संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|तत्त्वचिन्तामणी| योग्यतावादसिद्धान्तः तत्त्वचिन्तामणी शब्दाप्रामाण्यवादः शब्दाकाङ्क्षावादपूर्वपक्षः शब्दाकाङ्क्षावादसिद्धान्तः योग्यतावादः योग्यतावादसिद्धान्तः आसत्तिवादपर्वपक्षः आसत्तिवादसिद्धान्तः तात्पर्यवादः शब्दनित्यतावादपूर्वपक्षः शब्दानित्यतावादसिद्धान्तः उच्छन्न-प्रच्छन्नवादः विधिवादपूर्वपक्षः विधिवादसिद्धान्तः तत्त्वचिन्तामणी - योग्यतावादसिद्धान्तः तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे. Tags : तत्त्वचिन्तामणीसंस्कृत योग्यतावादसिद्धान्तः Translation - भाषांतर उच्यते बाधकप्रमाविरहो योग्यता, सा चेतरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावः । प्रमेयं वाच्यमित्यत्र प्रमेयनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वं गोत्वे प्रसिद्धं वाच्यत्वसंसर्गे तदभावः ।वस्तुतस्त्वितरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोग् इतावच्छेदकधर्मशून्यत्वं योग्यता लाघवात् शक्यज्ञानत्वाञ्च ।न च नरशिरःशौचानुमानबाधात् तदशौचबोधकशब्दात् अन्वयाबोध इति वाच्यम् ।उपजीव्यजातीयत्वेन शब्दस्य बलवत्त्वात् तेनैव तदनुमानबाधात् ।नन्वाकाङ्क्षासत्तिमत्त्वेन शब्दस्य प्रमाणता न तु योग्यतापि तन्निवेशिनो बाधाभावस्य प्रमामात्रहेतुत्वादिति चेत् ।न ।बाधे हि प्रमाणदोषोऽवश्यं वक्तव्यः, अन्यथा प्रमाणविषये बाधासम्भवात् यथानुमाने बाधादुपाधिकल्पनद्वारा व्याप्तिविघातः, निरूपाधौ बाधानवकाशात् ।सेयं न स्वरूपसतो प्रयोजिका शाब्दभासोच्छेदप्रसङ्गात् ।तन्निश्चयश्च न भवत्युपायाभावात् इति चेत् ।न ।संशय-विपर्य-प्रमासाधारणस्य योग्यताज्ञानमात्रस्य कारणत्वात् ।अयोग्यताज्ञानस्य प्रतिबन्धकस्य सर्वत्राभावात् क्वचित्तन्निश्चयोऽपि योग्यतानुपलब्धा यथेह घटो नास्तीति । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP