TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तत्त्वचिन्तामणी - शब्दानित्यतावादसिद्धान्तः

तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे.


शब्दानित्यतावादसिद्धान्तः
अत्रोच्यते ।

गकारादिव्यक्तयोनैकैकाः,अस्ति च शुक-सारिका-मनुष्यप्रभवेषु स्त्री-पुंसतद्विशेषप्रभवेषु च गकारादिषु स्फुटतरवैलक्षण्यात् स्वरूपतोभेदप्रथा इक्षुक्षीरादिमाधुर्यवत् ।

न चेयमौपाधिको भेदप्रतीतिः, न हि विदितकुङ्कुमस्य कुङ्कुमारुणा तरुणीति वत् स्त्री-पुंसप्रभवत्वमानुभविकमुपाधिः, इन्द्रियासन्निकर्षेण स्त्री-पुंसादिभेदमविदुषोऽपि शब्दभेदप्रत्ययात्, यतोऽनुमापयन्ति शुकशब्दोऽयं स्त्रीशब्दोऽयमित्यादि अन्यथान्योन्याश्रयात्, तत्प्रभवत्वे ज्ञाते भेदप्रत्ययस्तस्माच्च तदनुमानमिति ।

न च कृपाणान्वय-व्यतिरेकानुविधानात् कृपाणे मुखदीर्घत्ववत् औपपत्तिकमौपाधिकत्वं, अन्यानुविधानाभावात् ।

अथ व्यञ्जकावायोरेव वैलक्षण्यं शुकादिगकारगतत्वेन भासते वायोरुपलब्धिस्तेनैव रूपेणेति चेत् ।

न ।

गकारगतत्वे बाधकाभावात् ।

न चाभेदप्रत्यभिज्ञानं बाधकं, न हि य एव शुकशब्दः स एव स्त्रीशब्द इति प्रत्यभिज्ञानं, अन्यथा तेषु भेदज्ञानाभावेन वक्तृविशेषानुमानं न स्यात् ।

न चाभिव्यञ्जकवायोरेव वैलक्षण्यं शुकाद्यनुमापकं, तस्य गकारावृत्तित्वात् तत्र चारोपे अनुमितेर्भ्रान्तत्वापातात् ।

तस्मात् यथा कृष्णा गौः शुक्ला गौरिति भेदे भासमाने गकारानुगतप्रतीतिर्गोत्वमालम्बते तथा शुकादिगकारेषु भेदे भासमानेऽयं गकारोऽयमपि गकार इति बुद्धिर्गत्वमालम्बते इति प्रत्यभिज्ञा च भेदप्रथा चोपपद्यते ।

किञ्च गत्वादिकं यदि न जातिस्तदा कोलाहलप्रत्ययो न स्यात् तथा हि नगरादौ बहुभिर्वर्णानामेकदोच्चारणे दूरस्थेनानभिव्यक्तगकारादिवर्णविभागं कोलाहलमात्रं श्रूयते ।

न च तत्र वर्णान्यस्य ध्वनिरूपस्य शब्दस्य श्रुतिः सम्भवति, तदभिव्यञ्जकभेरीताडनादेरभावात् ।

न च वर्णाभिव्यञ्जका एव ध्वनिव्यञ्जकाः, सन्निधानेऽपि श्रूयमाणे वर्णे तच्छ्रवणप्रसङ्गात् ।

न च वर्णाभिव्यञ्जकवायुभिरेव दूरे ध्वनिमात्रमभिव्यज्यते, कव्यञ्जकस्य गव्यञ्जन इव वर्णव्यञ्जकस्य ध्वनिव्यञ्जनेऽसामर्थ्यात् तत्समर्थशङ्खादेरभावाच्च ।

न च तत्र शब्दत्वमेवप्रतीयते न शब्दः, व्यक्त्यग्रहे जात्यग्रहात् ।

न चाभिव्यञ्जको वायुरेव कोलाहलत्वेन प्रतीयते, शब्दत्वेन प्रत्ययात् सन्निधावपि तथा प्रत्ययप्रसङ्गाच्च ।

गकारादिग्रहेऽपि तेषां परस्परभेदाग्रहात् कोलाहलधीरिति चेत्, न, तेषु वैधर्म्याभावात् तदभावेऽन्योन्याभावस्याभावात् स्वरूपग्रहणात् समीपे बहुगकारेषु भेदाभावेन तदग्रहे कोलाहलधीप्रसङ्गाच्च ।

अनेकवर्णोच्चारणस्य तद्धेतुत्वे दूरेऽपि तदप्रत्ययापत्तेः ।

तस्मादवश्यं गत्वादिजातिरूपेया यदग्रहे गकारादिग्रहेऽपि कोलाहलबुद्धिव्यपदेशौ ।

अस्ति च शब्दस्य कोऽपि च जातिविशेषः श्रोत्रग्राह्यः यस्मात् प्राच्यादिदिग्देशविशिष्टशङ्खप्रभवत्वमनुमीयते, अव्यपदेशस्यत्वेऽपि इक्षुक्षीरादिमाधुर्यावान्तरवत्तत्सत्त्वात् ।

अन्यथा दिग्दशविशिष्टशङ्खादीनां ग्रहे श्रोत्रश्यासामर्थ्यात् तत्प्रतीतिर्न स्यादेव ।

तथापि गत्वादिना परापरभावानुपपत्त्या शुकादिगकारादिषु न जातिविशेषा इति चेत्, शुककारादिषु कत्वादिव्याप्या नानाजातिर्भिन्ना तया प्रत्येकं शुककारादिषु एका जातिरस्ति शुकप्रभवत्वाद्यनुमापिका तद्व्यवहारकारिका वा, गत्वादिना सङ्करप्रसङ्गात्, गत्वन्तु न नाना अननुगतत्वेन ततोऽनुगतव्यवहारानुपपत्तेः ।

अत एव तारत्वमपि गत्वादिव्याप्यं नाना न तु गत्वं, तन्निश्चयेऽपि गत्वसन्देहश्च व्याप्यतावच्छेदकत्वेनानुगतेन नानातारत्वेष्ठनुगतव्यवहारसम्भवात्, तदज्ञाने व्यवहारासिद्धेः ।

तारत्व-मन्दत्वे न जाती सप्रतियोगिकत्वात् इति चेत्, न तारत्व,तारतरत्वादयौत्कर्षादिरूपा जातिविशेषा एव ते चाश्रये गृह्यमाण एव गृह्यन्ते न तूत्कर्षावध्यपेक्षाः यथा मधुरतरत्वादय उत्कर्षव्यवहारं इतरसापेक्षाः कुर्वन्ति तथा मन्दाद्यपेक्षया तारत्वादिव्यवहारं, उत्कर्षस्तु जातिरूपादन्योऽसम्भावित एव गकारे तु नैवं, अनन्यथासिद्धभेदप्रत्ययबलेन वक्तृविशेषानुमानबलेन च तत्सिद्धेर्गत्व-कत्वव्याप्यतन्नानात्वस्वीकारात् ।

तवापि वायुवृत्तित्वे शुकादिककार-गकारादिव्यञ्जकवायूनां विजातीयत्वं वाच्यं तथा च ककारव्यञ्जकवायुत्वव्याप्यं यदि शुकवर्णाभिव्यञ्जकवायुत्वं तदा शुकगकारव्यञ्जकवायौ न स्यात्,अथ व्यापकं तदा सर्व एव कव्यञ्जकवायवः शुकवर्णाभिव्यञ्जकवायवः स्युस्तस्माद्वायुवृत्तित्वेऽपि तासां नानात्वमावश्यकं ।

अथास्तु स्त्री-पुंसादिगकारभेदस्तथापि यावद्वक्तृभेदमनन्ता एव नित्या वर्णाः प्रत्यभिज्ञानादिति चेत्, अत्युत्पाद-विनाशप्रतीतौ सत्यामपि स एवायं गकार इति प्रत्यभिज्ञा, अस्ति हि तदनन्तरमप्युत्पाद-विनाशप्रथा ।

न चोत्पादप्रतीत्यभेदप्रत्यभिज्ञयोरन्यतरस्य परस्परं विहायान्यद्बाधकमस्ति, न वानयोः परस्परं बाध्य-बाधकभावे विनिगमकं येनैकभ्रान्तत्वेनाविरोधः स्यात् ।

कथं वा भेदाभेदज्ञानयोरन्यत्रावधारितं परस्परप्रतिबन्धकत्वं परिभूय प्रथमं तयोरेकसत्त्वेऽप्यपरोत्पत्तिप्रसङ्ग इति सङ्कटप्रविष्टत्वेन प्रत्यभिज्ञानं शब्दनित्यत्वे प्रमाणयितुं न शक्यते ।

नन्वेवमुत्पत्ति ।

नन्वेवमुत्पत्तिमत्त्वादिनाप्यनित्यत्वसिद्धिः कथं, इत्थं, उत्पादादिबुद्धि-प्रत्यभिज्ञयोरप्यवश्यं विषयभेदः, एकविषयत्वे विरोधेनैकानन्तरमपरानुत्पत्तिप्रसङ्गात् ।

एवञ्च भेदे भासमाने प्रत्यभिज्ञायाः सजातीत्वं विषयो न व्यक्त्यभेदः ।

न चैवं तज्जातीयोऽमिति स्यात् न तु सोऽयमिति वाच्यम् ।

तज्जातीयत्वप्रतीतेरपि सोऽयमित्याकारदर्शनात् यथा सैवेयं गाथा तदेवेदमौषधं बहुभिः कृतं मयापि प्रत्यहं क्रियमाणमस्तीत्यादौ ।

न हि तावद्वर्णमात्रमानुपूर्वी, जरा-राज-नदी-दीनादिषु तन्नानात्वात्, किन्तु तदुच्चारणानन्तरमुच्चारणं तज्ज्ञानानन्तरं ज्ञानं वा तच्च नानेति तद्वती गाथापि नानैव ।

नचाभेदे भासमाने उत्पादादिबुद्धिरेवान्यस्योत्पादादिकमवगाहते, गाकारगतत्वप्रतीतेर्भ्रान्तत्व प्रसङ्गात् ।

न चेष्टापत्तिः, अभेदे भासमाने तद्विरुद्धधर्मवत्त्वभ्रमानुदयात् विनिगमकाभावेनोभयस्यापि यथार्थत्वाञ्च, कुतस्तर्हि

तस्या अभेदो विषयः, यत्र प्रथमं न भेदप्रथा अत एव भेदसत्त्वे तदज्ञानात् क्वचित् सा भ्रान्ता, तस्माद् यत्र भेदप्रतीतिस्तदितरबाधकाबाध्या तत्र प्रत्यभिज्ञैव न भवति भवन्ती वा तज्जातीयत्वमालम्बते, न तु भ्रान्ता, विशेषदर्शने भ्रमानुदयात् ।

अपि च यथा शङ्खादिध्वनीनां उत्पत्ति-विनाशप्रत्ययात् तारत्वादिविरुद्धधर्मसंसर्गाच्चानित्यत्वे सैवेयङ्गुर्जरीत्यादिप्रत्यभिज्ञा तज्जतीयत्वविषया तथा वर्णप्रत्यभिमापि ।

अन्यथा ध्वनयोऽपि नित्याः स्युः

उत्पत्ति-विनाश-तारत्वादिप्रतीतीनां प्रत्यभिज्ञानबलेनौपाधिकत्वात् । न च वर्णेषु तारत्वेनैव भासमाना ध्वनयौपाधयः सम्भन्ति, न तु ध्वनिषु वर्णास्तज्जनककण्ठताल्वाद्यभिघाताभावादिति वाच्यम् ।

वर्णोच्चारणदशायामपि गुर्जरीकादिजनकानामभावात् ।

तस्मात् उत्पत्ति-विनाश-तारत्वादिप्रत्ययस्य प्रत्यभिज्ञानस्य च तुल्यत्वे द्वयोरपि नित्यत्वमनित्यत्वं वा ।

न चोभयोरपि नित्यत्वमेव, उक्तन्यायेन प्रत्यभिज्ञायास्तज्जातीत्वविषयत्वात् ।

किञ्च यदि व्यङ्यः शब्दः स्यात् तदा बाह्यालोकाभावे घटस्येव व्यञ्जकाभावे शब्दस्यानुपलम्भात् तत्संशयः स्यात्, न त्विहेदानीं शब्दो नास्तीति निश्चयः तस्माद्वर्णो न नित्योऽनित्यो वा सत्त्वे सत्युत्पत्तिमत्त्वात्, अस्मदादिबहिरिन्द्रिय-ग्राह्यत्वे सति जातिमत्त्वात्, अस्मदादिप्रत्यक्षगुणत्वाद्वा, आत्मैकत्वप्रत्यक्षपक्षे प्रत्यक्षविशेषगुणत्वात्, व्यापकसमवेतप्रत्यक्षविशेषगुणत्वात्, अनात्मप्रत्यक्षगुणत्वात्, अव्याप्यवृत्तित्वात्, ईश्वरज्ञानञ्च न तथा, तत्प्रयोककारणाभावात्, बहिरिन्द्रियव्यवस्थाहेतुगुणत्वात्, भूतप्रत्यक्षगुणत्वात्, उत्कर्षापकर्षर्पशब्दप्रवृत्तिनिमित्तजातिमत्त्वाद्वेत्यादि, रसत्वादिव्याप्यजातेर्नानात्वेऽपि तादृशप्रवृत्तिनिमित्तत्वस्य साधारण्यात् ।

न चात्र साधनावच्छिन्नस्य पक्षधर्मावविच्छन्नस्य वा साध्यस्य व्यापकः स्पर्शवत्समवेतत्वं उपाधिः, सर्वत्र वर्णात्मकशब्दपक्षीकरणे व्योमगुणेष्ठनित्येषु ध्वनिषु साध्याव्यापकत्वात् स्पर्शवत् पदस्य पक्षमात्रव्यावर्तकत्वेन पक्षेतरत्वाच्चेति ।

यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसमुहरूपाणां पदानां, कुतस्तराञ्च तत्समूहरूपस्य वाक्यस्य कुतस्तमाञ्च तत्समूहस्य वेदस्येति ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:06.8800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गोतम

RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.