संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|तत्त्वचिन्तामणी| आसत्तिवादसिद्धान्तः तत्त्वचिन्तामणी शब्दाप्रामाण्यवादः शब्दाकाङ्क्षावादपूर्वपक्षः शब्दाकाङ्क्षावादसिद्धान्तः योग्यतावादः योग्यतावादसिद्धान्तः आसत्तिवादपर्वपक्षः आसत्तिवादसिद्धान्तः तात्पर्यवादः शब्दनित्यतावादपूर्वपक्षः शब्दानित्यतावादसिद्धान्तः उच्छन्न-प्रच्छन्नवादः विधिवादपूर्वपक्षः विधिवादसिद्धान्तः तत्त्वचिन्तामणी - आसत्तिवादसिद्धान्तः तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे. Tags : तत्त्वचिन्तामणीसंस्कृत आसत्तिवादसिद्धान्तः Translation - भाषांतर उच्यते, क्रियापदोपस्थापिता क्रिया, कारकपदोपस्थापितञ्च कारकं परस्परमाकाङ्क्षति न तूपस्थितिमात्रं अन्यथा द्वारं कर्मता पिधेहि, द्वारं पिधानं कृतिरित्यत्रापि क्रिया-कर्माध्याहार इवान्वयबोधप्रसङ्गःक्रियायाः कर्मणश्चोपस्थितेस्तुल्यत्वात् ।एवं विधपदोपस्थापिते परस्परमाकाङ्क्षा नस्तीति चेत्, तर्ह्याकाङ्क्षायां पदविशेषोपस्थापितत्वं तन्त्रं न तूपस्थितिमात्रं, अर्थविशेषेऽसाधुत्वान्नात्रान्वयबोध इति चेत्, न, पिधेहीति पदं विना द्वारमित्यस्याप्यसाधुत्वात् तदर्थयोगे साधुत्वस्य तुल्यत्वात् साधुत्वज्ञानस्यान्वयबोधेऽप्रयोजकत्वाच्च गौरवादपभ्रंशादप्यन्वयबोधाच्च ।न चात्रासंसर्गाग्रहः, बाधकाभावात् ।तस्मात् क्रिया पदस्य कारकपदेन कारकपदस्य क्रियापदेन सहान्वयबोधकत्वं न त्वेकं विना तृतीयानुपपत्तिः, नहि क्रियापदार्थयोगे द्वितीया, घट आनयनं कृतिरित्यत्रापि द्वितीयापत्तेः, तथा च पुष्पेभ्य इत्यत्र स्पृहयतिपदाध्याहारं विना चतुर्थ्यनुपपत्तिः ।यदि स्पृहयति पदार्थयोगे चतुर्थो तदा पुष्पमिच्छतीत्यत्रापि स्यात् स्पृहयतीच्छतिपदयोरेकार्थत्वात् ।अथ साधुत्वार्थ द्वारं पुष्पेभ्य इत्यत्र पिधेहि-स्पृहयतिपदाध्याहारोऽनुमन्यते न त्वन्वयबोधार्थं तस्यान्वयप्रतियोगिविज्ञानादेवोपपत्तेरिति चेत्, तर्हि क्रियापदयोगं विना न कारकविभकिः, कारकपदयोगं विना न तदन्वययोग्यं क्रियापदमिति केवलकारकपदे क्रियापदाध्याहारः, केवलक्रियायाञ्च कारकपदाध्याहारः साधुत्वार्थमावश्यक इति तज्जन्योपस्थितिरन्वयबोधौपयिको तस्मात् क्रिया-कारकपदोपस्थापितयोरेव क्रिया-कारकयोः परस्परमन्वय इति शब्दाध्याहार एव ।कर्त्राक्षेपे तु वक्ष्यामः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP