तत्त्वचिन्तामणी - आसत्तिवादपर्वपक्षः

तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे.


आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः, सा च स्मृतिर्नानुभवोऽतोनान्योन्याश्रयः ।

अथ नानाविशेषणक-कर्म-कर्त्तृ-करणाधिकरण-क्रियादिक्रमिकपदज्ञानजन्यक्रमिकपदार्थस्मृतीनां न यौगपद्यं सम्भवति आशुतरविनाशिनां क्रमिकाणां मलकानुपपत्तेरिति कथं तावत्पदार्थान्वयबोधः विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्येति चेत्, श्रौत्रप्रत्येकपदानुभवजन्यसंस्कारमेलकादेकदैव तावत्पदस्मृतिः तत एकदैव तावत्पदार्थस्मृतौ सत्यां वाक्यार्थानुभवः ।

न चान्यविषयकसंस्कारेण नान्यत्र स्मरणमिति वाच्यम् ।

वक्यार्थानुपपत्त्या फलबलेन संस्काराणां परस्परसहकारेण तत्रैकस्मरणकल्पनात् ।

प्रत्येकवर्णसंस्काराणामिवानन्यगतिकतया पदस्मरणे ।

अथ यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते ।

तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते&& ।

न चैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावादिति वाच्यम् ।

एवमपि प्रथममनन्वये हेत्वनुपन्यासात् उत्तरस्य हीदं सामग्रीवैकल्यं न पूर्वस्येति चेत्, अस्तु तावदेवं तथापि चरमं तावत्पदार्थघटितवाक्यार्थानुभवे उक्तैव गतिरनन्यगतिकत्वात् ।

अत्र वदन्ति, सन्निधिर्न पदजन्यैवान्यवबोधहेतुः द्वारमित्यादौ अध्याहृतेनापि पिधानादिना अन्वयबोधदर्शनात् ।

न च पिधेहीति शब्द एवाध्याह्रियते, अनुपयोगात् ।

अर्थस्यैवान्वयप्रतियोगित्वेनोपयोगित्वात् आवश्यकत्वाच्च ।

अर्थापत्तेरुपपादकविषयत्वात् ।

न च शब्दमात्रमुपपादकं, अपि तु तदर्थः, अवश्यकल्प्यार्थसाहचर्येण दैववशसम्पन्नशब्दस्मृतेरन्यथासिद्धेः, अन्यथा पदबोधितस्यैवार्थस्यान्वयबोधकत्वमिति नियमशकिकल्पनापत्तेः ।

स्वार्थान्वयपरत्वाच्छब्दानां द्वारमिति न पिधानान्वयबोधकमिति तदन्वयबोधार्थमवश्यं शब्दकल्पनमिति चेत् ।

न ।

लक्षणानां व्यभिचारात् तवाप्याक्षिप्तेन कर्त्रान्वयबोधाच्च ।

अथ द्वारपदसहभावमात्रं पिधेहिशब्दस्य कल्प्यते लाघवात् ।

न च पिधानाभिधायकानेकशब्दोपस्थितौ विनिगमकविरहः, संस्कारतारतम्यात् पदविशेषस्मृतेरिति चेत् ।

न ।

आकाङ्क्षादिमत्प्रतियोग्यन्वितस्वार्थपरत्वस्य क्रृप्तत्वात् लाघवेनार्थाध्याहारात् ।

न च श्रुतपदानि लब्धप्रयोजनानीति कथमप्यध्याहृते तेषां तात्पर्यमिति वाच्यम् ।

श्रुतार्थान्वयानुपपत्त्या अध्याहृते

तात्पर्यात् ।

कथं तर्ह्येदनं पचतीत्यत्र समभिव्याहृतमात्रान्वयः कलायादेरपि स्मृतत्वात् इति चेत् ।

न ।

तात्पर्यनियमादित्यवेहि यत्परः शब्दः स हि शब्दार्थः, अन्यथा तवापि दैववशस्मृतकलायपदोपस्थापितेनान्वयबोधः स्यात् अयं देवदत्त ओदनमित्यादिवाक्ये क्रियापदाध्याहारभावेन कर्त्तुरनभिधानात् तृतीया स्यात् इति चेत् ।

न ।

अध्याहृतपचतिपदेनापि कर्त्तुरनभिधानात्, कर्त्तुसंख्याभिहितेति चेत् ।

न ।

देवदत्तस्य पाक इत्यत्रापि तृतीयापत्तेः, तात्पर्यतस्तच्च व्यवस्थेति चेत्, तुल्यम् ।

ननु द्वारं पिधेहीत्यादौ पिधानशब्दानुभवे पिधानोपस्थापकपदत्वेन जनकत्वमिति चेत् ।

न ।

अन्वयप्रतियोग्युपस्थापकपदत्वेन जनकत्वात् न तु तदुपस्थापकयावतत्पदत्वेन गौरवात् ।

एवं पिधानान्वयबोधेऽपि ।

अन्यथा गौण-लाक्षणिकयोरन्वयबोधो न स्यात् तयोरननुभावकत्वादिति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP