं भासते ताद चिकीर्षा नो चेदिच्छामात्रमित्येव सुख-तदुपायचिकीर्षाकारणमस्तु लाघवात्, सुखत्वज्ञानवदिष्टसाधनताज्ञानस्यापीच्छाकारणत्वात् ।

अत एव पाके इष्टसाधनताज्ञाने कृतिसाध्यत्वं विषय इति तत्र चिकीर्षा न तु वृष्ट्यादिज्ञाने तद्विषयत्वमितीच्छामात्रं, सुखचिकीर्षायामिच्छाकारणज्ञाने कृतिसाध्यताविषयके चिकीर्षाजनकत्वावधारणात् ।

अन्यथा तत्र चिकीर्षानुत्पत्तेः ।

वस्तुतस्तूपायचिकीर्षा इष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावत् ।

न च भोगचिकीर्षावत्तेन विनापि स्यादित्यप्रयोञ्जकत्वं, उपायेच्छायास्तदन्वय-व्यतिरेकानुविधानात् वृष्टेश्च स्वतोऽसुन्दरत्वेनेच्छानुत्पत्तेः अनुगतोपायेच्छायां अनुगतस्य प्रयोजकत्वे सम्भवति बाधकं विना त्यागायोगाच्च ।

न च चिकीर्षान्यत्वे सति उपायेच्छात्वं इच्छात्वं वा ।

तज्जन्यत्वे प्रयोजकं, गौरवात् सुखेच्छायां तदभावाच्च ।

एवञ्चोपायचिकीर्षायामिष्टसाधनत्वज्ञाने ध्रुवेऽतिप्रसङ्गवारणार्थं कृतिसाध्यत्वनिर्वाहार्थञ्च कृतिसाध्यत्वमपि विषयतयावच्छेदकमस्तु न तु तद्विहाय तन्मात्रं, क्प्तकारणं विना कार्यानुपपत्तेः ।

अत एव स्तनपानप्रवृत्तावप्युपायेच्छाकारणत्वेन गृहीतस्येष्टसाधनत्वज्ञानस्यापि कल्पनं दृष्टानुरोधित्वात् कल्पनायाः ।

ननु साधनत्वमिच्छाविरोधि तस्य सिद्धधर्मत्वात् वृष्ट्यादौ तत्साध्येष्टज्ञानादिच्छेति चेत् न, निर्विशेषितयोः सिद्धत्वासिद्धत्वयोरविरोधेनेच्छासाधनत्वयोरविरोधात् ।

तदासिद्धत्वं तदा सिद्धत्वञ्च नेच्छासाधनत्वयोः प्रयोजकमिति तथा न ज्ञायत एव ।

यत्तु तत्साध्येष्टज्ञानाद् वृष्ट्यादाविच्छेति, तत्तुच्छं, असिद्धावस्थाद्वृष्ट्यादेरिषेटानुत्पत्तेस्तस्यावश्यं सिद्धत्वमवगन्तव्यमिच्छानुरोधित्वाच्चासिद्धत्वमिति,

तत्रापि विरोध एव ।

वृष्टौ सत्यामिष्टं तया विना नेत्यन्वय-व्यतिरेकग्रहस्य वृष्टिसिद्धत्वमादाय वृष्टिनिरूपितेष्टसाध्यकत्वग्राहकत्वात् ।

किञ्च चिकीर्षाजन्यकृतिसाध्यं मण्डलीकरणमित्यर्थप्रतिपादकंऽमण्डलीं कुर्यादिति वाक्यं प्रमाणं स्यात्विषयाबाधात् ।

एतेन नवीनमतमप्यपास्तं, परस्य हि कृतिसाध्यत्वौदनकामनावत्त्वेष्टसाधनताज्ञानानां ज्ञानं तथा आत्मन ओदनकामानावत्तेवष्टसाधनताज्ञानस्य ज्ञानं न प्रवृत्तिकारणं गौरवात्, किन्तु मत्कृतिसाध्यत्वे सति मदिष्टसाधनताज्ञानमेव लाघवात्, यथा च साध्यत्व-साधनत्वयोरविरोधः अनागतस्य पाकादेः कृतिसाध्यत्वज्ञानञ्च तथोपपादितमेव किञ्च परकृतिसाध्यत्वमज्ञात्वापि स्वकृतिसाध्येष्टसाधनताज्ञानात् स्वकल्पितलिप्यादौ यौवने कामोद्रेकात् सम्भोगादौ प्रवृत्तेश्च तदेव प्रवर्तकम् ।

वस्तुतस्तु सिद्धविषयककृतिसाध्यताज्ञानात् कथं कृत्या साधयामीतीच्छा सिद्धे इच्छाविरहात् असिद्धस्याज्ञानात् ।

अथ सिद्धविषयादेव कृतिसाध्यताज्ञानात् असिद्धविषया कृतिसाध्यत्वेनेच्छा ज्ञायते इच्छाया असिद्धविषयत्वस्वभावत्वादेकप्रकारकत्वेन ज्ञान-चिकीर्षयोः कार्य-कारणभावो न त्वेकविषयत्वे सति गौरवात्, इच्छाया अनागतविषयत्वात् तस्य चाज्ञानात् तथात्वदर्शनात् सुखादीच्छायामप्येवमिति चेत्, न, असिद्धविषयेच्छानुरोधेनानागतज्ञानोपायस्य दर्शितत्वात् ।

अस्तु चैवं, तथापि कृतिसाध्यताज्ञाने इष्टसाधनत्वमेव व्यावर्तकमस्तु स्व-परकीयेष्टसाधनताज्ञान-फलकामनाज्ञानापेक्षया लघुत्वात् इष्टसाधनताज्ञानज्ञानस्य फलकामनाज्ञानस्य च हेतुत्वे मानाभावाच्च ।

नव्यास्तु स्वकृतिसाध्यताज्ञानमेव प्रवर्तकं तेन स्वकृत्यसाध्ये वृष्ट्यादौ कारीर्याञ्च कृषीवलस्य न प्रवृत्तिः ।

न च सञ्जातबाधस्य विषभक्षणे प्रवृत्तिप्रसङ्गः, स्वकृतिसाध्यताज्ञानविषये इष्टत्वस्य स्वरूपसतः प्रवृत्तौ सहकारित्वात् ।

न च सञ्जातबाधस्य विषभक्षणादाविच्छास्ति, इष्टसाधनत्वेनाज्ञानात् अतीतभोजनेऽप्यत एव न प्रवर्तते तृप्तेः सिद्धतया इच्छाविरहेण भोजने तदुपाधिकेष्टत्वाभावादतीततृप्ताविच्छा नास्तीति तत्साधनेऽपीष्टत्वाभावादेव न प्रवृत्तिः ।

न चैवं पाके न प्रवर्तेत तस्य स्वरसतैष्टत्वाभावादिति वाच्यम् ।

इष्टसाधनत्वज्ञानेन तस्यापीष्टत्वात् ।

हन्तैवं प्राथमिकत्वादिष्टत्वार्थमवश्यापेक्षणीयत्वाच्च कृतिसाध्यत्वे सतीष्टसाधनताज्ञानमेव चिकीर्षाकारणमस्त्विति चेत्, न, इष्टासाधनत्वाभावेऽपि भोगे चिकीर्षासत्त्वात् तस्यां स्वकृतिसाधनत्वाभावेऽपि भोगे चिकीर्षासत्त्वात् तस्यां स्वकृतिसाध्यत्वज्ञाने सतीष्टत्वमेव कारणं न त्विष्टसाधनत्वं व्यभिचारात् ।

पाकादौ तदन्वय-व्यतिरेकावपीष्टत्वोपक्षाणौ, एवं भोगेऽपि प्रवर्तेतेति चेत्, न, इष्टसाधनतापक्षेऽपि मुक्तिरूपेष्टसाधने सुखे प्रवर्तेतेति तुल्यम् ।

सुखे चिकीर्षा भवत्येव कृतिस्तु न भवति कृतेः ।

सिद्धवृत्त्यसिद्धक्रियाविषयत्वनियमादिति चेत्तुल्यम् ।

तस्मात् स्वकृतिसाध्यत्वं विधिरिष्टत्वं सहकारीति, मैवं, इष्टसाधनताज्ञानस्योपायेच्छायां हेतुत्वावधारणात्तस्यास्तज्जन्यत्वनियमादिच्छायाः स्वविषयेच्छानुत्पादकत्वनियमाच्च ।

ननु सिद्धौदनः कुतः पाके न प्रवर्तते, ओदनमात्रस्य सिद्धत्वेनेष्टत्वाभावात् ।

अत एवातीतभोजनादौ न प्रवर्तते अतीततृष्णादाविच्छाविरहात् ।

ननु सामुद्रकविख्याते भावियौवनरोज्ये भोगसाधने स्वकृतिसाध्यत्वे सतीष्टसाधनत्वज्ञानात् कुतो न प्रवर्तते, भाविराज्यस्यासिद्धत्वात् प्रवत्तेः सिद्धविषयत्वनियमात् राज्योपायापरिचयाच्च ।

तत्परिचये च प्रवर्तत एव देवताराधनादाविति चेत्, न, सिद्धे चिकीर्षाविरहेण यागादावप्यप्रवृत्तिप्रसङ्गात् देवताराधनादेरप्यसिद्धत्वे न तत्राप्यप्रवृत्तिप्रसङ्गाच्च ।

किञ्च राज्योपयापरिचये तत्र मा प्रवर्त्तिष्ट स्वकृतिसाध्येष्टसाधनत्वेन ज्ञाने राज्ये प्रवृत्तिप्रसङ्गे किमायातं ।

न हि कृतिसाध्येष्टसाधनत्वेन ज्ञानेऽपि तदुपायज्ञानं तत्र प्रवर्तकं गौरवात् भिन्नविषयत्वाच्चेति चेत् मैवं यौवने हि यावत् प्रवर्तत एव राज्ये बाल्ये तु राज्योपायमकृत्वा मत्कृत्येदानीं राज्यं न सिद्ध्यतीति स्वकृत्यसाध्यताज्ञानादेव न प्रवर्तते यथा तण्डुलं विना पाके स्वकृत्यसाध्यताज्ञानात् राज्योपाये तु स्वकृतिसाध्येष्टसाधनत्वेन ज्ञाते देवताराधनादौ प्रवर्तत एव ।

अत एव व्रीह्यवघातमकृत्वा पुरोडाशस्तमकृत्वा यागस्तमकृत्वापवूर्वं साधयितुं न शक्यत इति क्रमशोऽवघातादौ प्रवर्तते न युगपत् सिद्धवृत्त्यसिद्धक्रियाविषयाविषयस्वभावत्वात् प्रवृत्तेः यागानन्तरञ्च नापूर्वे प्रवर्तते ।

कृत्यन्तरं विनैव यागकृतितस्तत्सम्भवात् ।

इष्टसाधने चेष्टोत्पत्तिनान्तरीयकदुःखाजनकत्वं विशेषणं न तु तज्ज्ञानाभावः कारणं किन्तु तदेव विषयतया कारणतावच्छेदकं लाघवात् तेन मधु-विषसम्पृक्तान्नभोजने न प्रवृत्तिः, परेणापि प्रवृत्तिपूर्वं लिङ्गविशेषणत्वेन अन्यथा वा तज्ज्ञानविनियोगस्वीकारात् ।

एवञ्चाल्पायाससाध्यादिष्टोत्पत्तिसम्भवे बह्वायाससाध्ये न प्रवृत्तिः ।

अत एव श्रुतस्वर्गफलकत्वेऽपि बहुवित्तव्ययाससाध्ये ज्योतिष्टोमादौ फलभूमा कल्पने अन्यथाल्पायासासध्यादेव स्वर्गसिद्धिसम्भवे तत्राप्रवृत्तौ अननुष्ठानलक्षणमप्रामाण्यं तद्विधेः स्यात् ।

बलवदनिष्टाननुबन्धित्वञ्च न विशेषणं बहुवित्तव्ययायाससाध्यबहुतरदुःखस्याप्यबलवत्त्वं क्वचिदल्पदुःखस्यापि बलवत्त्वं ।

तस्याप्युक्तातिरिक्तस्याननुगमात् ।

आस्तिकस्य निषिद्धत्वेन ज्ञातेऽपि प्रवृत्तिः राग-द्वेषयोरुत्कटत्वेन नरकसाधनत्वज्ञानतिरोधानात् ।

ननु न कलञ्जं भक्षयेदित्यत्र विध्यर्थनिषेधानुपपत्तिः तद्भक्षणस्य तृप्तिरूपेष्टसाधनत्वात् ।

न चासुराविद्यादिवत् पर्युदासलक्षणया विरोध्यनिष्टसाधनत्वबोधनं नञोऽसमस्तत्वात् क्रियासङ्गतत्वेन प्रतिषधवाचकत्वव्युत्पत्तेश्चेति चेत् न विशेष्यवति विशिष्टनिषेधस्य सविशेषणे हीति न्यायेन विशेषणनिषेधपर्यवमायितया कलञ्जभक्षणमिष्टोत्पत्तिनान्तरीयकदुःखातिरिक्तदुःखसाधनमिति न कलञ्जं भक्षयेदित्यनेन बोधनात् ।

इष्टसाधनतावाचकस्य सिद्धेः सामान्यतो निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धीष्टसाधनत्वविशेषनिषेधतात्पर्यं तथाचाशक्यविशेषनिषेधपरत्वं नञ इति कश्चित् ।

तन्न ।

यथा ह्ययोग्यतया सच्छिद्रं विहाय घटत्वेन तदितरान्वयो न तु छिद्रेतरत्वेन युगपद्वृत्तिद्वयविरोधात् तथात्रापि बलवदनिष्टाननुबन्धित्वेनानुपस्थितौ कथं तन्निषेधः ।

श्येनेनाभिचरन् यजेतेत्यत्र कथं विधिप्रवृत्तिः हिंसाया बलवदनिष्टानुबन्धित्वात् इति चेत् तत्र कृतिसाध्यत्वे सतीष्टसाधन्त्वमेव योग्यतयान्वेति न तु बलवदनिष्टाननुबन्धित्वमपि अयोग्यत्वात् ।

निन्दार्थवादेन प्रायश्चित्तोपदेशेन च हिंसाया बलवदनिष्टानुबन्धित्वावगमात् ।

अत एव विहितेऽपिश्येने विगानान्न तात्विकप्रवृत्तिः ।

राग-द्वेषयोरुत्कटत्वेनानिष्टानुबन्ध्यंशस्य तिरस्कारात् ।

कस्यचित् प्रवृत्तिरित्येके ।

अन्ये त्वभिचारस्य वैरिबधफलकत्वेन श्रुतत्वात् बधसाधनत्वेन श्येनो विधीयते न तु बधसाध्यनरकसाधनत्वेन नरकस्य फलत्वेनाश्रुतेः ।

न च जनकजनकस्य जनकत्वनियमः कुम्भकारपितृपरम्परायाः कुम्भजनकत्वापत्तेः विधिनैव श्येनस्य बलवदनिष्टाननुबन्धित्वबोधनाच्च ।

न च श्येनस्य बलवदनिष्टाननुबन्धित्वबोधनाच्च ।

न च श्येनस्य नरकाहेतुत्वे अपेक्षितवैरिबधहेतुत्वे वा अविगानेन प्रवृत्तिः स्यादिति वाच्यम् ।

श्येनाद्बधो बधाच्चावश्यं नरक इति प्रतिसन्धानेन विगानात् ।

ननु श्येनोमरणफलकव्यापारत्वेन हिंसा सा च नरकजनिकेति चेत् न न हि साक्षात् परम्परासाधारणमरणफलकव्यापारो हिंसा कूपादौ विनष्टे गवि तत्कर्त्तुर्गोबधकर्त्तुत्वापत्तेः बध्यस्यापि हन्तुर्मृत्यूत्पादनद्वारेणात्महन्तृत्वप्रसङ्गाच्च ।

न हि अनुत्पादितमन्युः कश्चित् कमपि व्यापादयति किन्त्वनुनिष्पादिमरणफलकोव्यापारो हिंसा यदनन्तरं मरणं भवत्येव ।
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:07.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

काळजीचा धगड

  • [धगड=नवरा 
  • वरचढ माणूस] अत्‍यंत बेफिकीर, निष्‍काळजी. 
RANDOM WORD

Did you know?

mahameruyantrachi shastrashudh mahiti sangavi. Gharat thevnyasathiche mahameruyantra pokal ki bhariv ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site